Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 302
________________ १ २ ३ ४ ५ ६ ७ ४ ५ ६ ७ १ २ ३ ४ ५ ६ ३ ४ ५ ६ ७ १ २ ६ ० १ २ ९ ५ ६ ७ ८ द्वितीया, नव पञ्च षट् सप्ताष्टाविति तृतीया, षट् सप्ताष्टौ नव पश्चेति चतुर्थी, अष्टौ नव पञ्च षट् सप्तेति पञ्चमी, इह पञ्चसप्तत्युत्तरं शतमभक्तार्थानां - उपवासानां पञ्चविंशतिस्तु पारणकानां, एवं च भद्रोत्तरतपसि शतद्वयं दिनानां भवति, स्थापना चेयं ॥ साम्प्रतं सर्वतोभद्रतपः प्राह - 'पडिमे' त्यादि गाथा - ५ ६ ७ ८ ३ ४ ५ चतुष्कं प्रतिमायां सर्वभद्रायां सर्वतोभद्रतपसीत्यर्थः, पञ्च षट् सप्त अष्टौ नव दश एकादश ७ ८ ९ ५ ६ २ ३ ४ ५ ६ ७ १ उपवासा इति प्रथमा लता, अष्टौ नव दश एकादश पञ्च षट् खप्तेति द्वितीया, एकादश ६ ७ ८ ५ ६ ७ १ २ ३ ४ पच षट् सप्ताष्टौ नव दशेति तृतीया, सप्त अष्टौ नव दश एकादश पञ्च षडिति चतुर्थी, ८ ९ ५ ६ ७ दश एकादश पञ्च षट् सप्त अष्ट नवेति पञ्चमी, षट् सप्त अष्टौ नव दश एकादश पश्चेति षष्ठी, नव दश एकादश पथ्व षट् सप्त अष्टाविति सप्तमी, स्थापना चेयं, अत्र च सर्वसङ्ख्यया त्रीणि शतानि द्विनवत्युत्तराणि उपवासानां भवन्ति, एकोनपञ्चाशश्च पारणकानां, उभयमीलने चत्वारि शतान्येकचत्वारिंशदधिकानि दिनानां भवन्तीति । तदेवमेतानि भद्रादीनि - भद्रमहाभद्रभद्रोत्तर सर्वतोभद्ररूपाणि चत्वारि तपांसि भणितानि, ग्रंथान्तरे पुनरमून्यन्यथाऽपि दृश्यन्ते, एतेष्वपि चतुर्षु तपस्सु प्राग्वत्पारणकभेदतः प्रत्येकं चातुर्विध्यं च द्रष्टव्यं दिनसङ्ख्या च यथायथमाने६ ७ ८ ९ १० ११ ५ तव्येति ॥ २५ ॥ अथ सर्वसौख्यसम्पत्चितपः प्राह - 'पडिवे 'त्यादि, प्रतिपदेकैव द्विकं द्वितीययोः एवं याव १० ११ ५ ६ ७ ८ ९ १० ११ ५ ६ ७ त्पञ्चदश अमावास्याः क्षमणै: - उपवासैर्यत्र भवन्ति, अयमर्थ:- एका प्रतिपद् द्वे द्वितीये तिस्रस्तृतीयाः चतनश्चतुर्थ्यः एवं यावत्पञ्चदश पश्चादृश्यः कृतोपवासा यत्र भवन्ति तत्तपः सर्वसंपत्तिः 'सूचकत्वात्सूत्रस्य' सर्वसौख्यसंपत्तिस्तपो भवति, सर्वेषां सौख्यानां संपत्तिः - प्राप्तिर्यस्मादिविकृत्वा, यद्वा सर्वसंपत्तिरित्येव नाम, तथाहि - तत्किमपि वस्तु नास्ति भुवस्तले यदस्य सम्यगासेवितस्य तपसः प्रभावतः प्रायेण प्राणिनां न संपद्यते इति । इह चामावास्याशब्दश्रवणादन्यत्र च 'इय जाव पन्नरस पुनिमासु कीरंति जत्थ उववासा' इत्यादिवचनाकर्णनादवसीयते इह च यथेदं तपः कृष्णपक्षे शुक्लपक्षे वा प्रारभ्यते न कश्चिद्दोष:, अत्र च विंशत्युत्तरं शतमुपवासानां भवति १५ ॥ ४१ ॥ रोहिणीतपः प्राह - 'रोहिणी' त्यादि, रोहिणी - देवताविशेषः तदाराधनार्थं वपो रोहिणीतपः तस्मिन् रोहिणीतपसि सप्तमासाधिकसप्तवर्षाणि यावद्रोहिणीनक्षत्रोपलक्षिते दिने उपवासः क्रियते, इह च वासुपूज्यजिनप्रतिमायाः प्रतिष्ठा पूजा च विधेया १६ ॥ ४२ ॥ श्रुतदेवतातपः प्राह - 'एक्के 'त्यादि, श्रुतदेवताराधनार्थं तपः श्रुतदेवीतपः तस्मिन् श्रुतदेवीतपस्येकादश एकादश्यः श्रुतदेवतापूजापुरस्सरमुपवासा मौनव्रतेन विधीयन्ते, उपलक्षणं चैतत्, ततोऽम्बातपोऽप्यत्र द्रष्टव्यं तच्च पश्च पश्चमीषु नेमिजिनाम्बिकापूजापूर्वमेकाशनादिना भवति १७ ॥ ४३ ॥ सर्वाङ्गसुन्दरतपः प्राह - 'सबंगे' त्यादि, सर्वाङ्गानि सुन्दराणि - सौदुर्योपेतानि भवन्ति यस्मात्तत्सर्वाङ्गसुन्दरं तपः तस्मिन् सर्वाङ्गसुन्दरे तपसि क्षान्तिमार्दवार्जवाद्यमिप्रहकृताग्रहास्तीर्थकृत्पूजामुनिदीनादिदाननिरताञ्चाष्टावुपवासान् एकान्तरितानाचाम्लेन कृतपारणकान् धवलपक्षे कुर्वन्ति, अस्य च तपसः सर्वाङ्गसुन्दरत्वमानुषङ्गिकमेव फलं, मुख्यं तु सर्वज्ञाज्ञया क्रियमाणानां सर्वेषामेव तपसां मोक्षावाप्तिरेव फलमिति भावनीयं, एवं सर्वत्रापि १८ ॥ ४४ ॥ निरुजशिखतपः प्राह – 'एव 'मित्यादि, रुजानां - रोगाणामभावो निरुजं तदेव प्रधानफलविवक्षया शिखेव शिखा-चूला यत्रासौ निरुजशिखस्तपोविशेषः सोऽप्येवमेव सर्वाङ्गसुन्दरतपोवदष्टमिरुपवासैराचाम्लपारण कैर्द्रष्टव्यः, नवरं - केवलं स-निरुजशिखस्तपोविंशेषः श्यामले - कृष्णपक्षे भवति, अधिकच तत्र क्रियते ग्लानप्रति जागरणनियमो ग्लानो मया पथ्यादिदानतः प्रतिचरणीयः इत्येवंरूपप्रतिज्ञाग्रहणमित्यर्थः, शेषं तु जिनपूजादिकं तथैवेति १९ ॥ ४५ ॥ परमभूषणतपः प्राह - 'सो' इत्यादि, परमाणि - शक्रचक्रवर्त्याद्युचितानि प्रकृष्टानि हारकेयूर - कुण्डलादीनि भूषणानि - आभरणानि यस्मादसौ परमभूषणः, तस्मिन् द्वात्रिंशदाचाम्लानि पारणकान्तरितानि शक्तिसद्भावे निरन्तराणि वा करोति, तत्समाप्तौ च देवस्य मुकुटतिलकाद्याभरणवितरणं यथाशक्ति यतिदानादिकं च कर्तव्यमिति २० ॥ ४६ ॥ आयतिजनकं तपः प्राह - ' आयई' त्यादि, आयतिं - आगामिकालेऽभीष्टफलं जनयति - करोति योऽसावायतिजनकस्तपोविशेषः सोऽप्येवं - परमभूषणतपोवद् द्वात्रिंशताऽऽचाम्लैर्द्रष्टव्यः, नवरं - केवलं सर्वासु धर्मक्रियासु -वन्दनकप्रतिक्रमणस्वाध्यायसाधुसाध्वी वैयावृत्त्यादिषु सर्वधर्मकृत्येध्वनि गृहित बलवीर्यप्रवृत्तियुक्तैः - अगोपायितशरीर प्राणचिसोत्साहप्रवर्तनप्रधानैः सः -आयतिजनकः कार्यः २१ ॥ ४७ ॥ सौभाग्यकल्पवृक्षमाह – ' एगंते' त्यादिगाथाद्वयं, कल्पवृक्ष इव कल्पवृक्षः सौभाग्यफलदाने कल्पवृक्षः सौभाग्यकल्पवृक्षः, तत्र सौभाग्यकल्पवृक्षतपसि चैत्रमासे एकान्तरा–एकदिनव्यवहिता उपवासाः समप्रमपि मासं भवन्ति, पारणकं च सर्वरसं - सविकृतिकमित्यर्थः, तथाऽत्र यथाशक्ति साध्वादिभ्यो दानं दीयते, अस्य च तपश्चरणस्य समाप्तौ शक्त्यनुसारतो जिनपतेः पुरतः पूजाकरणादिपूर्व विशालस्थालावलिमध्ये महारजतमयः सरलतण्डुलमयो वा विविधफलपटलविलसदसंख्यशाखाशिखः कल्पशाखी कर्तव्य इति २२ ॥ ४८ ॥ ४९ ॥ तीर्थकरमातृतप आह— 'तित्थे 'त्यादि, तीर्थकरजननीपूजापूर्वमेकाशनानि - एकभक्तानि सप्तैव तीर्थकरजननीनामके तपसि क्रियन्ते, अस्य च तपसो भाद्रपदे मासि शुक्रुसप्तम्यामारम्भः त्रयोदश्यां च समाप्तिः, वर्षत्रयं च यावदिदं तपः क्रियते २३ ॥ ५० ॥ समवसरणतप आह - 'एक्कासेत्यादि, भाद्रपदमासि कृष्णप्रतिपद् आरभ्य तत्पूजापूर्व - समवसरणप्रतिमापूजनपुरस्सरं स्वशक्त्यनुसारेणैकाशननिर्विकृ 293 ७ १ २ ३ ५/६ ७ ८ ९ १० ११ ८ ९ १० ११ ५ ६ ७ ११ ५ ६ ७ ८ ९ १० ७ ८ ९ १० ११ ५ ६

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310