________________
Vada] .. Ganadharavada
। : 61 : Trans.-40-41-42 Gautama! You do not know the (real) meaning of these sentences of the Veda. For, you believe that none but the assemblage of ( the particles of) knowledge, after having arisen from elements, in the way in which intoxication arises, from the sources of spirituous liquors; is a soul consisting of knowledge only-the soul which has sprung up from the collection of elements. It again perishes after the elements ( have perished ), and that there is no designation in the previous birth to the effect that it was named as such and such in the former birth (existence ) and hence it is said that the soul does not go from one bhava, to another existence. ( 1588-1589-1590)
टीका-गौतम ! इत्यामन्त्रणम् , वेदपदानां श्रुतिवाक्यानाममीषां "विज्ञानघन एवैतेभ्यः" इत्यादीनां चेतसि वर्तमानानामर्थं यथावस्थितं त्वं न जानासि नावबुध्यसे । किमिति ? अत आह-यद् यस्मात् त्वमात्माभिप्रायेणैवंभूतमिहार्थं मन्यसे विकल्पयसीति संबन्धः । कथं भूतम् ? इत्याह"विण्णाणघणो चियत्ति" पृथिव्यादिभूतानां विज्ञानलवसमुदायो विज्ञानधनः पृथिव्यादिविज्ञानांशानां पिण्ड इत्यर्थः, अवधारणं त्वात्मवादिपरिकल्पितस्य
भूतसमुदायातिरिक्तस्य ज्ञान-दर्शनादिगुणाश्रयस्यात्मनो निरासार्थम् । भूते• भ्यः पृथिव्यादिभ्यः समुदितेभ्यो न तु व्यस्तेभ्यः, ज्ञानस्य तत्समुदायपरिणामाङ्गीकारादिति भावः, मद्याङ्गेषु मद्यकारणेषु धातक्यादिषु मदभाव.इव; कथंभूतो विज्ञानधनः ? इत्याह--" भूयसमुदउन्भूओ विन्नाणमेत्तमाय ति" भूतसमुदयादुद्भूतस्तदैव जातो न तु परभवात् कश्चिदायातो विज्ञानमात्ररूप आत्मेत्यर्थः, समुत्थायोत्पद्य ततस्तान्येव पृथिव्यादीनि भूतानि विनाशमश्नु वानान्यनु लक्षीकृत्य भूयः पुनरपि स विज्ञानघनो विज्ञानमात्ररूप आत्मा विनश्यति, न त्वात्मवादिनामिवान्यभवं याति । अत एव न प्रेत्यभवे परभवे संज्ञास्ति, यत् पूर्वभवे नारकादिजन्मन्यभिधानमासीत् तत् परभवे नास्ति, यदुत-अमुको नारको देवो वा भूत्वेदानी मनुष्यः संवृत इत्यादि, नारकादेः प्रागेव सर्वनाशं नष्टत्वादिति भावः। किमिह वाक्ये तात्पर्यवृत्त्या प्रोक्तं भवति ? इत्याह-" जं भणियमित्यादि " सर्वथात्मनः समुत्पद्य विनष्टत्वाद् न भवाद्