Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
धारयति तद्रत्नावलीत्युच्यते, तत्रैककद्विकत्रिका उत्तराधर्यक्रमेण काहलिकयोः स्थाप्या भवन्ति, तदनु द्वयोरपि दाडिमपुष्पयोः प्रत्येकमष्टौ त्रिकाः, ते चोभयतो रेखाचतुष्टयेन व कोष्ठकान् विधाय मध्ये च शून्यं कृत्वा स्थाप्यन्ते, ततश्चाधोऽधः सरिकायुगले एकादयः षोडशान्ताः स्थाप्याः, तस्य च सरिकायुगलस्यान्ते - पर्यन्ते पदकं - पङ्कयष्टकेन चतुस्त्रिंशदङ्कस्थानानि, कोष्ठकाः इत्यर्थः,
तत्र प्रथमायां पडावेकमस्थानं द्वितीयस्यां पथ तृतीयस्यां सप्त चतुर्थ्यामपि सप्त पश्चम्यां पश्च षष्ठयामपि पञ्च सप्तम्यां त्रीणि अष्टम्यां त्वेकमेवाडस्थानं, तेषु चतुखिंशत्यपिकोष्ठकेषु त्रिकरचना, त्रिकाः स्थाप्यन्ते इति
FICENE
भावः, स्थापना चेयं, इदमत्र तात्पर्य - रत्नावलीतपसि प्रथममेकमुपवासं करोति ततो द्वौ ततस्त्रीन् इत्येका काहलिका, अंतरा च सर्वत्र पारणकं वाच्यं ततोऽष्टावष्टमानि - उपवासत्रिकात्मकानि करोति, एतैः किल काहलिकाया अधस्ताद्दाडिमपुष्पं निष्पद्यते, ततचैकमुपवासं करोति ततोऽपि द्वौ ततस्त्रीन् ततोऽपि चतुर इत्येवं पश्च षट् सप्ताष्टौ नव दशैकादश द्वादश त्रयोदश चतुर्दश पश्वादश षोडशोपवासान् करोति, एषा हि दाडिमपुष्पस्याधस्तादेका सरिका, ततश्चतुस्त्रिंशदृष्टमानि करोति, एतैः किल पदकं संपद्यते, ततः षोडशोपवासान् करोति ततः पञ्चदश ततश्चतुर्दश इत्येवमेकैकहान्या तावन्नेयं यावदेक उपवासः, एषा द्वितीया सरिका भवति, ततश्चाष्टावटमानि करोति, एतैरपि द्वितीयं दाडिमपुष्पं निष्पद्यते, ततस्त्रीनुपवासान् करोति ततो द्वौ तत एकमुपवासं करोति, एतैर्द्वितीया काहलिका निष्पद्यते, एवं सति परिपूर्णा रत्नावली सिद्धा भवति, अस्मिंश्च रत्नावलीतपसि कालिकायास्तपोदिनानि १२ दाडिमपुष्पयोः षोडशमिरष्टमैर्दिनानि ४८ सरिकायुगले द्वाभ्यां षोडशसंकलनाभ्यां दिनानि २७२ पदके चतुस्त्रिंशताऽष्टमैर्दिनानि १०२, सर्वैकत्वे चत्वारि शतानि चतुस्त्रिंशदुत्तराणि, अष्टाशीतिश्च पारणकदिनानि, उभयमीलने पथ्व शतानि द्वाविंशत्युत्तराणि, पिण्डितास्तु वर्षमेकं मासाः पश्च दिनानि च द्वादश, इदमपि च तपः पूर्ववचतसृभिः परिपाटीमिः समर्थ्यते, ततञ्चतुर्भिर्गुणने वर्षाणि पञ्च मासा नव अष्टादश 'च दिनानीति ॥ १९ ॥ २० ॥ २१ ॥ कनकावलीतपः प्राह - 'रयणे 'त्यादि गाथाद्वयं कनकमयमणिकनिष्पन्नो भूषणविशेष: कनकावली तदाकारं स्थापनया यत्तपस्तत्कनकावलीत्युच्यते, एतच्च कनकावलीतपो रत्नावलीतपःक्रमेणैव क्रियते, नवरं केवलं दाडिमपुष्पयोः पदके च त्रिकपदे - त्रिकाणां स्थाने उपवासद्वयसूचका द्विकाः कर्तव्याः, शेषं पुनः सर्वमपि तथैवेति, अस्मिंश्च तपसि काहलिकयोस्त पोदिनानि द्वादश दाडिमपुष्पयोर्द्वात्रिंशत् सरिकायुगले द्वे शते द्वासप्तत्युत्तरे पदके चाष्टषष्टिः, सर्वसङ्ख्यया त्रीणि शतानि चतुरशीत्यधिकानि, अष्टाशीतिश्च पारणकदिवसाः, तत्प्रक्षेपाच्चत्वारि दिनशतानि द्वासप्तत्युत्तराणि, सर्वाग्रपिण्डस्तु वर्षमेकं त्रयो मासा द्वाविंशतिर्दिवसाः, अत्रापि पूर्ववचतुर्भिर्गुणने वर्षाणि पश्य मासौ द्वौ दिनानि चाष्टाविंशतिरिति, अन्तकृद्दशादिषु तु कनकावल्यां पदके दाडिमद्वये च द्विकस्थाने त्रिका उक्ताः रत्नावल्यां च द्विका इति । तथा प्रथमतपसि लघुसिंहनिष्क्रीडिते यः सर्वरसाहारादिकः पारणकविधिरुक्तः स तपःपञ्चकेऽपि - लघु बृहत्सिंहनिष्क्रीडितमुक्तावलीरत्नावली कनकाव लीलक्षणे कर्तव्यः, एतच सर्व यथायथं भावितमेबेति ॥ २२ ॥ अथ भद्रतपः प्राह - 'भद्दे'त्यादि गाथाद्वयं, भद्रादिषु भद्रमहाभद्रभद्रोचरसर्वतोभद्रेषु तपस्सु मध्ये पूर्व भद्रतपः प्रतिपादयामि, तद्यथा - आदौ भवेदेक उपवासः ततो द्वौ ततस्त्रयः ततश्चत्वारः ततः पथ्य इत्येका लता एवं त्रयश्चत्वारः पथ्व एको द्वौ इति द्वितीया पथच एको द्वौ त्रयञ्चत्वार इति तृतीया द्वौ त्रयश्चत्वारः पञ्च एक इति चतुर्थी चत्वारः पथ्व एको द्वौ त्रय इति पञ्चमी, इह पथ्यमितामिः पञ्चसप्त तिरुपवासाः पञ्चविंशतिश्च पारणकानि, उभयमीलने च शतमेकं दिनानामिति ॥ २३ ॥ स्थापना चेयं । महाभद्रं तपः प्राह — 'पभणामी 'त्यादि गाथात्रयं, प्रकर्षेण भणामि - प्रतिपादयामि महाभद्रनामकं तपः, तद्यथा - पूर्वमेक उपवासः ततो द्वौ त्रयश्चत्वारः पथा षट् सप्तेत्येका लता, चत्वारः पथा षट् सप्त एको द्वौ त्रय इति द्वितीया,
त्रयश्चत्वारः पथ्था षट् सप्त एको द्वाविति चतुर्थी, षट् सप्तैको
सप्त एको द्वौ त्रयश्चत्वारः पञ्च षडिति तृतीया, द्वौ त्रयश्चत्वारः पश्वेति पञ्चमी, द्वौ त्रयश्चत्वारः
पश्च षट् सप्त एक इति षष्ठी, पृथ्व षट् सप्त एको द्वौ त्रयश्च
~
१ | २ | ३ | ४ | ५
३ ४ ५ १ २
५ १ २ ३
१
२ ३ ४ ५ ४ ५ १ २ ३ त्वार इति सप्तमी, इहैकोनपञ्चाशत्पारणकानि, षण्णवत्यधिकं शतं चतुर्थानां - उपवासानामित्यर्थः एवं चास्मिन्महाभद्रे तपसि द्वे शते पञ्चचत्वारिंशदुत्तरे दिनानां भवत इति । स्थापना चेयं (४२८) ॥२४॥ साम्प्रतं भद्रोत्तरं तपः प्राह-'भद्दो' इत्यादि गाथाद्वयं, प्रतिमा नाम प्रतिज्ञाविशेषः, ततो भट्टोत्तरप्रतिमायां-भद्रोचरतपसि पच षट् सप्ताष्टौ नवेत्याद्या लवा, सप्ताष्टौ नव पञ्च षडिति
४
292

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310