Book Title: Gandharwad
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Jain Granth Prakashak Sabha

Previous | Next

Page 480
________________ Vada ] Gañadharavada 0:489 Trans.--388 “Even śubha and a-śubha contacts pertaining to mind speech and body are perceived at (the same ) time." " The state of mixture would be ( possible ) in ( case of ) abstract ( ones ).” ( 1936 ) टीका-ननु मनो-वाक्-काययोगाः शुभाशुभाश्च मिश्रा इत्यर्थः, एकस्मिन् समये दृश्यन्ते, तत् कथमुच्यते-"सुभोऽसुभो वा स एगसमयम्मि" इति ? तथाहि-किञ्चिदविधिना दानादिवितरणं चिन्तयतः शुभाशुभो मनोयोगः, तथा, किमप्यविधिनैव दानादिधर्ममुपदिशतः शुभाशुभो वाग्योगः, तथा, किमप्यविधिनैव जिनपूजा-वन्दनकादिकायचेष्टां कुर्वतः शुभाशुभकाययोग इति । तदेतदयुक्तम् । कुतः ? इत्याह-" दवम्मीत्यादि " इदमुक्तं भवति-इह द्विविधो योगः-द्रव्यतः, भावतश्च । तत्र मनो-वाक्-काययोगप्रवर्तकानि द्रव्याणि, मनो-वाक्-कायपरिस्पन्दात्मको योगश्च द्रव्ययोगः; यस्त्वेतदुभयरूपयोगहेतुरध्यवसायः स भावयोगः। तत्र शुभाशुभरूपाणां यथोक्तचिन्ता-देशना-कायचेष्टानां प्रवर्तके द्विविधेऽपि द्रव्ययोगे व्यवहारनयदर्शनविवक्षामात्रेण भवेदपि शुभाशुभत्वलक्षणो मिश्रभावः, न तु मनोवाक्-काययोगनिवन्धनाध्यवसायरूपे भावकरणे भावात्मके योगे। अयमभिप्रायः-द्रव्ययोगो व्यवहारनयदर्शनेन शुभाशुभरूपोऽपीष्यते, निश्चयनयेन तु सोऽपि शुभोऽशुभो वा केवलः समस्ति, यथोक्तचिन्ता-देशनादिप्रवर्तकद्रव्ययोगाणामपि शुभाशुभरूपमिश्राणां तन्मतेनाभावात् ; मनो-वाक्-कायद्रव्ययोगनिवन्धनाध्यवसायरूपे तु भावकरणे भावयोगे शुभाशुभरूपो मिश्रभावो नास्ति, निश्चयनयदर्शनस्यैवागमेऽत्र विवक्षितत्वात् । न हि शुभान्यशुभानि वाऽध्यवसायस्थानानि मुक्त्वा शुभाशुभाध्यवसायस्थानरूपस्तृतीयो राशिरागमे क्वचिदपीष्यते, येनाध्यवसायरूपे भावयोगे शुभाशुभत्वं स्यादिति भावः। तस्माद् भावयोग एकस्मिन् समये शुभोऽशुभो वा भवति न तु मिश्रः। ततः कर्मापि तत्प्रत्ययं पृथक् पुण्यरूपं पापरूपं वा बध्यते, न तु मिश्ररूपमिति स्थितम् ॥ ३८८ ॥ (१९३६ ) ____D. C.--Acalabhrātā:-The combined state of subha and a-s'ubha contact of mind, takes place when one thinks of offering munificence etc, but not according to the prescribed

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579