________________ 38 अभिज्ञानशाकुन्तलम् [प्रथमो अपि चकुल्याऽम्भोभिः पवनचपलैः शाखिनो धौतमूला, . -भिन्नो रागः किसलयरुचामाज्यधमोदमेन / एते चार्वागुपवनभुवि च्छिन्नदर्भाङ्करायां नष्टाऽऽशङ्का हरिणशिशवो मन्द-मन्दं चरन्ति // 15 // ___ अपि च = किञ्च / कुल्याम्भोभिरिति / पवनेन चपलानि-तैः- पवनचपलैः = वाताहतैः, कुल्यानामम्भासि-तैः-कुल्याम्भोभिः = सारणीजलैः, आलवालवारिभिरिति वा / 'कुल्याऽल्पा कृत्रिमा सरित्' इत्यमरः। ['नहर' 'क्यारी' इति भाषा] / शाखिनः = वृक्षाः, धौतानि मूलानि येषान्ते-धौतमूलाः = क्षालितमूलप्रदेशाः। सम्भृतजलाः, सिक्तमूलप्रदेशाः / सन्तीति शेषः / किञ्च-आज्यस्य यो धूमस्तस्योदमस्तेन-आज्यधूमोद्गमेन = हविधूमपटलोद्वमेन किसलयानां रुचस्तासा-किसलयरुचां = पल्लवद्युतीनां, भिन्नः = अस्वाभाविक:रागः = वर्णः / लौहित्यं / 'दृश्यते' इति शेषः / किञ्च-एते = पुरो दृश्यमानाः, नष्टा आशङ्का येषान्ते-नष्टाशङ्काः = निर्भयाः सन्तः, हरिणानां शिशवः = मृगशावकाः, अर्वाक = समीप एव, छिन्ना दर्भाणामङ्कुरा यस्यां, तस्यां-छिन्नदर्भाङ्कुरायां = लूनदर्भायाम्, उपवनस्य भूरुपवनभूस्तस्यामुपवनभुवि = आरामभूभागे / 'आरामः स्यादुपवनं कृत्रिमं वनमेव यत्' इत्यमरः / मन्द. मन्दम् = अतिमन्दम् / चरन्ति = खेलन्ति / अत आश्रमप्रदेश एवायमित्याशयः / [ अत्र क्रियासमुच्चयः, अनुमानञ्चालङ्कारौ, च्छेकअतिवृत्त्यनुप्रासाश्च ] // 15 // और भी देखो यहाँ वृक्षों के मूल भाग-छोटी 2 नहरों व क्यारियों में, पवन के थपेड़ों से हिलते हुए जल से भरे हुए हैं। और वृक्षों के कोमल 2 पल्लवों का रंग भी अग्निहोत्र के आज्यम से (घी के धुएं से ) धूमिल सा हो गया है। और छोटे 2 हरिणों के बच्चे निर्भय होकर कुशाओं के उखाड़ लेने से निष्कण्टक हुए इस उपवन के भूभाग में धीरे 2 घूम फिर रहे हैं। इससे स्पष्ट ही ज्ञात हो रहा है, कि-यह आश्रम का ही प्रदेश है // 15 // . 1 अयं श्लोकः कचिन्न /