Book Title: Gandharwad
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Jain Granth Prakashak Sabha

Previous | Next

Page 485
________________ .: 444 : Jinabhadra Gani's [The ninth āyuh, infatuation of darśana, ( undifferentiated knowledge and infatuation of caritra (right conduct ), transformations of the latter parts of the remaining characteristics should be accepted. ( 1939) टीका-इह ज्ञानावरणादिमूलप्रकृतीनामन्योन्यं संक्रमः कदापि न भवत्येव, उत्तरप्रकृतीनां तु निजनिजमूलप्रकृत्यभिन्नानां परस्परं भवतीति । तत्र चायं विधिः-" मोत्तूण आउयं " इति जातिप्रधानो निर्देश इति बहुवचनमत्र द्रष्टव्यम्-चत्वार्यायूंषि मुक्त्वेति । एकस्या आयुर्लक्षणाया निजमूलप्रकृतेरभिन्नानामपि चतुर्णामायुषामन्योय संक्रमो न भवतीति तद्वर्जनम् । तथा, दर्शनमोहं चारित्रमोहं च मुक्त्वा; एकस्या मोहनीयलक्षणायाः स्वमूलप्रकृतेरभिन्नयोरपि दर्शनमोह-चारित्रमोहयोरन्योन्यं संक्रमो न भवतीत्यर्थः । उक्तशेषाणां तु प्रकृतीनाम् , कथंभूतानाम् ? इत्याह-"उत्तरविहि त्ति" विधयो भेदाः, उत्तरे च ते विधयश्चोत्तरेविधय उत्तरभेदास्तद्भूतानामुत्तरप्रकृतिरूपाणामिति तात्पर्यम् । किम् ? इत्याह-संक्रमो भाज्यो भजनीयः । ____ भजना चैवं द्रष्टव्या-याः किल ज्ञानावरणपश्चक-दर्शनावरणनवककषायषोडशक-मिथ्यात्व-भय-जुगुप्सा-तैजस-कार्मण-वर्णादिचतुष्का-गुरुलघू-पघात-निर्माणा-ऽन्तरायपञ्चकलक्षणाः सप्तचत्वारिंशद् ध्रुवबन्धिन्य उत्तरप्रकृतयः, तासां निजैकमूलप्रकृत्यभिन्नानामन्योन्यं संक्रमः सदैव भवति; यथा ज्ञानावरणपञ्चकान्तर्वर्तिनि मतिज्ञानावरणे श्रुतज्ञानावरणादीनि, तेष्वपि मतिज्ञानावरणं संक्रामतीत्यादि । यास्तु शेषा अध्रुवबन्धिन्यस्तासां निजैकमूलप्रकृत्यभेदवर्तिनीनामपि बध्यमानायामबध्यमाना संक्रामति, न त्वबध्यमानायां बध्यमाना; यथा साते बध्यमानेऽसातमबध्यमानं संक्रामति, न तु बध्यमानमबध्यमाने; इत्यादि वाच्यमिति । एष प्रकृतिसंक्रमे विधिः । शेषस्तु प्रदेशादिसंक्रमविधिः “मूलप्रकृत्यभिन्नासु वेद्यमानासु संक्रमः भवति" इत्यादिना स्थानान्तरादवसेय इत्यलं प्रसङ्गेनेति ॥ ३९१ ॥ १९३९ ॥ D. C-The process of prakriti samkrama ( mutual trans formation of various characteristics ) is explained as follows: + Ayuh Karma.

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579