________________
वैयाकरणभूषणसारे। . यद्यपि वर्णस्फोटः पदस्फोटोवाक्यस्फोटः अखण्डपदवाक्यस्फोटौ वर्णपदवाक्यभेदेन त्रयो जातिस्फोट इत्यष्टौ पक्षाः सिद्धान्तसिद्धा इति वाक्यग्रहणमनर्थकं दुरर्थकञ्च तथापि वाक्यस्फोटातिरिक्तानामन्येषामप्यवास्तवत्वबोधनाय तदुपादानम् एतदेव ध्वनयति अतिनिष्कर्षइति। मतस्थितिः वैयाकरणानां महाभाष्यकारादीनाम् । तत्र क्रमेण सर्वान् तान् निरूपयन् वर्णस्फोटं प्रथममाह साधुशब्द इति । साधुशब्दानन्तर्गता वाचका नवेति विप्रतिपत्तिः । विधिकोटिरन्येषां नति वैयाकरणानां साधुशब्दे पचति राम इत्यादिप्रयुज्यमानेऽन्तर्गतास्तिब्बिसर्गादय एव ( बोधकाः ) वाचकाः तस्यैव शक्तत्वस्य प्राग्व्यवस्थापितत्वात् । न तु तैः स्मृताः लादयः खादयश्चेत्यर्थः ॥ ५९॥
ये तु प्रयोगान्तर्गतास्तिविसर्गादयोन वाचका तेषां बहुत्वेन शक्त्यानन्त्यापत्तेः एधाश्चके ब्रह्मेत्यादावादेशलुगादेरभावरूपस्य बोधकत्वासम्भवाच्च । किन्तु तैः स्मृता लकाराः स्वादयश्च वाचकाः लत्वस्य जातिरूपतया शक्ततावच्छेदकत्वौचित्यात् अव्यभिचाराच्च आदेशानां भिन्नतया परस्परच्यभि चारित्वात् लः कर्मणीत्याद्यनुशासनानुगुण्याच्च । न ह्यादेशेष्वर्थवत्ताबोधकमनुशासनमुपलभामहे इत्याहुः । तान् वसाधकयुक्तिभिर्निराचष्टे । व्यवस्थितेर्व्यवहृतेस्तद्धेतुन्यायतस्तथा । किञ्चाख्यातेन शत्राद्यैर्लडेव स्मार्यते यदि । कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय॥६०॥