________________
स्फोटनिरूपणम् ।
९१
थौदनं पक्वाहं भोक्ष्ये इत्यत्र मयेति तृतीयाप्रसङ्गः । न चाख्यातेन कर्तुरभिधानान्न सेति वाच्यम् भोजनक्रियाकर्तृ रभिधानेऽपि पाकक्रियाकर्तुस्तदभावात् अनभिहिते भवतीति पर्युदासाश्रयणात् । अतएव प्रासादे आस्ते इत्यत्र प्रसादनक्रियाधिकरणस्याभिधाने ऽप्यस्तिक्रियाधिकरणस्यानभिधानात् सप्तमीति भाष्ये स्पष्टम् । तस्मात् क्त्वाप्रत्ययस्य कर्तृवाचित्वमावश्यकमिति तन्न सूत्रात्तस्य वाच्यत्वालाभात् । समानकर्तृकयोः क्रिययोः पूर्वकाले क्त्वा इत्येव तदर्थात् अन्यथा समानकर्त्तरीत्येव सूत्रन्यासः स्यात् । तृतीयापादनन्तु आख्यातार्थक्रियायाः प्रधानभूतायाः कर्तुरभिधानात्प्रधानानुरोधेन गुणे कार्यप्रवृत्तेर्न सम्भवति । उक्तञ्च वाक्यपदीये ॥ प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते । प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यथा गुणे तथा तद्वदनुतापि प्रतीयते इति । किञ्चान्यथा कर्म्मणोऽपि क्वार्थतापत्तिः पक्त्वोदनो मया द्वितीयायाः प्रकारान्तरेणावारणादित्यास्तां
भुज्यतइत्यत्र
विस्तरः ॥ ५८ ॥
इति वैयाकरणभूषणसारे क्वाद्यर्थनिर्णयः ।
सिद्धान्तनिष्कर्षमाह । वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः । साधुशब्देऽन्तर्गता हि बोधका नतुतत्स्मृताः ५९