Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
तिकाचाम्लोपवासैः षोडशमिर्भाद्रपदचतुष्के-चतुर्यु भाद्रपदेषु प्रत्येकं विहितैः समवसरणतपो भवति, अत्र च चतुर्ष भाद्रपदेषु चतुः षष्टिस्तपोदिनानि स्युः, अयं भावः-समवसरणस्यैकैकं द्वारमाश्रित्य प्रत्येकं दिनचतुष्टयं क्रियते, तत एवास्य द्वारिकेति प्रसिद्धिः २४ ॥५१॥ अमावास्यातपः प्राह-'नन्दी'त्यादि, पटलिखितनन्दीश्वरसुरभुवनजिनार्चनान्वितं निजसामर्थ्यसदृशेन-वशक्त्यनुरूपेणोपवासादीनामन्यतमेन तपश्चरणेन भवत्यमावास्यातपोऽमावास्यावासरोदिष्ट, अमावास्यादिवस इत्यर्थः, इदं च तपो दीपोत्सवामावास्य रभ्यते वर्षसप्तकेन च समाप्यत इति २५ ॥ ५२ ॥ पुण्डरीकतप आह–'सिरी'त्यादि, श्रीपुण्डरीकनामके तपसि चैत्रमासस्य पूर्णिमायाः प्रारभ्य द्वादश पूर्णिमासीः मतान्तरेण सप्त वर्षाणि यावदेकाशनादि तपः स्वशच्या कर्तव्यं, पूजनीया च तत्प्रतिमा-नाभयजिनप्रथमगणधरस्य पुण्डरीकस्य प्रतिकृतिरिति, इह च चैत्रमासपूर्णिमास्यामस्य तपसः प्रारम्भे पुण्डरीककेवलोत्पत्तिरेव कारणं, पुण्डरी. कस्य हि भगवतश्चैत्रपूर्णिमायामुदपादि केवलज्ञानं, तथा चाचक्ष्महि श्रीपद्मप्रभचरित्रे पुण्डरीकगणधरवक्तव्यवायां-"घणघाइकम्म• कलुसं पक्खालिय सुक्झाणसलिलेणं । चेत्तस्स पुन्निमाए संपत्तो केवलालोयं ॥ १॥" [घनघातिकर्मकलुषं प्रक्षाल्य शुक्लध्यानसलिलेन । चैत्रस्य पूर्णिमायां संप्राप्तः केवलालोकं ॥१॥] इति, एवमन्यत्रापि उपयुज्य कारणं वाच्यं २६ ॥ ५३ ॥ अक्षयनिधिमाह-'देवे'त्यादि, देवाने-सर्वज्ञप्रतिमायाः पुरतः स्थापितः कलशः प्रतिदिनं क्षिप्यमाणयाऽक्षतमुष्ट्या यावद्भिर्दिनः पूर्यते वावन्ति दिनानि स्वशत्यनुरूपं यत्तप एकाशनाद्यन्यतरं तद् बुधा ब्रुवते अक्षयनिधि, अक्षयः-सदैव परिपूर्णो निधिः-निधानं यस्मादितिकृत्वा २७ ॥५४॥ साम्प्रतं यवमध्यां चन्द्रप्रतिमामाह-'वहुई'त्यादिगाथाचतुष्कं, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा-चन्द्रायणाख्यं तप इति, सा द्विधा-यवमध्या वनमध्या च, यवस्येव मध्ये स्थूलस्य पर्यन्वभागयोस्तु नुकस्य मध्यं यस्याः सा यवमध्या, वजस्व मध्ये तनुकस्य पर्यतयोस्तु स्थूलस्य मध्यं यस्याः सा वनमध्या, तत्रादौ यवमध्यां व्याख्यानयति-यथा शुक्लपक्षे प्रतिपदः प्रारभ्यानुवासरं-प्रतिदिवसमेकैकया कलया चन्द्रो वर्धते यावत्पर्वणि-पूर्णिमायां सकलामिरपि कलामिः संपूर्णः संपद्यते, तथा तेनैव प्रकारेण प्रतिपदि एकः कवलः, उपलक्षणमेतत् , ततो मिक्षा दत्तिर्वा एकैव गृह्यते, द्वितीयायां द्वौ कवलौ तृतीयायां त्रयः कवलाः एवमेकैककवलवृद्ध्या यावत्पूर्णिमायां तेषां कवलानां पञ्चदशकं भवति, पञ्चदश कवला अभ्यवइियन्ते इत्यर्थः, कृष्णे पक्षे च यथा प्रतिदिनमेकैकां कलां शशी मुञ्चति तथा कवलोऽपि मुच्यते यावदमावास्यायां 'सो'त्ति स कवल एको भवति, कोऽर्थः १-कृष्णपक्षप्रतिपदि पञ्चदश कवला गृह्यन्ते द्वितीयायां चतुर्दश तृतीयायां त्रयोदश इत्येवं यावदमावास्यायामक एव कवल इति, एषा यवमध्या चन्द्रप्रतिमा मासमात्रप्रमाणा भणिता २८ ॥ इदानीं पुनर्मासप्रमितां-मासप्रमाणां वनमध्यां चन्द्रप्रतिमां प्रकण वक्ष्यामि ॥ ५५॥५६॥ ५७ ॥ ५८॥ तामेवाह-पन्नरे'त्यादिगाथाद्वयं, कृष्णपक्षप्रतिपदि पञ्चदश कवला गृह्यन्ते, तत एकैकहान्या तावन्नीयते यावदमावास्यायामेकेन कवलेन जाता, अमावास्यायामक एव कवलो गृह्यते इति भावः, तथा प्रतिपदपि सिता-शुक्ला एकेन कवलेन जाता, कोऽर्थः १,-शुक्लप्रतिपद्यप्येक एव कवलो गृह्यते, ततो द्वितीयाया आरभ्यैकोत्तरवृद्ध्या तावन्नेयं यावत्पूर्णिमास्यां पञ्चदश कवला दत्चयो वा गृह्यन्ते इति, तदेवमिमे यवमध्यवनमध्ये द्वे अपि प्रतिमे भणिते इति, एष च पञ्चाशकादिप्रन्थाभिप्रायः, व्यवहारचूर्ण्यभिप्रायः पुनरयं-शुक्लपक्षस्य प्रतिपदि चन्द्रविमानस्य दृश्यस्य पञ्चदशभागीकृतस्य एका कला दृश्यते चतुर्दश कला न दृश्यन्ते द्वितीयस्यां वे कले तृतीयस्यां तिस्रः कलाः एवं यावत्पञ्चदश्यां परिपूर्णायां पञ्चदश कलाः, ततो बहुलपक्षस्य प्रतिपदि एकया कलया ऊनो दृश्यते चतुर्दश कला दृश्यन्ते द्वितीयस्यां त्रयोदश तृतीयायां द्वादश यावदमावास्यायामेकापि न दृश्यते, तदेवमयं मास आदावूनो मध्ये संपूर्णोऽन्ते पुनरपि परिहीनो, यवोऽप्यादावन्ते च तनुको मध्ये विपुलः, एवं साधुरपि मिक्षा गृहाति शुक्लपक्षस्य प्रतिपद्येकां द्वितीयस्यां वे तृतीयस्यां तिम्रो यावत्पश्वदश्यां पञ्चदश ततो बहुलपक्षस्य प्रतिपदि पुनश्चतुर्दश द्वितीयायां त्रयोदश यावच्चतुर्दश्यामेकां अमावास्यामुपोषितः, ततश्चन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च मिक्षायास्तनुत्वान्मध्ये विपुलत्वाद्यवमध्योपमितमध्यभागा, तथा चामुमेव यवमध्यां चन्द्रप्रतिमामधिकृत्यान्यत्रोक्तं-"एकैकां वर्धयेद्भिक्षां, शुळे कृष्णे च हापयेत् । भुजीत नामावास्यायामेष चान्द्रायणो विधिः॥१॥" वजमध्यायां चन्द्रप्रतिमायां बहुलपक्ष आदौ क्रियते, तत एवं भावना-बहुलपक्षस्य प्रतिपदि चन्द्रविमानस्य चतुर्दश कला दृश्यन्ते द्वितीयस्यां त्रयोदश तृतीयस्यां द्वादश यावच्चतुर्दश्यामेका अमावास्यायामेकापि न ततः पुनरपि शुक्लपक्षस्य प्रतिपदि चन्द्रविमानस्य एका कला दृश्यते द्वितीयायां द्वे यावत्पञ्चदश्यां पञ्चदशापि, तयं मास आदावन्ते च पृथुलो मध्ये तनुको वनमप्यादावन्ते च विपुलं मध्ये वनुकमेवं साधुरपि मिक्षां गृहाति बहुलपक्षस्य प्रतिपदि चतुर्दश द्वितीयस्यां त्रयोदश यावचतुर्दश्यामेकाममावास्यायां चोपवासयति ततः पुनरपि शुक्लपक्षस्य प्रतिपद्येकां मिक्षां गृहाति द्वितीयस्यां द्वे यावत्पश्चदश्यां पञ्चदशेति, तत एषापि चन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च विपुलतया मध्ये च तनुकतया वनमध्योपमितमध्यभागा वजमध्येति २९॥ ५९॥ ६०॥ साम्प्रतं सप्तसप्तमिकाद्याश्चतस्रः प्रतिमाः प्रतिपादयति-'दिवसे' इत्यादिगाथात्रयं, प्रथमे सप्तके दिवसे २ एका दत्तिाहा, ततः सप्तकेन सह दत्तिर्वर्धते यावत्सप्तमे सप्तके प्रतिदिनं सप्त दत्तयो भवन्ति, इयमत्र भावना-सप्तसप्तमिकायां प्रतिमायां सप्तसप्तका दिनानां भवन्ति, सत्र प्रथमे सप्तके प्रतिदिवसमेकैकां दविं गृहाति द्वितीये सप्तके प्रतिदिवसं द्वे द्वे दत्ती एवं तृतीये सप्तके तिस्रः २ चतुर्थे चतस्रः २ पथमे पथ २ षष्ठे षट् २ सप्तमे सप्त सप्तेति, एताश्च भोजनविषया एव दत्तय उक्ताः, एवमेतत्सङ्ख्या एव पानकविषया अपि प्रतिपत्तन्या, तथा
294

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310