________________
: 468 :___Jinabhadra Gani's
(The tenth Jivo vinnānamao tam cāniccam ti to na paralogo Aha vinnānādanno to anabhinno jahāgāsam 411 ॥ ( 1959 ) Itto cciya na sa kattā bhottā ya ao vi natthi paralogo i Jam ca na samsārî so annānā-'muttio kham va 11 412 u ( 1960 ) [जीवो विज्ञानमयस्तञ्चानित्यमिति ततो न परलोकः ।
अथ विज्ञानादन्यस्ततोऽनभिज्ञो यथाऽऽकाशम् ॥ ४११ ॥ (१९५९) इत एव न स कर्ता भोक्ता चातोऽपि नास्ति परलोकः ।
यच्च न संसारी सोऽज्ञाना-ऽमूर्तित खमिव ॥ ४१२ ।। (१९६०) Jîvo vijñāmayastaccanityamiti tato na paralokah, Atha, vijñānādanyastato’nabhijio yatha’-kāśam u 411 || ( 1959 ) ] Ita eva na sa kartā bhoktā cāto'pi nāsti paralokahi Yacca na samsārî so'jnānā-murtitah khamiva || 412 || ( 1960 )]
Trans.-411-412 Jiva is ( said to be ) vijñānamaya and vijnana is a-nitya. So, there cannot be paraloka. If it is ( said to be ) different from vijnana, then also, jiva being ignorant like sky, it will neither be a doer nor an enjoyer, and then also, there will be no paraloka. ( For ), that which is ignorant and incorporeal like ākāśa, cannot belong to the mundane world. ( 1959-1960)
__टीका-व्याख्या-जीवो विज्ञानमयस्तावद् युष्माभिरिष्यते विज्ञानादभिन्न इत्यर्थः । तच्च विज्ञानमनित्यं विनश्वरम् , अतस्तद भिन्नस्य जीवस्यापि विनश्वरत्वाद् न भवान्तरगमनलक्षणः परलोकः। अथ विज्ञानादन्यो जीवस्ततोऽनित्ये विज्ञाने जीवाद् भिन्ने सति स्वयं नित्योऽसाविति न परलोकाभावः। यद्येवम् , तर्हि अनभिज्ञो जीवः, विज्ञानादन्यत्वात् , आकाशवत् , काष्ठादिवद् वा । अत एव च नित्यत्वादेवासौ जीवो न कर्ता, नापि भोक्ता । नित्यस्य कर्तृत्वाद्यभ्युपगमे हि सर्वदैव तद्भावप्रसङ्गः, तस्य सदैवैकरूपत्वात् । कर्तृत्वाभावे च न परलोकः, अकृतस्य तस्याभ्युपगमे सिद्धानामपि तत्प्रसङ्गात् । भोक्तृत्वाभावेऽपि न परलोकः, अभोक्तुः परलोकहेतुभूतकर्मभोगायोगात् । इतोऽपि च न परलोकः । कुतः ? इत्याह-"जं चेत्यादि " यस्माच्च नासौ