Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 308
________________ एहिं व ॥ ९७ ॥ पवयणसारुद्धारो रहओ सपरावयोहकजंमि । जंकिंचि इह अजुत्तं बहुस्सुआतं विसोहंतु ॥ ९८ ॥ जुम्म। धर्म:-सर्वज्ञप्रणीतः स एव जीवादिपदार्थाधारत्वेन धरा-पृथिवी तस्या यदुद्धरणं-स्वरूपभ्रंशरक्षणाद्यथावस्थितत्वेनावस्थापनं वद्विषये महावराहा-आदिवराहा ये श्रीजिनचन्द्रसूरयस्तच्छिष्याणां श्रीआवदेवसूरीणां पादपङ्कजपरागैः-क्रमकमलकिजल्कभूतैः श्रीमद्विजयसेनगणधरकनिष्ठेयशोदेवसूरीणां च ज्येष्वैः श्रीनेमिचन्द्रसूरिभिः सविनयं शिष्यभणितः सांयात्रिफैरिव-प्रावहणिकैरिव समयरत्नाकरात्-सिद्धान्तसमुद्राद्रनानीव सदानि-शोभनामिधेयानि षट्सप्तत्युत्तरद्विशतसङ्ख्यानि द्वाराणि निपुणनिभालनपूर्व गृहीत्वा प्रवचनसारोद्धारो नाम प्रन्थः स्वपरावबोधकार्यनिमित्तं रचितो-निर्मितः, यह किश्चिदयुक्तमुक्तं तद्बहुश्रुता विशोधयन्तु ।। इह यद्यपि यद्भवितव्यं तदेव भवति तथापि शुभाशयफलत्वाच्छोभनार्थेष्वाशंसा विधेयेति दर्शनार्थमाशंसां कुर्वन्नाह जा विजयइ भुवणत्तयमेयं रविससिसुमेरुगिरिजुत्तं । पवयणसारुद्धारो ता नंद बहु पढिर्जतो यावदेतद्विजयते भुवनत्रयं-वर्गमर्त्यपाताललक्षणं रविशशिसुमेरुगिरियुक्तं-दिनकरतुहिनकरसुरगिरिपरिगतं तावदर्य प्रवचनसारोद्धारप्रन्थो बुधैः-तत्त्वावबोधबन्धुरबुद्धिभिः पठ्यमानो नन्दतु-शिष्यप्रशिष्यपरम्पराप्रचारितरूपां समृद्धिमासादयतु ॥ १५९९ ।। (प्रन्थानं १८०००) इति श्रीसिद्धसेनसूरिविरचिता प्रवचनसारोद्धारवृत्तिः समाता ॥ सिद्धान्तादिविचित्रशास्त्रनिकरव्यालोकनेन कचित्, काप्यात्मीयगुरूपदेशवशतः स्वप्रज्ञया च कचित् । प्रन्थेऽस्मिन् गहनेऽपि शिष्यनिवहैरत्यर्थमभ्यर्थितस्तत्त्वज्ञानविकाशिनीमहमिमां वृत्तिं सुबोधां व्यधाम् ॥१॥ मेधामन्दतया चलाचलतया चित्तस्य शिष्यावलीशास्त्रार्थप्रतिपादनादिविषयव्याक्षेपभूयस्तया । यत्सिद्धान्तविरुद्धमत्र किमपि ग्रन्थे निबद्धं मया, तद् भूतावहितैः प्रपश्चितहितैः शोभ्यं सुधीमिः स्वयम् ॥ २॥ श्रीचन्द्रगच्छगगने प्रकटितमुनिमण्डलप्रभाविभवः । उदगानवीनमहिमा श्रीमदभयदेवसूरिरविः ॥३॥ तार्किकागस्त्यविस्तारिसत्प्रवाचुलुकैश्चिरम् । वर्धते पीयमानोऽपि, येषां वादमहार्णवः ॥