Book Title: Gandharwad
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 461
________________ :420. Jinabhadra Gaņi's [The ninth means of karya and karana. So, like Agnibhati, you, too, ( shall have to ) accept (the existence of) Karma on account of actions as well as Karyas ( in the form of deha etc., ) and since Karma itself is the cause of good or bad ( in case of deha etc.), as well as other performances, admit punya and pāpa as belonging to different species by their very svabhāva ( 1914-1920) टीका-एताश्च गाथाः प्रायोऽग्निभूतिगणधरवादे व्याख्याता एव, सुगमाश्च । नवरं " कारण-कजाणुमेओ सो त्ति" स च जीव-कर्मणोः पुण्य-पापाभिधानः परिणामः कारणेन कार्येण चाऽनुमीयते-कारणानुमानात् कार्यानुमानाच्च गम्यत इत्यर्थ। एतदेवानुमानद्वयमाह-"किरियाणं कारणओ इत्यादि" दानादिक्रियाणां हिंसादिक्रियाणां च कारणत्वात् कारणरूपत्वादस्ति तत्फलभूतस्तत्कार्यरूपपुण्य-पापात्मको जीव-कर्मपरिणामः, यथा कृष्यादिक्रियाणां शालि-यव-गोधूमादिकम् । उक्तं च" समासु तुल्यं विषमासु तुल्यं सतीष्वसच्चाप्यसतीषु सच्च । फलं क्रियास्वित्यथ यन्निमित्तं तद् देहिनां सोऽस्ति नु कोऽपि धर्मः॥१॥" एतत् कारणानुमानम् । “देहाईणमित्यादि" देहादीनां कारणमस्ति, कार्यरूपत्वात् तेषाम् , यथा घटस्य मृद्-दण्ड-चक्र-चीवरादिसामग्रीकलितः कुलालः । न च वक्तव्यम्-दृष्ट एव माता-पित्रादिकस्तेषां हेतुः, दृष्टहेतुसाम्येऽपि सुरूपे-तरादिभावेन देहादीनां वैचित्र्यदर्शनात् , तस्य चादृष्टकर्माख्यहेतुमन्तरेणाभावात् । अत एव पुण्य-पापभेदेन कर्मणो द्वैविध्यम् , शुभदेहादीनां पुण्यकार्यत्वात् , इतरेषां तु पापफलत्वात् । उक्तं च " इह दृष्टहेत्वसंभविकार्यविशेषात् कुलालयत्न इव । हेत्वन्तरमनुमेयं तत् कर्म शुभा- शुभं कर्तुः॥१॥" एतत् कार्यानुमानम् । तथा, मदभिहितमिति च कृत्वाऽग्निभूतिवत् त्वमपि कर्म प्रतिपद्यस्व, सर्वज्ञवचनप्रामाण्यादित्यर्थः । तदपि पुण्य-पापविभागेन , विभक्तं प्रतिपद्यस्व, देहादीनां तत्कार्याणां क्रियाणां च तत्कारणभूतानां शुभा-ऽशुभत्वेन तद्वैविध्यदर्शनादिति ॥ ३६६-३७२ ॥ (१९१४-१९२०)

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579