________________
:420.
Jinabhadra Gaņi's
[The ninth
means of karya and karana. So, like Agnibhati, you, too, ( shall have to ) accept (the existence of) Karma on account of actions as well as Karyas ( in the form of deha etc., ) and since Karma itself is the cause of good or bad ( in case of deha etc.), as well as other performances, admit punya and pāpa as belonging to different species by their very svabhāva ( 1914-1920)
टीका-एताश्च गाथाः प्रायोऽग्निभूतिगणधरवादे व्याख्याता एव, सुगमाश्च । नवरं " कारण-कजाणुमेओ सो त्ति" स च जीव-कर्मणोः पुण्य-पापाभिधानः परिणामः कारणेन कार्येण चाऽनुमीयते-कारणानुमानात् कार्यानुमानाच्च गम्यत इत्यर्थ। एतदेवानुमानद्वयमाह-"किरियाणं कारणओ इत्यादि" दानादिक्रियाणां हिंसादिक्रियाणां च कारणत्वात् कारणरूपत्वादस्ति तत्फलभूतस्तत्कार्यरूपपुण्य-पापात्मको जीव-कर्मपरिणामः, यथा कृष्यादिक्रियाणां शालि-यव-गोधूमादिकम् । उक्तं च" समासु तुल्यं विषमासु तुल्यं सतीष्वसच्चाप्यसतीषु सच्च । फलं क्रियास्वित्यथ यन्निमित्तं तद् देहिनां सोऽस्ति नु कोऽपि धर्मः॥१॥"
एतत् कारणानुमानम् । “देहाईणमित्यादि" देहादीनां कारणमस्ति, कार्यरूपत्वात् तेषाम् , यथा घटस्य मृद्-दण्ड-चक्र-चीवरादिसामग्रीकलितः कुलालः । न च वक्तव्यम्-दृष्ट एव माता-पित्रादिकस्तेषां हेतुः, दृष्टहेतुसाम्येऽपि सुरूपे-तरादिभावेन देहादीनां वैचित्र्यदर्शनात् , तस्य चादृष्टकर्माख्यहेतुमन्तरेणाभावात् । अत एव पुण्य-पापभेदेन कर्मणो द्वैविध्यम् , शुभदेहादीनां पुण्यकार्यत्वात् , इतरेषां तु पापफलत्वात् । उक्तं च
" इह दृष्टहेत्वसंभविकार्यविशेषात् कुलालयत्न इव ।
हेत्वन्तरमनुमेयं तत् कर्म शुभा- शुभं कर्तुः॥१॥" एतत् कार्यानुमानम् । तथा, मदभिहितमिति च कृत्वाऽग्निभूतिवत् त्वमपि कर्म प्रतिपद्यस्व, सर्वज्ञवचनप्रामाण्यादित्यर्थः । तदपि पुण्य-पापविभागेन , विभक्तं प्रतिपद्यस्व, देहादीनां तत्कार्याणां क्रियाणां च तत्कारणभूतानां शुभा-ऽशुभत्वेन तद्वैविध्यदर्शनादिति ॥ ३६६-३७२ ॥ (१९१४-१९२०)