Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 304
________________ चाष्टमाइगसूत्रम्-"पढमे सत्तए एकेक भोयणस्स दत्तिं पडिगाहेइ, एकेकं पाणयस्स, एवं जाव सत्तमे सत्त दत्चीड योयणस्स पडिगाहेइ, सत्त पाणयस्से"त्यादि, अन्ये पुनरन्यथा प्रतिपादयन्ति-प्रथमे सप्तके प्रथमदिवसे एकां दत्तिं गृहाति द्वितीये द्वे तृतीये तिस्रः चतुर्थे चतस्रः पञ्चमे पश्च षष्ठे षट् सप्तमे सप्त, एवं द्वितीये तृतीये चतुर्थे पञ्चमे षष्ठे सप्तमे च सप्तके द्रष्टव्यं, उक्कं च व्यवहारभाष्ये-"अहवा एक्कक्कियं दत्तिं जा सत्तेकेकस्स सत्तए । आएसो अत्थि एसोऽवि"त्ति, तदेवमेकोनपञ्चाशता वासरैरियं सप्तसप्तकिका प्रतिमा भवति, सप्त सप्तका दिनानां यस्यां सा सप्तसप्तकिका, सप्तशब्दककारस्य मकारः प्राकृवत्वात्, अथवा सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, यस्यां हि सप्त दिनसप्तकानि भवन्ति तस्यां सप्त सप्तमानि दिनानि भवन्त्येवेति । तथा अष्टाष्टमिका नवनवमिका दशदशमिका च प्रतिमा एवं-प्रागुक्तप्रकारेणैव द्रष्टव्या, नवरं-केवलमयं विशेष:-अष्टकनवकदशकवृद्धिमिः सह प्रत्येकं दत्तिर्वर्धते, इदमुक्तं भवति-अष्टाष्टमिकायां प्रतिमायामष्टावष्टकानि भवन्ति, तत्र प्रथमेऽष्टके प्रतिदिनमेकैका दचिह्यते, द्वितीयेऽष्टके प्रतिदिनं द्वे दत्ती एवं तृतीये तिस्रः चतुर्थे चतस्रः एवमेकैकदत्तिवृद्ध्या तावदवगन्तव्यं यावदष्टमेऽष्टके प्रतिदिनमष्टावष्टौ दत्तयो गृह्यन्ते, अस्यां हि चतुःषष्टिर्दिनानि भवन्ति । तथा नवनवामिकायां प्रतिमायां नव नवकानि भवन्ति, तत्र प्रथमे नवके प्रतिदिनमेकैका दत्तिः द्वितीये नवके प्रतिदिनं दत्तिद्वयं तृतीये नवके प्रतिदिनं दत्तित्रयं एवमेकैकदत्तिवृद्ध्या तावदवसेयं यावन्नवमे नवके प्रतिदिनं नव नव दत्तयः, अत्र चैकाशीतिर्दिनानि । तथा दशदशमिकायां प्रतिमायां दश दशकानि भवन्ति, तत्र प्रथमे दशके प्रतिदिनमेका दत्तिर्गृह्यते, द्वितीये दशके प्रतिदिनं दत्तिद्वयं, एवमेकैकदत्तिवृद्ध्या तावन्नेतव्यं यावदशमे दशके प्रतिदिनं दश दश दत्तयः, अत्र दिनानां शतमेकं । तदेवं नवमिर्मासैश्चतुर्विशत्या दिनैश्चतस्रोऽप्येताः प्रतिमाः समाप्यन्ते, इह च सप्तसप्तमिकायां प्रतिमायां दत्तिपरिमाणं षण्णवत्यधिकं शतं, अष्टाष्टमिकायामष्टाशीत्युत्तरे द्वे शते दत्तीनां, नवनवमिकायां पञ्चोत्तराणि चत्वारि शतानि, दशदशमिकायां पञ्चाशदधिकानि पश्च शतानि दत्तीनामिति ३०॥ ६१ ॥ ६२ ॥६३ ॥ इदानीमाचाम्लवर्धमानं तपः प्राह-एगे'त्यादिगाथाद्वयं, एकादिकान्येकैकवृद्धिमन्ति पर्यन्ताभक्तार्थान्याचाम्लानि क्रियन्ते यावत्वेषामाचाम्लानां शतं परिपूर्ण भवति, एतदाचाम्लवर्धमाननामकं महातपश्चरणं, आचाम्लं वर्धमानं यत्र तपश्चरणे तदाचाम्लवर्धमानं, अयमर्थः-प्रथमं तावदाचाम्लं क्रियते तत उपवासः ततश्च द्वे आचाम्ले पुनरुपवासः त्रीण्याचाम्लानि पुनरुपवासः चत्वार्याचाम्लानि पुनरुपवास: पञ्च आचाम्लानि पुनरुपवासः एवमुपवासान्तरितान्येकोत्तरवृद्ध्या तावदाचाम्लानि वर्धनीयानि यावत्पर्यन्ते शतमाचाम्लानां कृत्वा एकमुपवासं करोतीति, इह च शतं चतुर्थानां तथा पञ्चाशदधिकानि पञ्च सहस्राण्याचाम्लानां भवन्ति, उभयमीलने वर्षाणि चतुर्दश मासास्त्रयो दिनानि च विंशतिरिति ३१ ॥ ६४॥ ॥६५॥ अथ गुणरत्नवत्सरं तपः प्राह-गुणे'त्यादिगाथाचतुष्टयं, गुणानां-निर्जरादी(मला)नां निर्जराविशेषाणां रचनं करणं वत्सरेण सत्रिभागवर्षेण यस्मिंस्तपसि तद्गुणरचनवत्सरं अथवा गुणा एव रत्नानि यत्र स तथा गुणरत्नो वत्सरो यत्र तद्गणरत्नवत्सरं तपः एतस्मिन् गुणरत्नवत्सरे तपश्चरणे षोडश मासा भवन्ति, तत्र प्रथमे मासे एकान्तरा उपवासाः कर्तव्याः, तथा दिवसे निरन्तरमुत्कटुकासनेन स्थावव्यं निशायां पुनर्नित्यमेव वीरासनकेन-वीरासनोपविष्टेन तथा निशि भवितव्यमप्रावृतेन-निरावरणेनेत्यर्थः, एवं द्वितीयादिष्वपि मासेष्वेकोरिया वृद्ध्या तावदुपवासाः कर्तव्या यावत्षोडशे मासे षोडशोपवासा भवन्ति, अयमर्थः-प्रथमे मासे पारणकदिनान्तरित एकैक उपवासः कर्तव्यः द्वितीये मासे द्वौ द्वावुपवासौ तृतीये मासे त्रयस्त्रय उपवासाः चतुर्थे चत्वारो यावत् षोडशमासे षोडश षोडश उपवासा भवन्ति, अत्र च त्रयोदश मासाः सप्तदश दिनाधिकास्तपःकालः त्रिसप्ततिश्च दिनानि पारणककालः, एवं चाय-पन्नरस वीसं चउवीस चेव चउवीस पन्नवीसा य । चउवीस एकवीसा चउवीसा सत्तवीसा य ॥ १॥ तीसा तेत्तीसाविय चढवीस छवीस अट्ठवीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥२॥ पन्नरस दसऽह छप्पञ्च चउर पञ्चसु य तिन्नि तिन्निति । पञ्चसु दो दो य तहा सोलसमासेसु पारणगा ॥३॥ इह च यत्र मासेऽष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यप्रेतनमासादाकृष्य पूरणीयानि अधिकानि चागेतनमासे क्षेप्तव्यानि, तथा यत्प्रथमेत्यादिगाथायामुत्कटुकासनाद्यनुष्ठानं पूर्वमुक्तं तत्समप्रेष्वपि मासेसु करणीयं, सर्वसङ्ख्यया चासिंस्तपसि विंशत्यूनानि पञ्च शतानि दिनानां भवन्तीति, तदेवमपारः प्रवचनपारावारः तत्प्रतिपादिततपसां च प्रभूताः कार इत्यतोऽनेकानि स्कन्दकप्रमुखपुरुषविशेषैराचीर्णानि तपांसि श्रूयन्ते ॥६६॥ ६७ ॥ ६८ ॥ ६९॥ कियन्तीह वैविक्क्येन वक्तुं शक्यन्ते?, दिब्यानं च किञ्चिदेतदुपदर्शितं ततः शेषाणां तपोविशेषाणामतिदेशमाह-तहे'त्यादि, तथाशब्दः प्रागुक्तापेक्षया समुच्चये, अङ्गानां-आचारादीनां उपाङ्गानां-औपपातिकादीनां चैत्यवन्दनाया-ऐयापथिकीशक्रस्तवस्थापनाईत्स्तवनामस्तवश्रुतस्तवसिद्धस्तवस्वरूपायाः पंचमङ्गलमहाश्रुतस्कन्धस्य आदिशब्दात्प्रकीर्णकानां च देवेन्द्रस्तवादीनामुपधानानि-तपोविशेषरूपाणि येन विधिना भणितानि तथैव समयात्-सिद्धान्ताद् भवन्ति शेयानि, इह च साम्प्रतं मुग्धलोकहिताय बहुश्रुतसूरिपरम्पराप्रवर्तितान्यपराण्यपरिमितानि तपांसि प्रचरन्ति दृश्यन्ते, परं नेह तानि प्रतन्यन्ते, ग्रन्थप्रपञ्चप्रसङ्गात् , तदर्थिना चास्मदुपरचिता सामाचारी निरीक्षणीया २७१ ॥७॥ इदानीं 'पायालकलस'त्ति द्विसप्तत्युत्तरद्विशततमं द्वारमाह पणनउइ सहस्साई ओगाहित्ता चउद्दिसिं लवणं । चउरोलिंजरसंठाणसंठिया होंति पायाला ॥७१॥ वलयामुह केयूरे जुयगे तह ईसरे य बोद्धवे । सबवइरामयाणं कुड्डा एएसि दससइया 295

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310