४॥ तदनु धनेश्वरसूरिजेझे यः प्राप पुण्डरीकाख्यः । निर्मध्य वादजलधि जयश्रियं मुञ्जनृपपुरतः ॥ ५॥ भास्वानभूमवीनः श्रीमदजितसिंहसूरिरथ यस्य । तपसोल्लासितमहिमा ज्ञानोद्योतः क न स्फुरितः ॥ ६॥ श्रीवर्धमानसूरिस्ततः परं गुणनिधानमजनिष्ट । अतनिष्ट सोममूर्तेरपि यस्य सदा कलाविभवः ॥७॥ अथ देवचन्द्रसूरिः श्रीमान् गोभिर्जगज्जनं धिन्वन् । रजनीजानिरिवाजनि नास्पृश्यत यः परं तमसा ॥८॥ श्रीचन्द्रप्रभमुनिपतिरवति स्म ततः स्वगच्छमच्छमनाः । अचलेन येन महता सुचिरं चक्रे क्षमोद्धरणम् ॥ ९॥ अथ भद्रभुवोऽभूवन , श्रीभद्रेश्वरसूरयः । ये दधुर्विधुतारीणि, तपांसि ज यशांसि च ॥ १०॥ शिष्यास्तेषामभवन् श्रीमदजितसिंहसूरयः शमिनः । भ्रमरहितैः कुसुमैरिव शिरसि सदा यैः स्थितं गुणिनाम् ॥ ११ ॥ श्रीदेवप्रभसूरिप्रभवोऽभूवनथोन्मथितमोहाः । सूरिषु रेखा येषामायैव बभूव भूवलये ॥ १२ ॥ अप्रमेयप्रमेयोमिनिर्माणेऽर्णवसन्निभाः। यैः प्रमाणप्रकाशोऽयं, मध्यते विबुधैर्ननु ॥ १३॥ श्रीश्रेयांसचरित्रादिप्रबन्धाङ्गनसङ्गिमी । यद्वाणी लास्यमुल्लास्य, कस्य नो मुदमादधे ॥ १४ ॥ प्रज्ञावैभवजूंभणादहरहर्देवेज्यसब्रह्ममियागब्रह्म विनेयवृन्दहृदयक्षेत्रान्तरुप्तं तथा । नित्याभ्यासघनाम्बुवृष्टिघटनादकरितं पूर्णतामायातं फलति स्म वादिविजयैर्दचप्रमोदं यथा ॥ १५॥ नाप्लान्यंत कति स्मयोबुरधियो यद्गद्यगुम्फोर्मिमिः, यद्वाग्वैभवभङ्गिमिः कति नहि प्राप्यन्त हर्ष नृपाः । यत्तीव्रव्रतमुद्रया कति न चानीयन्त चित्रं जना, यद्वा किं बहु जल्पितेन निखिलं यत्कृत्यमत्यद्भुतम् ॥ १६ ॥ तेषां गुणिषु गुरूणां शिष्यः श्रीसिद्धसेनसूरिरिमाम्। प्रवचनसारोद्धारस्य वृत्तिमकरोदतिस्पष्टाम् ॥ १७ ॥ करिसागररविसये १२४८ श्रीविक्रमनृपतिवत्सरे चैत्रे । पुण्यार्कदिने शुक्लाष्टम्यां वृत्तिः समाप्ताऽसौ ॥ १८ ॥ तारकमुक्कोले शशिकलशे गगनमरकतच्छत्रे । दण्ड इव भवति यावत् कनकगिरिर्जयतु वावदियम् ॥ १९॥ इति श्रीमद्विद्वद्धुरन्धरनेमिचन्द्राचार्यकृतमूलः श्रीमत्सिद्धसेनसूरिपुरन्दरसूत्रितवृत्तियुतः श्रीमान् प्रवचनसारोद्धारः समाप्तिमगमत् याछायायायायायायायायायायायलाच 299

Loading...

Page Navigation
1 ... 306 307 308 309 310