________________
Vada ] Gañadharavada
0:489 Trans.--388 “Even śubha and a-śubha contacts pertaining to mind speech and body are perceived at (the same ) time." " The state of mixture would be ( possible ) in ( case of ) abstract ( ones ).” ( 1936 )
टीका-ननु मनो-वाक्-काययोगाः शुभाशुभाश्च मिश्रा इत्यर्थः, एकस्मिन् समये दृश्यन्ते, तत् कथमुच्यते-"सुभोऽसुभो वा स एगसमयम्मि" इति ? तथाहि-किञ्चिदविधिना दानादिवितरणं चिन्तयतः शुभाशुभो मनोयोगः, तथा, किमप्यविधिनैव दानादिधर्ममुपदिशतः शुभाशुभो वाग्योगः, तथा, किमप्यविधिनैव जिनपूजा-वन्दनकादिकायचेष्टां कुर्वतः शुभाशुभकाययोग इति । तदेतदयुक्तम् । कुतः ? इत्याह-" दवम्मीत्यादि " इदमुक्तं भवति-इह द्विविधो योगः-द्रव्यतः, भावतश्च । तत्र मनो-वाक्-काययोगप्रवर्तकानि द्रव्याणि, मनो-वाक्-कायपरिस्पन्दात्मको योगश्च द्रव्ययोगः; यस्त्वेतदुभयरूपयोगहेतुरध्यवसायः स भावयोगः। तत्र शुभाशुभरूपाणां यथोक्तचिन्ता-देशना-कायचेष्टानां प्रवर्तके द्विविधेऽपि द्रव्ययोगे व्यवहारनयदर्शनविवक्षामात्रेण भवेदपि शुभाशुभत्वलक्षणो मिश्रभावः, न तु मनोवाक्-काययोगनिवन्धनाध्यवसायरूपे भावकरणे भावात्मके योगे। अयमभिप्रायः-द्रव्ययोगो व्यवहारनयदर्शनेन शुभाशुभरूपोऽपीष्यते, निश्चयनयेन तु सोऽपि शुभोऽशुभो वा केवलः समस्ति, यथोक्तचिन्ता-देशनादिप्रवर्तकद्रव्ययोगाणामपि शुभाशुभरूपमिश्राणां तन्मतेनाभावात् ; मनो-वाक्-कायद्रव्ययोगनिवन्धनाध्यवसायरूपे तु भावकरणे भावयोगे शुभाशुभरूपो मिश्रभावो नास्ति, निश्चयनयदर्शनस्यैवागमेऽत्र विवक्षितत्वात् । न हि शुभान्यशुभानि वाऽध्यवसायस्थानानि मुक्त्वा शुभाशुभाध्यवसायस्थानरूपस्तृतीयो राशिरागमे क्वचिदपीष्यते, येनाध्यवसायरूपे भावयोगे शुभाशुभत्वं स्यादिति भावः। तस्माद् भावयोग एकस्मिन् समये शुभोऽशुभो वा भवति न तु मिश्रः। ततः कर्मापि तत्प्रत्ययं पृथक् पुण्यरूपं पापरूपं वा बध्यते, न तु मिश्ररूपमिति स्थितम् ॥ ३८८ ॥ (१९३६ ) ____D. C.--Acalabhrātā:-The combined state of subha and a-s'ubha contact of mind, takes place when one thinks of offering munificence etc, but not according to the prescribed