Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 297
________________ क्यमित्यागमे गीयते, तद्यथोपभुज्यमानमतीव मनःशरीरप्रहादहेतुरुपजायते तथा यदूचनमाकर्ण्यमानं मनःशरीरसुखोत्पादनाय प्रभवति ते क्षीराश्रवाः, क्षीरमिव वचनमा-समन्तात् श्रवन्तीति व्युत्पत्तेः, एवं मध्वपि किमप्यतिशायिशर्करादिमधुरद्रव्यं द्रष्टव्यं, घृतमपि पुण्डेक्षुचारिगोक्षीरसमुत्थं मन्दाग्निकथितं विशिष्टवर्णाद्युपेतं, मध्विव वचनमाश्रवन्तीति मध्वाश्रवाः, घृतमिव वचनमाश्रवन्तीति घृताश्रवाः, उपलक्षणत्वाच्च अमृताश्रविण ईक्षुरसाश्रविण इत्यादयोऽप्येवमवसेयाः, अथवा येषां पात्रपतितं कदन्नमपि क्षीरमधुसर्पिरादिरसवीर्यविपाकं जायते ते क्रमेण क्षीराबविणो मध्वाश्रविणः सर्पिराश्रविण इत्यादि । तथा कोष्टकनिक्षिप्तधान्यानीव सुनिर्गला-अविस्मृतवाचिरस्थायिनः सूत्रार्थी येषां ते कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्टबुद्धयः, कोष्ठे इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थों धारयति न किमपि तयोः सूत्रार्थयोः कालान्तरेऽपि गलति सा कोष्टबुद्धिलब्धिरिति भावः । अथ पदानुसारिलब्धिं बीजबुद्धिलब्धिं चाह-'जो' इत्यादि, योऽध्यापकादेः केनापि सूत्रपदेनाधीयते(ऽनुधावति-अधीते) बह्वपि सूत्रं स्वप्रज्ञयाऽभ्युह्य तदवस्थमेव गृहाति स पदानुसारलब्धिमान् , तथा उत्पादव्ययप्रौव्ययुक्तं सदित्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाधिगतेन योऽन्यमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते स बीजबुद्धिलब्धिमान , इयं च बीजबुद्धिलब्धिः सर्वोत्तमप्रकर्षप्राप्ता गणभृतां भगवतां, ते हि उत्पादाविपदत्रयमवधार्य सकलमपि द्वादशाड्यात्मकं प्रवचनमभिसूत्रयन्तीति । इदानीमक्षीणमहानसीलब्धिमाह-'अक्खीणे'त्यादि, येनानीतं भैक्षं बहुमिरपि-लक्षसधैरप्यन्यैस्तृप्तितोऽपि भुक्तं न क्षीयते यावदात्मना भुङ्क्ते, किंतु तेनैव भुक्तं निष्ठां याति तस्याक्षीणमहानसीलब्धिः , अत्र चावधिचारणकेवलिगणधारिपूर्वधरअर्हश्चक्रवर्तिबलदेववासुदेवतेजोलेश्याऽऽहारकशीतलेश्यावैक्रियपुलाकलब्धयः प्रायेण प्रागेव परमार्थतः प्रतिपादितत्वात्प्रतीतत्वाच सूत्रकृता न विवृता इति, तेजोळेश्याशीतलेश्यालब्धी च स्थानाशून्यार्थ किश्चिद्व्याख्यायेते-तत्र तेजोलेश्यालब्धिः क्रोधाधिक्यात्प्रतिपन्थिनं प्रति मुखेनानेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनदक्षतीव्रतरतेजोनिसर्जनशक्तिः, शीतलेश्यालब्धिस्त्वगण्यकारुण्यवशादनुग्रामं प्रति तेजोलेश्याप्रशमनप्रत्यलशीतलतेजोविशेषविमोचनसामर्थ्य, पुरा किल गोशालकः कूर्मग्रामे करुणारसिकान्तःकरणतया स्नानाभावाविर्भूतयूकासन्ततितायिनं वैशिकायिनं बालतपस्विनमकारणकलहकलनतया 'अरे यूकाशय्यातर' इत्याद्ययुक्तोक्तिभिः कोपाटोपाध्मायमानमानसमकरोत्, तदनु वैशिकायिनस्तस्य दुरात्मनो दाहाय वादहनदेश्यां तेजोलेश्यां विससर्ज, तत्कालमेव च भगवान् वर्धमानस्वामी प्रगुणितकरुणस्तत्प्राणत्राणाय प्रचुरपरितापोच्छेदच्छेकां शीतलेश्याममुञ्चदिति, इह च यः