________________
•: 74 :
.
Jinabhadra Gani's
The first
difference in ( i. e., speciality of ) an object, a genus, a substance, an action, or an attribute ? Your doubt is ill-based; for, it is not proper to draw a sweeping conclusion regarding the dharma of an object that it is only this or that it is certainly not this. For, each and every thing ( sarva) is certainly all things ( sarvamaya) from the stand-point of
its own modifications and those of the rest, and that sarva is a-sarvamaya too, from the stand-point of separateness. . Therefore, it is proper ( to believe ) that a substance has a
generality and speciality, according to the stand-point taken and that its nature is varried from the view-point of its paryāyas. ( 1600-1603 )
टीका-तस्मादेषां पूर्वोक्तानां वेदपदानां यथा मया व्याख्यातोऽथस्तथा त्वं न वेत्सि, तेन जीवे संशयं करोषि । अथवा, सर्वेषामप्यशेषवेदपदानामर्थं त्वं न जानासि, यस्मात् सर्वेष्वपि वेदपदेषु विषये तवैवंभ्रतः संशयोऽस्तीति संबन्धः । कथंभूत ? इत्याह-" अत्थो कि होञ्ज सुईत्यादि," किमेतेषां वेदपदानामर्थः श्रुतिः शब्दो भवेत् , यथा भेरी-पटह-ढक्कादीनां शब्दस्य शब्द एवार्थः १; अथवा यद् घटादिशब्दे समुच्चारिते तदभिधेयार्थविषयं विज्ञानं भवद् दृश्यते, तत् तेषामर्थः ?; किंवा घटशब्दे समुत्कीर्तिते " पृथुबुध्नोदराद्याकारवान् घटलक्षणोऽर्थोऽनेनोक्तः, न तु पटादिः" इत्येवं यो वस्तुभेदः प्रतीयते स एषामर्थ ?; यदिवा, किं जातिरमीषामर्थः, यथा गोंशब्दे समुच्चारिते गोजातिरवसीयते ?; यदिवा, किं द्रव्यमेषामर्थः, यथा दण्डीत्यादिषु दण्डादिमद् द्रव्यम् ?; किंवा धावतीत्यादीनामिव धावनादिक्रियाऽमीषामर्थः; अथवा, किं शुक्लादीनामिव शुक्लादिगुण एतेषामर्थः ? इति । अयं च संशयस्तवायुक्तः; यस्मात् " अयमेव, नैव वाऽयम्" इत्येवं कस्यापि वस्तुनो धर्मोऽवधारयितुं न युक्तः । शब्दोऽपि वस्तुविशेष एव, ततः " एवंभूतस्यैवार्थस्यायमभिधायकः, नैव वेत्थंभूतस्यार्थस्यायं प्रतिपादकः" इत्येवमेतद्धर्मस्याप्यवधारणमयुक्तमेव । कुतः ? इत्याह-" सवं चियेत्यादि" यस्मात् सर्वमपि वाच्यवाचकादिक वस्तु नियतं निश्चितं स्व-परपर्यायः सर्वात्मकमेव सामान्यविवक्षयेत्यर्थः। तथा, सर्वमसर्वमयमप्यस्ति विविक्तरूपं सर्वतो व्यावृत्तम् । कया ? इत्याह-विवक्षया, केवलस्वपर्यायापेक्षयेत्यर्थः,