SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः गुणभूता इन्यादिभिरित्यर्थः । नच वृत्तिमात्रे समुदायशक्तेर्वक्ष्यमाणत्वातत्रान्तर्गता भावना पदार्थकदेशइति कथं तत्रान्वयइति वाच्यम् नित्यसापेक्षेष्वेकदेशेऽपि “देवदत्तस्यगुरुकुलं ”““चैत्रस्यनप्ते त्यादाविवान्वयाभ्युपगमात् । एवं भोक्तुं पाकः भुक्त्वा पाकइत्यपि द्रष्टव्यम् ।। १९ ।। अतिप्रसङ्गमाशङ्कय संमाधत्ते । २९ कृत्वोर्थाः क्त्वातुमुन्वत्स्युरिति चेत्सन्ति हि क्वचित् अतिप्रसङ्गोनोद्भाव्योऽभिधानस्य समाश्रयात् ॥ भोक्तुं पाकः भुक्त्वा पाकइत्यादौ “तुमुण्ण्वुलौं क्रियायां क्रियार्थायाम्” “समानकर्तृकयोः पूर्व्वकाल,, इति क्रियावाचकोपपदे क्रिययोः पूर्वोत्तरकाले विधीयमाना अपि तुमुन्नादयो गुणभूतां तामादाय यथा जायन्ते तथा कृत्वोऽर्था अपि स्युः । एकः पाकइत्यत्र “एकस्य सकृच्च, द्वौपाक त्रयश्चत्वारइत्यत्र “द्वित्रिच - तुर्भ्यः सुच्,, । पञ्चेत्यत्र कृत्वसुच् स्यात् । तथा च सकृत्पाकः द्विः त्रिश्चतुः पाक इत्याद्यापत्तिरिति चेदिष्टापत्तिः द्विर्वचनामित्यादिदर्शनात् । . अतिप्रसङ्गस्त्वनभिधानान्नेत्याह । अतीति । “नहिवचिरन्तिपरः प्रयुज्यत, इत्याद्यभियुक्तोक्तरीत्या समाधेयमिति भावः । कोचत्तु “क्रियाभ्यावृत्तिगणन, इत्यत्र क्रियाग्रहणं व्यर्थ तस्याए - * तथा च गुरुत्वादेरन्यनिरूप्यत्वेन तदुपस्थितौ नियमेन जायमानाया निरूपकाऽऽकाङ्क्षाया निवृत्तये देवदत्ताऽऽद्यन्वयवत्प्रकृतेऽपि किं साधकं गमनरूपसाध्यमिति साधनाऽऽकाङ्क्षानिवृत्तये ग्रामादिकर्माऽन्वयस्याऽऽवश्यकत्वान्न दृष्टान्ताऽसङ्गतिरिति भावः ।
SR No.023376
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy