________________
.: 444 :
Jinabhadra Gani's [The ninth āyuh, infatuation of darśana, ( undifferentiated knowledge and infatuation of caritra (right conduct ), transformations of the latter parts of the remaining characteristics should be accepted. ( 1939)
टीका-इह ज्ञानावरणादिमूलप्रकृतीनामन्योन्यं संक्रमः कदापि न भवत्येव, उत्तरप्रकृतीनां तु निजनिजमूलप्रकृत्यभिन्नानां परस्परं भवतीति । तत्र चायं विधिः-" मोत्तूण आउयं " इति जातिप्रधानो निर्देश इति बहुवचनमत्र द्रष्टव्यम्-चत्वार्यायूंषि मुक्त्वेति । एकस्या आयुर्लक्षणाया निजमूलप्रकृतेरभिन्नानामपि चतुर्णामायुषामन्योय संक्रमो न भवतीति तद्वर्जनम् । तथा, दर्शनमोहं चारित्रमोहं च मुक्त्वा; एकस्या मोहनीयलक्षणायाः स्वमूलप्रकृतेरभिन्नयोरपि दर्शनमोह-चारित्रमोहयोरन्योन्यं संक्रमो न भवतीत्यर्थः । उक्तशेषाणां तु प्रकृतीनाम् , कथंभूतानाम् ? इत्याह-"उत्तरविहि त्ति" विधयो भेदाः, उत्तरे च ते विधयश्चोत्तरेविधय उत्तरभेदास्तद्भूतानामुत्तरप्रकृतिरूपाणामिति तात्पर्यम् । किम् ? इत्याह-संक्रमो भाज्यो भजनीयः । ____ भजना चैवं द्रष्टव्या-याः किल ज्ञानावरणपश्चक-दर्शनावरणनवककषायषोडशक-मिथ्यात्व-भय-जुगुप्सा-तैजस-कार्मण-वर्णादिचतुष्का-गुरुलघू-पघात-निर्माणा-ऽन्तरायपञ्चकलक्षणाः सप्तचत्वारिंशद् ध्रुवबन्धिन्य उत्तरप्रकृतयः, तासां निजैकमूलप्रकृत्यभिन्नानामन्योन्यं संक्रमः सदैव भवति; यथा ज्ञानावरणपञ्चकान्तर्वर्तिनि मतिज्ञानावरणे श्रुतज्ञानावरणादीनि, तेष्वपि मतिज्ञानावरणं संक्रामतीत्यादि । यास्तु शेषा अध्रुवबन्धिन्यस्तासां निजैकमूलप्रकृत्यभेदवर्तिनीनामपि बध्यमानायामबध्यमाना संक्रामति, न त्वबध्यमानायां बध्यमाना; यथा साते बध्यमानेऽसातमबध्यमानं संक्रामति, न तु बध्यमानमबध्यमाने; इत्यादि वाच्यमिति । एष प्रकृतिसंक्रमे विधिः । शेषस्तु प्रदेशादिसंक्रमविधिः “मूलप्रकृत्यभिन्नासु वेद्यमानासु संक्रमः भवति" इत्यादिना स्थानान्तरादवसेय इत्यलं प्रसङ्गेनेति ॥ ३९१ ॥ १९३९ ॥
D. C-The process of prakriti samkrama ( mutual trans formation of various characteristics ) is explained as follows:
+ Ayuh Karma.