Book Title: Gandharwad
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Jain Granth Prakashak Sabha

Previous | Next

Page 544
________________ Vada ] Gañadharavada • 503:. [ द्रव्याऽमूर्तत्ववत् स्वभावजातितस्तस्य दूरविपरीतम् । न हि जात्यन्तरगमनं युक्तं नभस इव जीवत्वम् ॥ ४४६ ।। (१९९४) Dravya’mūrtatvavat svabhāvajātitastasya dūraviparstain i Na hijātyantaragamanam yuktam nabhasa ivajivatvam|446||(1994)] Trans.--446 By virtue of its natural genesis like dravyatva and a-mūrtatva, it is far the most fallacious. Like life to sky, its transgression to the other genesis, is not proper. ( 1994 ) टीका-तस्य मुक्तात्मनो हि यस्मात् कारणाद् न युक्तमिति संबन्धः । किं तद् न युक्तम् ? इत्याह-एकस्या जीवत्वलक्षणाया जातेयंदजीवत्वलक्षणं जात्यन्तरं तत्र गमनं जात्यन्तरगमनम् , तन्न युक्तम् । कथंभूतं जात्यन्तरम् ? इत्याह-दूरमत्यर्थ विपरीतं दूरविपरीतम् । कस्या दूरविपरीतम् ? इत्याह - " सहावजाइउ ति" जीवत्वलक्षणा या स्वाभाविकी स्वभावभूता जातिः स्वभावजातिस्तस्याः। किंवद् या स्वभावजातिः ? इत्याह--उपमानप्रधानत्वाद् निर्देशस्य, द्रव्या-ऽमूर्तत्ववदिति द्रव्यत्ववदमूर्तत्ववञ्चत्यर्थः । स्वभावजातेदूरविपरीतं सत् कस्य यथा किं न युक्तम् ? इत्याह--नमस इव जीवत्वम् । इदमत्र हृदयम्-द्रव्यत्वम् , अमूर्तत्वं च जीवस्य तावत् स्वभावभूता जातिः, तस्याश्च यद् दूरविपरीतं जात्यन्तरमद्रव्यत्वम् , अमूतत्वं च, तत्र गमनं तस्य कस्यामप्यवस्थायां न भवति । एवं जीवत्वमपि जीवस्य स्वभावभूतैव जातिः, ततस्तस्या अपि स्वभावजातेयद् द्रविपरीतम जीवत्वलक्षणं जात्यन्तरं तत्र गमनं मुक्तावस्थायामपि तस्य न युज्यते । न ह्यजीवस्य सतो नभसः कदाचिदपि जीवत्वाप्राप्तिर्भवति । तस्माद् मुक्तो जीवो यथाऽद्रव्यं मूर्तश्च न भवति, तद्विपक्षस्वभावत्वात् एवं जीवस्वाभाव्याद जीवोऽप्यसौ कदाचिदपि न भवति; अन्यथा नभः-परमाण्वादीनामपि स्वस्वभावत्यागेन वैपरीत्यापच्याऽतिप्रसङ्गादिति । अत्राह-यद्येवम् , तर्हि यद् भवतैवोक्तम्-"अजीवो मुक्तात्मा, कारणाभावात् , आकाशवत्" इति, तत् कथं नेतव्यम् । अत्रोच्यते--परस्य प्रसङ्गापादनमेव तदस्माभिः कृतम्, तत्करणे च कारणमुक्तमेव, न पुनरनेन हेतुना मुक्तस्याजीवत्वं सिध्यति, प्रतिबन्धाभावात् ; तथाहि-यदि करणैर्जीवत्वं

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579