________________
•: 182 :
Jinabhadra Gaņi's [The third असओ खरसंगस्स व सओ वि दूराइभावओऽभिहिया । सुहुमा-ऽमुत्तत्तणओ कम्माणुगयस्स जीवस्स ॥ १३५ ॥ (१६८३) Asao kharasangassa va sao vi dūrāibhāyao' bhihiyā | Suhuma'muttattanao kammānugayassa jivassa ॥ 135 ॥ ( 1683) [असतः खरश्रृङ्गस्येव सतोऽपि दूरादिभावतोऽभिहिता ।
सूक्ष्माऽमूर्तत्वतः कर्मानुगतस्य जीवस्य ॥ १३५ ॥ (१६८३) Asataḥ kharaśrngasyeva sato’pi dūrādibhavato’bhihita 1 Saksma murtatvatah karmanugatsya jivasya ॥ 135 ॥ (1683)]
Trans.-134-135 .If the Soul is different from body, how is it that it is not perceived while entering (the body ) or issuing forth ( from it ) ?
But again, O Gautama ! non-perception ( anupalabdhi ) is of two types :-1. Non-perception of a non-existent object like a kharasrnga and 2. Non-perception of an existent object by reason of its distance etc. Non-perception of the Soul which is karmānugata is due to its exquisite formlessness (sūkśmāmürtatva ) ( 1682–1683 ).
टीका-यदि नाम शरीरादन्योऽसौ जीवस्ततो घटे चटक इव शरीरे प्रविशन् निःसरन् वा किमिति नोपलभ्यते ? । भगवानाह-"गोयमेत्यादि" यतो द्विविधाऽनुपलब्धिरस्ति, अतस्तस्यानुपलब्धेः कारणाद् गौतमः ! जीवो न दृश्यते । कथं पुनः साऽनुपलब्धिर्द्विविधा ? इत्याह-सा चानुपलधेरेकाऽसतो भवति, यथा खरशृङ्गस्य । द्वितीया तु सतोऽप्यर्थस्य भवति । कुतः ? इत्याह-दूरादिभावादिति, दूरात् सन्नप्यर्थो न दृश्यते, यथा स्वर्गादिः, आदिशब्दात् अतिसंनिकर्षात् , अति सौक्ष्म्यात् , मनोऽनवस्थानात् , इन्द्रियापाटवात् , मतिमान्यात् , अशक्यत्वात् , आवरणात् , अभिभवात् , सामान्यात , अनुपयोगात् , अनुपायात् , विस्मृतेः, दुरागमात् , मोहात् , विदर्शनात् , विकारात् , अंक्रियातः, अनधिगमात् , कालविप्रकर्षात् , स्वभावविप्रकर्षाच्चेति। . . . . . तत्रातिसंनिकर्षात् सन्नप्यों नोपलभ्यते, यथा नेत्र दूषिका-पक्ष्मादिः।