________________
•: 146:. . Jinabhadra Gani's [The second insanity, producing satiety and quenching thirst etc. in its individual state. If consciousness were present in (each of the) bhātas ( separately ), it could be ( found ) in the collection (also) ( 1652-1653).
टीका-" न समुदये चेय त्ति" न भूतसमुदयमात्रप्रभवा चेतना, " पत्तेयमभावाउ ति" भूतप्रत्येकावस्थायां तस्या अंशतोऽपि सर्वथाऽनुपलब्धेरित्यर्थः । किं यथा किंप्रभवं न भवति ? इत्याह-" न रेणुतेल्लं व ति" यथा प्रत्येकं सवर्थाऽनुपलम्भाद् रेणुकणसमुदायप्रभवं तैलं न भवतीत्यर्थः । प्रयोगः-यद् येषु पृथगवस्थायां सर्वथा नोपलभ्यते तत् तेषां समुदायेऽपि न भवति, यथा सिकताकणसमुदाये तैलम् , यत्तु तेषां समुदाये भवति न तस्य पृथग् व्यवस्थितेषु तेषु सर्वथाऽनुपलम्भः, यथैकैकतिलावस्थायां तैलस्य, सर्वथा नोपलभ्यते च भूतेषु प्रत्येकावस्थायां चेतना, तस्माद् नासौ तत्समुदायमात्रप्रभवा, किन्त्वर्थापत्तेरेवान्यत् किमपि जीवलक्षणं कारणान्तरं भूतसमुदायातिरिक्तं तत्र संघट्टितं, यत इयं प्रभवतीति प्रतिपत्तव्यम् । आह" प्रत्येकावस्थायां सर्वथाऽनुपलम्भात्" इत्यनैकान्तिकोऽयं हेतुः, । प्रत्येका वस्थायां सर्वथाऽनुपलब्धस्यापि मदस्य मद्याङ्गसमुदाये दर्शनात् , इत्याश
झ्याह-" मजंगेसु इत्यादि " धातकीकुसुमादिषु मद्याङ्गेषु पुनर्विष्वक पृथग् न सर्वथा मदो नास्ति, अपि तु या च यावती च मदमात्रा पृथगपि तेष्वस्त्येवेत्यर्थः । ततो नानैकान्तिकता हेतोरिति ।
टीका-यथा प्रत्येकावस्थायां धातकीकुसुमेषु या च यावती च भ्रमिश्चितभ्रमापादनशक्तिरस्ति, गुड-द्राक्षे-क्षुरसादिषु पुनधाणिरतृप्तिजननशक्तिरस्ति, उदके तु वितृष्णताकरणशक्तिरस्ति, आदिशब्दादन्येष्वपि मद्याङ्गेष्वन्यापि यथासंभवं शक्तिर्वाच्या, तथा तेनैव प्रकारेण व्यस्तेष्वपि पृथिव्यादिभूतेषु यदि काचिच्चैतन्यशक्तिरभविष्यत् , तदा तत्समुदाये संपूर्णा स्पष्टा चेतना स्यात् , न चैतदस्ति, तस्माद् न भूतसमुदायमात्रप्रभवेयमिति ॥ १०४-१०५ (१६५२-५३) ॥ ____D. C.--Since cetana is not present in the individual state of a bhūta, even to a limited extent, it can never be found in