________________
Vada ] Gañadharavada
• 503:. [ द्रव्याऽमूर्तत्ववत् स्वभावजातितस्तस्य दूरविपरीतम् ।
न हि जात्यन्तरगमनं युक्तं नभस इव जीवत्वम् ॥ ४४६ ।। (१९९४) Dravya’mūrtatvavat svabhāvajātitastasya dūraviparstain i Na hijātyantaragamanam yuktam nabhasa ivajivatvam|446||(1994)]
Trans.--446 By virtue of its natural genesis like dravyatva and a-mūrtatva, it is far the most fallacious. Like life to sky, its transgression to the other genesis, is not proper. ( 1994 )
टीका-तस्य मुक्तात्मनो हि यस्मात् कारणाद् न युक्तमिति संबन्धः । किं तद् न युक्तम् ? इत्याह-एकस्या जीवत्वलक्षणाया जातेयंदजीवत्वलक्षणं जात्यन्तरं तत्र गमनं जात्यन्तरगमनम् , तन्न युक्तम् । कथंभूतं जात्यन्तरम् ? इत्याह-दूरमत्यर्थ विपरीतं दूरविपरीतम् । कस्या दूरविपरीतम् ? इत्याह - " सहावजाइउ ति" जीवत्वलक्षणा या स्वाभाविकी स्वभावभूता जातिः स्वभावजातिस्तस्याः। किंवद् या स्वभावजातिः ? इत्याह--उपमानप्रधानत्वाद् निर्देशस्य, द्रव्या-ऽमूर्तत्ववदिति द्रव्यत्ववदमूर्तत्ववञ्चत्यर्थः । स्वभावजातेदूरविपरीतं सत् कस्य यथा किं न युक्तम् ? इत्याह--नमस इव जीवत्वम् । इदमत्र हृदयम्-द्रव्यत्वम् , अमूर्तत्वं च जीवस्य तावत् स्वभावभूता जातिः, तस्याश्च यद् दूरविपरीतं जात्यन्तरमद्रव्यत्वम् , अमूतत्वं च, तत्र गमनं तस्य कस्यामप्यवस्थायां न भवति । एवं जीवत्वमपि जीवस्य स्वभावभूतैव जातिः, ततस्तस्या अपि स्वभावजातेयद् द्रविपरीतम जीवत्वलक्षणं जात्यन्तरं तत्र गमनं मुक्तावस्थायामपि तस्य न युज्यते । न ह्यजीवस्य सतो नभसः कदाचिदपि जीवत्वाप्राप्तिर्भवति । तस्माद् मुक्तो जीवो यथाऽद्रव्यं मूर्तश्च न भवति, तद्विपक्षस्वभावत्वात् एवं जीवस्वाभाव्याद जीवोऽप्यसौ कदाचिदपि न भवति; अन्यथा नभः-परमाण्वादीनामपि स्वस्वभावत्यागेन वैपरीत्यापच्याऽतिप्रसङ्गादिति ।
अत्राह-यद्येवम् , तर्हि यद् भवतैवोक्तम्-"अजीवो मुक्तात्मा, कारणाभावात् , आकाशवत्" इति, तत् कथं नेतव्यम् । अत्रोच्यते--परस्य प्रसङ्गापादनमेव तदस्माभिः कृतम्, तत्करणे च कारणमुक्तमेव, न पुनरनेन हेतुना मुक्तस्याजीवत्वं सिध्यति, प्रतिबन्धाभावात् ; तथाहि-यदि करणैर्जीवत्वं