Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 306
________________ कर्मणि वुन् , यथा पादहारक इत्यत्र, वानि च वैक्रियशरीरापेक्षयाऽत्यन्तशुभानि स्वच्छस्फटिकशिलाशकलवदतिशुभ्रपुद्गलसमूहघटनात्मकानि पर्वतादिमिरप्यप्रतिहतानि, तत्रैतानि कदाचिल्लोके सर्वथा न भवन्त्येव, ततोऽभवनलक्षणमन्तरमेषाम्-आहारकशरीराणां जघन्यत एक: समयः उत्कर्षतः षण्मासाः, उक्तं च-"आहारगाइं लोए छम्मासा जा न होतिवि कयाई । उक्कोसेणं नियमा एकं समयं जहनेणं ॥१॥" [आहारकशरीराणि लोके षण्मासान यावन्न भवन्त्यपि कदाचित् । उत्कर्षेण नियमात् एकं समयं जघन्येन ॥१॥ यत्पुनर्जीवसमासादिषु-आहारमिस्सजोगे वासपुहुतं' इत्यादिवचनत आहारकमिश्रस्य वर्षपृथक्त्वमन्तरमुक्तं तन्मतान्तरं संभाव्यते इति, यदापि भवन्ति तदापि जघन्यत एकं द्वे त्रीणि वा उत्कर्षतः सहस्रनवकं, अवगाहना चाहारकशरीरस्य जघन्यतो देशोना किच्चिदूना रमिः-हस्तः, तथाविधप्रयत्नभावतस्तथाऽऽरम्भकद्रव्यविशेषतश्च प्रारम्भसमयेऽपि तस्या एतावत्या एव भावात् , न सौदारिकादेरिवाकलासयभागमात्रता प्रारम्भकाले इति भावः, उत्कर्षतः पुनः परिपूर्णा रमिः, उक्तं च समवायाले-"आहारगसरीरस्स जहनेणं देसणा रयणी, उकोसेणं पडिपुण्णा रयणी"ति ॥ ८०॥ साम्प्रतमेकजीवस्य सर्वभवेष्वेकभवे च कियन्त्याहारकशरीराणि भवन्तीयेतप्रतिपादनायाह-'बत्तारी'त्यादि, चतुर्दशपूर्वधरः संसारे निवसनुत्कर्षतोऽपि वारचतुष्टयमेवाहारकशरीरं करोति, चतुर्थवेलायां कृते तब एव मुत्यवाप्तेरिति भावः, एकस्मिंस्तु भवे वारद्वयमेवेति ।। ८१ ॥ अथ चतुर्दशपूर्वधरोऽपि किमर्थमाहारकशरीरमारचयति? उच्यते, तीर्थकरपादपीठोपकण्ठगमनाय, तदपि किंनिमित्चमित्यत आह-तिस्थयरे'त्यादि, तीर्थकरद्धिसंदर्शनार्थ अर्थावप्रहणहेतोवा यद्वा संशयव्यवच्छेदार्थ जिनपादमूले चतुर्दशपूर्वविदो गमनं भवति, इदमैदम्पर्यमत्र-सकलत्रैलोक्यातिशायिनीमष्टमहाप्रातिहार्यादिकामनुपमामाईती समृद्धिमखिलामालोकयितुमुत्पन्नकुतूहलस्तथाविधान वा नवनवार्थसार्थान् जिघृक्षुः अथवा कस्मिंश्चिदर्थेऽत्यन्तगहनै सदि. हानस्तदर्थविनिश्चितये कश्चिचतुर्दशपूर्वविद्विदेहादिक्षेत्रवर्तिवीतरागचरणकमलमूलमाहारकशरीरेण समुत्सर्पति, न खल्वौदारिकेण वपुषा शक्यते तत्र गन्तुं, तत्र च भगवन्तमालोकितसमस्तलोकालोकमालोक्य परिनिष्ठितप्रयोजनः पुनरागत्य तमेव देशं यत्र प्राग्गच्छतौदारिकमनाबाधबुख्या न्यासकवन्निक्षिप्तं स्वप्रदेशजालावबद्धं तदवस्थमास्ते ततो याचितोपकरणवद्विमुच्याहारकमुपसंहृत्यात्मप्रदेशजालं दागौदारिकमेवानुप्रविशति, एष च प्रारम्भात्प्रभृति विमोचनावसानः सर्वोऽप्यन्तर्मुहूर्तपरिमाणः कालो भवतीति २७३ ॥ ८२ ॥ साम्प्रतं 'देसा अणारिय'त्ति चतुःसप्तत्युत्तरद्विशततमं द्वारमाह सग जवण सबर बब्बर काय मुरुंडोइ गोण पक्कणया । अरबाग होण रोमय पारस खस खासिया चेव ॥ ८३ ॥ दुषिलय लस बोकस भिल्लंघ पुलिंद कुंच भमररुआ । कोवाय चीण चंचुय मालव दमिला कुलग्घा या ॥८४॥ केकय किराय हयमुह खरमुह गयतुरयमिंढयमुहा याहयकन्ना गयकन्ना अमेऽषि अणारिया बहवे ॥ ८५ ।। पावा य चंडकम्मा अणारिया निग्घिणा निरणु तावी। धम्मोत्ति अक्खराइंसुमिणेऽविन नज्जए जाणं॥८६॥ शकाः यवनाः शबराः बर्बराः कायाः मुरुण्डाः उड्डाः गौडाः पकणगाः अरबागाः हूणाः रोमकाः पारसाः खसाः खासिकाः लुम्बिलकाः लकुशाः बोकशाः मिल्लाः अन्ध्राः पुलिन्द्राः कुञ्चाः भ्रमररुचाः कोर्पकाः चीनाः चक्षुकाः मालवाः द्रविडाः कुलार्धाः केकयाः किरावाः यमुखाः खरमुखाः गजमुखाः तुरजमुखाः मिण्ढकमुखाः हयकर्णाः गजकर्णाश्चेत्येते देशा अनार्याः, आराद्-रेण हेयधर्मेभ्यो याता:-आप्ता उपादेयधमैरित्यार्याः, 'पृषोदरादय' इति रूपनिष्पत्तिः, तद्विपरीता अनार्याः, शिष्टासंमतनिखिलव्यवहारा इत्यर्थः, न केवउमेत एव, किंत्वपरेऽप्येवंप्रकारा बहवोऽनार्या देशाः प्रश्नव्याकरणादिप्रन्योता विझेयाः॥८३॥८४॥८५॥ अथ सामान्यतोऽ. नार्यदेशखरूपमाह-'पावेत्यावि, पते सर्वेऽप्यनार्यदेशाः 'पापा' पापं-अपुण्यप्रकृतिरूपं तद्न्धनिबन्धनत्वात्पापाः, तथा चण्डं-कोपोकटवया रौद्रामिधानरसविशेषप्रवर्तितत्वादतिरौद्रं कर्म-समाचरणं येषां ते चण्डकर्माणः, तथा न विद्यते घृणा-पापजुगुप्सालक्षणा येषां ते निर्गुणाः, तथा निरनुवापिन:-समासेवितेऽप्यकत्ये मनागपि न पश्चात्तापभाज इति भावः, किंच-येषु धर्म इत्यक्षराणि स्वप्नेऽपि सर्वथा न ज्ञायन्ते, केबलमपेयपानाभक्ष्यभक्षणागम्युगमनादिनिरताः शास्त्राद्यप्रतीतवेषभाषादिसमाचाराः सर्वेऽप्यमी अनार्यदेशा इति २७४ ॥८६॥ सम्प्रति 'आयरियदेस'त्ति पञ्चसप्तत्यधिकद्विशततमं द्वारमाह रायगिह मगह १ चंपा अंगा २ तह तामलित्ति वंगा य ३ । कंचणपुरं कलिंगा ४ वणारसी चेव कासी य ५॥८७॥ साकेयं कोसला ६ गयपुरं च कुरु ७ सोरियं कुसहा य ८। कंपिल्लं पंचाला ९ अहिछत्ता जंगला चेव १०॥ ८८ ॥ चारवई य सुरट्ठा ११ मिहिल विदेहा य१२ वत्थ कोसंबी १३ । नंदिपुरं संडिल्ला १४ भदिलपुरमेव मलया य १५ ॥ ८९ ॥ वइराड मच्छ १६ वरुणा अच्छा १७ तह मत्तियावह दसमा १८ । सोत्तीमई य चेई १९ वीयभयं सिंधुसोवीरा २० ॥१०॥ महुरा य सूरसेणा २१ पावा भंगी य २२ मासपुरी वहा २३ । सावत्थी य कुणाला २४ कोडीवरिसं च लाढा य २५ ॥ ९१ ॥ सेयवियाविय नयरी केयइअद्धं २५॥च आरियं भणियं । जत्थुप्पत्ति जिणाणं चक्षीणं रामकहाणं ॥ ९२॥ 297

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310