________________ अभिज्ञानशाकुन्तलम् [प्रथमोसूतः--कथमिव ? / राजा-किं न पश्यति भवान् ? / इह हिनीवाराः शुक-कोटेराऽर्भक-मुख-भ्रष्टास्तरूणामधः, प्रस्निग्धाः क्वचिदिगुदीफलभिदः सूच्यन्त एवोपलाः / भूयः = पुनः, (नि )रूपयति = करोति, [रङ्गे तथा कृत्वा दर्शयति ] / समन्तात् = सर्वतश्चतुर्दिक्षु / आमोगः = परिसरप्रदेशः / आभुज्यत इत्याभोग इति व्युत्पत्तेः। 'आभोगो वरुणच्छत्रे, पूर्णता-यत्नयोरपी' ति विश्वमेदिनीभ्यां पूर्णतारूपोऽर्थोप्युपलभ्यते / 'कथमिवे'व्यस्य 'ज्ञायते' इति शेषः / 'इह ही ति-अग्रिमेण श्लोकेन सहान्वितम् / नीवारा इति / क्वचित्-शुकानां कोटरेषु स्थिता ये अर्भकाः, नीडस्था अजातपक्षाः शावकाः,-तेषां मुखेभ्यो भ्रष्टाः-शुककोटगर्भकमुखभ्रष्टाः = कीरकुलायावस्थितशावकवदनच्युताः, नीवाराः = मुनिधान्यकणाः। तृणधान्यानि नीवाराः' इत्यमरः / तरूणां = पादपानाम् , अधः = तलेषु, 'दृश्यन्ते' इति योज्यम् / क्वचिच्च-गुदीनां फलानि भिन्दन्तीति-इङ्गुदीफलभिदः = तापसतरुफलभेदकाः, अतएव प्रस्निग्धाः = इङ्गुदीतैलाक्ताः, उपलाः = पाषाणाः, सूच्यन्त एव = दृश्यन्त एव / तापसा उपलेन भित्त्वा इङ्गुदाफलेभ्यस्तैलमाकर्षन्तीति प्रसिद्धम् / 'इङ्गुदी तापसतरुः' इत्यमरः। हो रहा है, कि-यह आश्रम का समीपवर्ती प्रदेश है / अर्थात् हम लोग अब आश्रम की सीमा में ही आ गए हैं। सूत-आयुष्मन् ! आप यह कैसे जानते हैं, कि हमलोग आश्रम में प्रविष्ट हो गए ? / राजा-क्या तुम नहीं देख रहे हो, कि-इस जगह-कहीं 2 वृक्षों के नीचेसुग्गों के घोसलों में स्थित उनके छोटे 2 बच्चों के मुख से गिरे हुए नीवार धान्य (तिन्नी के चावल) बिखरे हुए हैं और कहीं कहीं इंगुदी फलों के पीसने से पत्थर 1 'इहापि'। 2 'शुकगर्भकोटर'। ..