खलुनियमात् निरन्तरं षष्ठं तपः करोति पारणकदिने च सनखकुल्माषमुष्ट्या जलचुलुकेन चैकेनात्मानं यापयति तस्य षण्मासान्ते तेजोलेश्यालब्धिरियमुत्पद्यते, तथा 'एमाई हुँति लद्धीओ' इत्यत्रादिशब्दादन्या अप्यणुत्वमहत्त्वलघुत्वगुरुत्वप्राप्तिप्राकाम्येशित्ववशित्वाप्रतिघातित्वान्तर्धानकामरूपित्वादिका लब्धयो बोद्धव्याः, तत्राणुत्वं-अणुशरीरता येन बिशच्छिद्रमपि प्रविशति तत्र च चक्रवर्तिभोगानपि मुक्ते, महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थ्य, लघुत्वं-वायोरपि लघुतरशरीरता, गुरुत्वं-वनादपि गुरुतरशरीरतया इन्द्रादिमिरपि प्रकृष्टबलैर्दुःसहता, प्राप्तिः-भूमिस्थस्य अङ्गुल्यप्रेण मेरुपर्वताप्रप्रभाकरादेः स्पर्शसामर्थ्य, प्राकाम्यम्-अप्सु भूमाविव प्रविशतो गमनशक्तिः, तथाऽप्विव भूमावुन्मज्जननिमजने, ईशित्वं-त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणं, वशित्वं-सर्वजीववशीकरणलब्धिः, अप्रतिघातित्वम्-अद्रिमध्येऽपि निःसङ्गगमनं, अन्तर्धानम्-अदृश्यरूपता, कामरूपित्वं-युगपदेव नानाकाररूपतया विकुर्वणशक्तिरिति । अथ भव्यत्वाभव्यत्वविशिष्टानां पुरुषाणां महिलानां च यावत्यो लब्धयो भवन्ति तत् प्रतिपादयति-भवेत्यादि गाथाचतुष्क, भवा-भाविनी सिद्धिा-मुक्तिपदं येषां ते भवसिद्धिका भव्या इत्यर्थः ते च ते पुरुषाश्च ते तथा तेषामेता:-पूर्वोक्ताः सर्वा अपि लब्धयो भवन्ति, तथा भवसिद्धिकमहिलानामपि यावत्यो लब्धयो न जायन्ते तद्वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति-'अरिहंते त्यादि, अहंचक्रवर्तिवासुदेवबलदेवसम्भिन्नश्रोतश्चारणपूर्वधरगणधरपुलाकाहारकलब्धिलक्षणा एता दश लब्धयो भव्यमहिलाना-भव्यत्रीणां 'नह' नैव भवन्ति, शेषास्त्वष्टादश लब्धयो भव्यत्रीणां भवन्तीति सामर्थ्याद्रम्यते, यच्च मल्लिस्वामिनः स्त्रीत्वेऽपि यत्ती तत्वान गण्यते, तथा अनन्तरमुक्तास्तावद्दश लब्धयः केवलित्वं च-केवलिलब्धिरन्यच्च ऋजुमतिविपुलमतिलक्षणं लब्धिद्वयमित्येतास्त्रयोदश लब्धयः पुरुषाणामप्यभव्यानां नैव कदाचनापि भवन्ति, .शेषाः पुनः पञ्चदश भवन्तीति भावः, अभव्यमहिलानामप्येताः पूर्व भणितात्रयोदश लब्धयो न भवन्ति, चतुर्दशी मधुक्षीराश्रवलब्धिरपि नैव तासां भवति, शेषास्त्वेतद्व्यतिरिक्ताश्चतुर्दशलब्धयोऽविरुद्धाः, भवन्तीत्यर्थः, ॥२७०॥ ९२ ॥ ९३ ॥ ९४ ॥ ९५॥ ९६ ॥ ९७ ॥ ९८॥ ९९ ॥ १५००॥ १॥२॥३॥४॥५॥ ॥६॥७॥८॥ इदानीं 'तव'त्येकसप्तत्यधिकद्विशततमं द्वारमाह पुरिम कासणनिधिगइयआयंबिलोववासेहिं । एगलया इय पंचहिं होइ तवो इंदियजउत्ति ॥९॥ निविगइयमायाम उववासो इय लयाहिं तिहिं भणिओ । नामेण जोगसुद्धी नवदिणमाणो तवो एसो॥१०॥ नाणंसि सणंमि य चरणमि य तिनि तिन्नि पत्तेयं । उववासो तप्पूयापुवं तन्नामगतवंमि ॥११॥ एक्कासणगं तह निषिगइयमायंबिलं अभत्तहो। इय होइ लयचउकं कसायविजए तवचरणे ॥१२॥ खमणं एकासणगं एकगसित्थं च एगठाणं च । एक्कगदत्तं नीषियमायंपिलमट्ठकवलं च ॥१३॥ एसा एगा लइया अहहिं लइयाहिं दिवस चउसही। इय अट्ठकम्मसूडणतवंमि . 288

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310