Book Title: Gandharwad
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Jain Granth Prakashak Sabha

Previous | Next

Page 577
________________ :: 536 :. Jinabhadra Gaņi's (The eleventh dislikes are produced from sinful or virtuous deeds. Moreover, likes and dislikes cannot affect a dispassionate ( person ) owing to his ( high ) knowledge and irresistability. He enjoys natural and perfect happiness. So, what is the sense in asserting the negation of happiness ? ( 2022-2023) टीका-एवमुक्तप्रकारेण मुक्तो जीवो भवेदित्यकामैरप्यभ्युपगतमस्माभिः, तथा च सति जीवस्य कर्मवियोगलक्षणो मोक्षः, तत्र जीवसत्वं च सिद्धम् । यत्तु निःसुख-दुःखत्वं सिद्धस्य मया प्रेरितं तत् "प्रिया-ऽप्रिये अशरीरं न स्पृशतः" इति वचनात् तदवस्थमेव । अत्रोत्तरमाह-तदेतद् न, यस्मात् पुण्य-पापकर्मजनिते एव जीवानां प्रिया-ऽप्रिये सांसारिकसुख-दुःखे भवतः। ते च तं क्षीणनिःशेषपुण्य-पापकर्माणं सकलसंसारार्णवपारप्राप्त मुक्तात्मानं न स्पृशत इत्युत्तरगाथायां संबन्धः। न चैतावता तस्य निःसुखत्वमिति स्वयमेव द्रष्टव्यम् । कुतः ? इत्याह-" नाणेत्यादि" ज्ञानत्वे सत्य. नाबाधरूपत्वादित्यर्थः । यच्च तद् मुक्तस्य सुखं मुक्तसुखं स्वाभाविक निष्प्रतीकारं निरुपमं च। “ मुत्तस्स परं सोक्खं जाणा-ऽणाबाहओ जहा मुणिणो" इत्यादिना प्रागेव साधितम् , तत् तस्य वीतराग-द्वेषस्य मुक्तात्मनो न प्रियं न पुण्यजनितं सुखं भण्यते, न चाप्रियं न पापजनितं दुःखं भण्यते, किन्त्वेताभ्यां सर्वथा विलक्षणम् , अकर्मजनितत्वेन स्वाभाविकत्वात् , निष्प्रतीकाररूपत्वात् , निरुपमत्वात् , अप्रतिपातित्वाचेति । अथ " को पसंगोऽत्थ ति" " अशरीरं प्रिया-ऽप्रिये न स्पृशतः" इत्युक्ते कोऽत्र मुक्तात्मनि मुक्तसुखाभावप्रसङ्गः ?-न कश्चिदित्यर्थः, पुण्यपापजनितप्रिया-ऽप्रिययोरभावे तस्य सुतरामेव भावात् । तस्मात् " न ह वै सशरीरस्य०" इत्यादिवेदपदैर्यथोक्तनीत्या जीव-कार्मणशरीरविरहलक्षणो मोक्षः, मुक्तावस्थस्य च जीवस्य सत्त्वम् , तथा, " अशरीरं प्रिया-ऽप्रिये न स्पृशतः" इत्यतोऽपि वचनात् पुण्य-पापक्षयसमुत्थं स्वाभाविकम् , अप्रतिपाति सुखं चास्य, इत्येतत्रितयं सिद्धम् । अत एतदनभ्युपगच्छतस्तवाभ्युपगमविरोध इति स्थितम् । यदपि "जरामयं वैतत् सर्व यदग्निहोत्रम्" इत्येतस्माद् वाक्याद् मोक्ष

Loading...

Page Navigation
1 ... 575 576 577 578 579