Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
होइ अमावस्सतवो अमावसावासरुद्दिट्ठो ॥ ५२ ॥ सिरिपुंडरीय नामगतवंभि एगासणाइ कायवं । चेत्तस्स पुन्निमाए पूरयन्वा य तप्पडिमा ॥५३॥ देवग्गठवियकलसो जा पुन्नो अक्खयाण मुट्ठीए । जो तत्थ सत्तिसरिसो तवो तमक्खयनिहिं विंति ॥ ५४ ॥ वहुइ जहा कलाए एक्काएऽणुवासरं चंदो । पुन्नो संपज्जइ जा सयलकलाहिं पमि ॥ ५५ ॥ तह पडिवयाए एक्को कवलो बीयाइ पुन्निमा जाव । एक्केक्ककवलवुड्डी जा तेसिं होइ पन्नरसगं ॥ ५६ ॥ एक्केक्कं किमि य पकमि कलं जहा ससी मुयइ । कवलोवि तहा मुम्बइ जाऽमावासाइ सो एक्को ॥ ५७ ॥ एसा चंदप्पडिमा जवमज्झा मासमित्त परिमाणा । इण्हिं तु वज्जमज्झं मासप्पाडिमं पवक्खामि ॥ ५८ ॥ पन्नरस पडिवयाए एक्कगहाणीऍ जावऽमावस्सा । एक्केणं कवलेणं जाया तह पडिबईऽवि सिआ ॥ ५९ ॥ बीपाइयासु इकगवुढी जा पुन्निमाऍ पन्नरस । जवमज्झवज्जमज्झाओ दोवि पडिमाओं भणियाओ ॥ ६० ॥ दिवसे दिवसे एगा दत्ती पढमंमि सत्तगे गिज्झा । वहह दत्ती सह सत्तगेण जा सत्त सत्तमए ॥ ६१ ॥ इगुवन्नवासरेहिं होइ इमा सत्तसत्तमी पडिमा । अठ्ठट्ठमिया नवनवमिया य दसदसमिया चैव ॥ ६२ ॥ नवरं वह दत्ती सह अठ्ठगनवगद सगवुट्ठीहिं । चउसट्ठी एक्कासी सयं च दिवसाणिमासु कमा ॥ ६३ ॥ एगाइयाणि आयंबिलाणि एकेकवुहिमंताणि । पचंतअभत्तठ्ठाणि जाव पुन्नं सयं तेसिं ॥ ६४ ॥ एयं आयंबिलवद्धमाणनामं महातवञ्चरणं । वरिसाणि एत्थ चउदस मासतिगं वीस दिवसाणि ॥ ६५ ॥ गुणरयणवच्छरंमी सोलस मासा हवंति तवचरणे । एगंतरोववासा पढमे मासंमि कायवा ॥ ६६ ॥ ठाय उक्कुडुआसणेण दिवसे निसाऍ पुण निचं । वीरासणिएण तहा होयधमवाउडेणं च ॥ ६७ ॥ बीयाइसु मासेसुं कुज्जा एगुत्तराए बुट्ठीए । जा सोलसमे सोलस उववासा हुंति मासंमि ॥ ६८ ॥ जं पढमगंभि मासे तमणुहाणं समग्गमासेसु । पंच सयाइं दिणाणं वीसूणाई इमंमि तवे ।। ६९ ।। तह अंगोवंगाणं चिहवंदणपंचमंगलाईणं । उवहाणाह जहाविहि हवंति नेयाई तह समया ॥ ७० ॥
।
उता,
तपति-निर्दहति दुष्कर्माणीति तपः, तच नानाविधोपाधिनिबन्धनत्वादनेकप्रकारं, तत्रेन्द्रियजयमूलत्वाज्जिनधर्मस्य प्रथममिन्द्रिय जयाह्वयं तपः प्राह - प्रथम दिने पूर्वार्ध द्वितीयदिने एकाशनकं तृतीयदिने निर्विकृतिकं चतुर्थदिने आचामाम्लं पञ्चमदिने उपवासः इत्येवं पश्चमि - स्वपोदिनैरेका लता, लता श्रेणिः परिपाटी चेत्येकार्थाः, एकैकं चेन्द्रियमाश्रित्यैवस्वरूपा एकैका लता क्रियते, ततः पथ्यमिर्लतामिः पथ्यविंशत्या दिवसैरिन्द्रियजयाख्यस्तपोविशेषो भवति, इन्द्रियाणां - स्पर्शनादीनां पञ्चानामपि जयो- दमनं यस्मादसाविन्द्रियजयः, इन्द्रियजयहेतुत्वाद्वा इन्द्रियजयः, यद्यपि सर्वाण्यपि तपांसीन्द्रियजये प्रभविष्णूनि तथापीन्द्रियजयमालम्ब्य क्रियमाणत्वादस्यैव तपसस्तद्धेतुत्वं पूर्वसूरिभिर मिहितं, एवमुचरत्रापि वाच्यं ॥ ९ ॥ योगशुद्धितपः प्राह - 'निधिगइये 'त्यादि, निर्विकृतिकं आचामाम्लं उपवासश्च इत्येका एकैकं च योगमाश्रित्यैवंविधा एकैका लता क्रियते, ततस्तिसृमिर्लतामिर्योगशुद्धिनामकं दिननवकप्रमाणमेतत्तपो भणितं पूर्वर्षिमिः, सूत्रे च पुंस्त्वं प्राकृतत्वात्, योगानां - मनोवाक्कायव्यापाराणां शुद्धिः - अनवद्यता यस्माचचपो योगशुद्धिः ॥ १० ॥ ज्ञानदर्शनचारित्रतपांसि प्राह - 'नाणंमी' त्यादि, ज्ञाने - ज्ञानशुद्धिनिमित्तं दर्शने - दर्शनशुद्धिनिमित्तं चरणे - चारित्रशुद्धिनिमित्तं तत्पूजापूर्व-ज्ञानादिपूजापुरस्सरं तन्नामके - ज्ञानादिनामके तपसि प्रत्येकं त्रयस्त्रय उपवासा भवन्ति इदमुक्तं भवति - ज्ञानस्य सिद्धिहेतोस्त्रिभिरुपवासैः कृतैर्ज्ञानतपो भवति, तत्र च यथाशक्ति ज्ञानस्य - सिद्धान्तादेः पुस्तकन्यस्तस्य सुप्रशस्तपरिधापनिकादिकरणं ज्ञानवतां च पुरुषाणामेषणीयवस्त्रान्नपानप्रदानादिरूपा पूजा कर्तव्या, एवं त्रिभिरुपवासैर्देर्शनतपो भवति, नवरं तत्र दर्शनप्रभावकाणां सम्मत्यादिप्रन्थानां सद्गुरूणां च पूजा विधेया, तथा त्रिभिरुपवासैश्चारित्रतपो भवति, तत्रापि चारित्रिणां पूजा करणीयेति ॥ ११ ॥ कषायविजयतपः प्राह'एक्के' त्यादि, एकाशनकं निर्विकृतिकं आचाम्लं अभक्तार्थश्च - उपवासः इत्येका लता, प्रतिकषायं चैकैका लता क्रियते तत्कषायविजयं तपश्चरणं, कषायाणां - क्रोधमानमायालो भलक्षणानां चतुर्णा विशेषेण जय: - अभिभवनं यस्मादितिकृत्वा, अस्मिंश्च तपसि चतस्रो लताः षोडश दिवसानि ॥ १२ ॥ अष्टकर्मसूदनं तपः प्राह - 'खमण' मित्यादिगाथाद्वयं, क्षमणम् - उपवासः १ एकाशनं २ एकसिक्थकं ३ एकस्थानकं ३ एका दत्तिः ५ निर्विकृतिकं ६ आचाम्लं ७ अष्टकवलं च ८ एषा एका लता, एकैकं च कर्माश्रित्यैवरूपा 'एकैका लता क्रियते, ततोऽष्टामिर्लतामिर्दिवसानां चतुःषष्टिर्भणिता जिनेन्द्रैरष्टकर्मसूदनतपसि, अष्टानां कर्मणां - ज्ञानावरणादीनां सूदनंविनाशनं यस्मात्तदष्टकर्मसूदनं तपः, एतत्समाप्तौ च जिनपतीनां स्नपनविलेपनपूजन परिधापनिकादि विधेयं, पुरतो विशिष्टबलिमध्ये कनकमयी कर्मतरुदारिका कुठारिका च ढौकनीया ॥ १२ ॥ लघुसिंहनिष्क्रीडितं तपः प्रतिपादयितुमाह - 'इगे' त्यादिगाथाद्वयं, अनन्तरवक्ष्यमाणमहासिंहनिष्क्रीडितापेक्षया लघु-हवं सिंहस्य निष्क्रीडितं - गमनमित्यर्थः सिंहनिष्क्रीडितं तदिव यत्तपस्तत्सिंहनिष्कीडितमिति, सिंहो हि गच्छन् गत्वाऽतिक्रान्तं देशमवलोकयति एवं यत्र तपस्यतिक्रान्ततपोविशेषं पुनरासेव्याप्रेतनं तं प्रकरोति तत् सिंहनिष्क्रीडितमिति,
290

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310