Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 33
________________ तं कच्छवरिंगियं जाण ॥ १५८ ॥ उहितनिवेसिंतो उव्वत्तइ मच्छउव्व जलमज्झे । वंदिउकामो वऽन्नं झसो व परियत्तएँ तुरियं ॥ १५९ ॥ अप्पपरपत्तिएणं मणप्पेओसो य वेइयाणगं । तं पुण जाणूवरि १ जाणुहिहाओ २ जाणुषाहिं ३ वा ॥ १६०॥ कुणइ करे जाणुं वा एगयरं ठवइ करजुयलमज्झे ४। उच्छंगे करइ करे ५ भयं तु निजूहणाईयं ॥१६१॥ भयइ व भयिस्सइत्ति य इअ वंदइ होरयं निवेसंतो"। एमेव य मित्तीएँ गारव सिक्खाविणीओऽहं ॥ १६२॥ नाणाइतिगं मोत्तुं कारणमिहलोयसाहयं होइ। पूयागारवहेऊं नाणग्गहणेवि एमेव ॥१६३॥ हाउं परस्स दिहिं वंदंते तेणियं हवइ एयं । तेणोविव अप्पाणं गृहइ ओभावणा माँ मे॥१६४॥ आहारस्स उ काले नीहारस्सावि होइ पंडिणीयं । रोसेण धमघमंतो जं वंदइ रु₹मेयं तु ॥ १६५ ॥ नवि कुप्पसि न पसीयसि कट्टसिवो चेव तज्जियं एयं । सीसंगुलिमाईहि य तजेइ गुरुं पणिवेयंतो ॥ १६६ ॥ वीसंभट्ठाणमिणं सम्भावजढे सढं भवइ एयं । कवडंति कइयवंति य सढयावि य हुंति एगट्ठीं ॥१६७ ॥ गणिवायगजिजत्ति हीलिङ किं तुमे पणमिऊणे?। दरवंदियंमिवि कहं करेइ पलिउंधियं एवं ॥ १६८ ॥ अंतरिओ तमसे वा न वंदई वंदई उ दीसंतो । एवं दिट्ठमविट्ठ सिंग पुण मुद्धपसेिहिं ॥१६९॥ करमिव मन्नइ दितो वंदणयं आरहंतियंकरोत्ति । लोइयकराउ मुक्का न मच्चिमोवंतणकरस्स॥ १७०॥ आलिद्धमणालिंद रयहरणसिरेहि होडचउभंगो। वयणक्खरेहि ऊणं जहन्नकालेवि सेसेहिं ॥ १७१ ॥ दाऊण वंदणं मत्थएण वंदामि चूलिया एसां। मूयव्व सहरहिओ जं वंदह मूयगं तं तु ॥ १७२॥ ढड्डरसरेण जो पुण सुत्तं घोसेइ ढड्डरं तमिह । घुडलिं व गिहिऊणं रयहरणं होइ चुडैलिं तु ।। १७३ ॥ पडिक्कमणे सज्झाए काउस्सग्गेऽवराह पाहुणए । आलोयणसंवरणे उत्तमढे य वंदणयं ॥ १७४॥ 'आयरकरण'मिति आदर:-सम्भ्रमस्तत्करणमादृतं आर्षत्वादाढा तद्विपरीतं-तद्रहितमनाहतं भवति १, जात्यादिमदस्तब्धेन क्रियमाणं वन्दनकमपि स्तब्धं, स्तब्धश्च द्रव्यतो भावतश्च भवति, तत्र चतुर्भङ्गिका, यथा-द्रव्यतः स्तब्धो न भावतः भावतः स्तब्धो न द्रव्यतः अपरो द्रव्यतोऽपि भावतोऽपि च चतुर्थो न द्रव्यतो न भावतः, तत्र द्रव्यतो वातादिपरिगृहीतं कस्यापि शरीरं न नमति भावतस्तु अस्तब्ध एवेत्याद्यो भङ्गः, द्वितीये तु भावः-चित्ताध्यवसायलक्षणः स्तब्धः शरीरं त्वस्तब्धमिति, तृतीये तु द्वयमपि स्तब्धं, चतुर्थे तु द्वयमपि न स्तब्धं, अयं च शुद्धो भङ्गः, शेषभङ्गकेष्वपि भावतः स्तब्धोऽशुद्ध एव, द्रव्यतस्तु भजनीयः-शुद्धोऽशुद्धश्च, तत्र उदरपृष्ठशूलव्यथादिबाधितोऽवनामं कर्तुमशक्तः कारणतः स्तब्धोऽपि शुद्धो, निष्कारणस्त्वशुद्धः, अत एवाह-दबओ भइओ'त्ति द्रव्यतो भाज्यो-भजनीयो, न दुष्ट एव, भावतस्तु स्तब्धो दुष्ट एवेति तात्पर्यम् २॥ १५५ ॥ तृतीयदोषमाह-'पविद्धमणवया"ति प्रविद्धं नाम यदुपचाररहितं, एतदेव व्याचष्टे-यद्वन्दनकं गुरुभ्योऽर्पयन्-ददत् अनियनितो भवति, अनवस्थित इत्यर्थः, अनवस्थितत्वेन च यत्र वा तत्र वा स्थाने प्रथमप्रवेशादिलक्षणेऽसमाप्तमपि वन्दनकमुज्झित्वा नश्यति, क इव यथा किमुज्झतीत्याह-कियकिचोवक्खरं चेव'त्ति, एतदुक्तं भवति-केनचिद् भाटकिना कुतश्चिन्नगरानगरान्तरेऽवस्कर-भाण्डमुपनीतं, अवस्करस्वामिना च स भाटकी भणित:प्रतीक्षस्व किश्चित्कालं, यावदस्यावस्करस्यावतारणाय स्थानं किचिदन्वेषयामि कुत्रापीति, स प्राह-मयाऽस्मिन्नेव नगरे समानेतव्यमिदमित्येवोतं, अतः कृतकृत्यत्वान्नातः प्रतीक्षेऽहमित्युक्त्वाऽस्थाने एव तद्भाण्डमुज्झित्वा गच्छति, एवं साधुरप्यस्थाने एव वन्दनकं परित्यज्य नश्यतीत्येतावताउंशेन दृष्टान्त इति गाथार्थः ३ ॥ १५६ ॥ चतुर्य दोषमाह-'संपिडिए वत्ति यत्र सम्पिण्डिताने एकत्र मिलितानाचार्यादीनेकवन्दनकैनैव वन्दते न पृथक् २ तत्परिपिण्डितं वन्दनकमुच्यते, अथवा वचनानि-सूत्रोचारणरूपाणि करणानि-करचरणादीनि सम्पिण्डितानि-अव्यवच्छिन्नानि वचनकरणानि यस्य स तथा, ऊर्वोरुपरि हस्तौ परिस्थाप्य संपिण्डितकरचरणोऽव्यक्तसूत्रोवारणपुरस्सरं यद्वन्दते तत्परिपिण्डितमिति भावः ४, पचमं दोषमाह-'टोलोव्व'त्ति अवष्वष्कणं पश्चाद्गमनममिष्वष्कणं-अमिमुखगमनं ते अवष्वष्कणामिष्वष्कणे टोलोन्व-तिवदुत्यूवमानः करोति यत्र तट्टोलगतिवन्दनकमित्यर्थः ५ ॥ १५७ ॥ षष्ठं दोषमाह'उवगरणे'त्ति यत्राङ्कशेन गजमिव शिष्यः सूरिमूर्ध्वस्थितं शयितं प्रयोजनान्तरव्यनं वोपगरणे-चोलपट्टककल्पादौ हस्ते वाऽवज्ञया समाकृष्य वन्दनकदानार्थमासने उपवेशयति तदङ्कशवन्दनकमुच्यते, न हि श्रीपूज्याः कदाचनाप्युपकरणाद्याकर्षणमईन्यविनयत्वात्, किन्तु प्रणामं कृत्वा कृतालिपुटैर्विनयपूर्वकमिदमभिधीयते-उपविशन्तु भगवन्तो येन वन्दनकं प्रयच्छामीत्यतो दोषदुष्टमिदमिति, आवश्यकवृत्तौ तु रजोहरणमङ्कुशवत् करद्वयेन गृहीत्वा यद्वन्द्यते तदंकुशमिति व्याख्यातं, अन्ये तु अशाक्रान्तस्य हस्तिन इव शिरोऽवनमनोनमने कुर्वाणस्य यद्वन्दनं तदङ्कशमित्याहुः, एतच द्वयमपि सूत्रानुयायि न भवति, तत्त्वं पुनर्बहुभुता जानन्ति ६, सप्तमं दोषमाह-'ठिउविठ्ठरीति स्थितस्योर्ध्वस्थामेन 'तितीसन्नयरा' इत्यादिसूत्रमुचारयतः उपविष्टस्य-आसीनस्य "अहो कार्य काय' इत्यादि सूत्रं भणतः कच्छपस्येव-जलचरजीवविशेषस्येव रिङ्गणं-अप्रतोऽभिमुखं पश्चादमिमुखं च यत् किचिचलनं तच यत्र करोति शिष्यतत्क .24

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310