Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
हिलाणवि जत्तिय जायंति तं वोच्छं ॥५॥ अरहंत चक्किके सवबलसंभिन्ने य चारणे पुवा । गणहर पुलायआहारगं च न हु भवियमहिलाणं ॥ ६ ॥ अभवियपुरिसाणं पुण दस पुधिल्लाउ केवलितं च । उज्जुमई विउलमई तेरस एयाउ न हु हुंति ॥ ७ ॥ अभवियमहिलापि हु एयाओ हुंति भणियलद्धीओ । महखीरासवलद्धीवि नेय सेसा उ अविरुद्धा ॥ ८ ॥
लब्धिशब्दस्य प्रत्येकममिसम्बन्धात् आमशषधिलब्धिः विप्रुडौषधिलब्धिः खेलौष घिलब्धिः जल्लोषधिलब्धिः सर्वौषधिलब्धिः सम्भिन्नेति ‘सूचकत्वात्सूत्रस्य' सम्भिन्नश्रोतोलब्धिः अवधिलब्धिः ऋजुमतिलब्धिः विपुलमतिलब्धिः चारणलब्धिः आशीविषलब्धिः केवलिलब्धिः गणधरलब्धिः पूर्वधरलब्धिः भर्हलब्धिः चक्रवर्तिलब्धिः बलदेवलब्धिः वासुदेवलब्धिः क्षीरमधुसर्पिराश्रवलब्धिः कोष्ठकबुद्धिलब्धिः पदानुसारिलब्धिः तथा बीजबुद्धिलब्धिः तेजोलेश्यालब्धिः आहारकलब्धिः शीतलेश्यालब्धिः वैकुर्विकदेहलब्धिः अक्षीणमहानसीलब्धिः पुलाकलब्धिः, एवमेता अष्टाविंशतिसङ्ख्या: आदिशब्दादन्याश्च जीवानां शुभशुभतरशुभतम परिणामवशादसाधारणतपःप्रभावाच्च नानाविधलब्धयः ऋद्धिविशेषा भवन्ति । अथैताः क्रमेण व्याचिख्यासुः पूर्वं तावदामशौषध्यादिलब्धिपञ्चकं प्रपञ्चयितुमाह - 'संफरि से' त्यादि गाथाद्वयं, संस्पर्शनमामर्शः स एवौषधिर्यस्यासावामशौषधिः - करादिसंस्पर्शमात्रादेव विविधव्याधिव्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचारात् साधुरेवामशौषधिरित्यर्थः, इदमत्र तात्पर्य- यत्प्रभावात् स्वहस्तपादाद्यवयवपरामर्शमात्रेणैवात्मनः परस्य वा सर्वेऽपि रोगाः प्रणश्यन्ति सा आमश - षधि:, 'मुत्तपुरीसाण विप्पुसो वावि' (ऽवयवा ) त्तिमूत्रपुरीषयोर्विप्रुषः - अवयवाः इह विमुडुच्यते, 'विप्पुसो वाऽवि'त्ति पाठस्तु प्रन्थान्तरेष्वदृष्टत्वादुपेक्षितः, अथचावश्यमेतद्व्याख्यानेन प्रयोजनं तदेत्थं व्याख्येयं - वाशब्दः समुचये अपिशब्द एवकारार्थो मिन्नक्रमश्च ततो मूत्रपुरीषयोरेवावयवा इह विप्रुडुच्यते इति, अन्ये तु भाषन्ते - विडिति विष्ठा पत्ति प्रश्रवणं मूत्रं, 'सूचकत्वात् सूत्रस्ये' ति, तत 'एए'त्ति eat विण्मूत्रावयव 'अन्ने य'त्ति अन्ये च खेलजल्लकेशनखादयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो रोगोपशमसमर्थाश्च ते साधवो भवन्ति, कथंभूता इत्याह- 'तओसहिं पत्ति'त्ति ते च ते औषधयश्च तदौषधयो - विप्मूत्र खेलजल्लकेशनखाद्यौषधयः सर्वौषधयश्च ताः प्राप्तास्तदौषधिप्राप्ताः, विण्मूत्राद्यौषधयः सर्वौषधयश्च साधवो भवन्तीत्यर्थः, एतदुक्तं भवति - यन्माहात्म्यान्मूत्रपुरीषावयवमात्रमपि रोगराशिप्रणाशाय संपद्यते सुरमि च सा विप्रुडौषधिः, तथा खेल: - लेष्मा जल्लो - मलः कर्णवदननाशिकानयनजिह्वासमुद्भवः शरीरसम्भवश्च तौ खेलजलौ यत्प्रभावतः सर्वरोगापहारकौ सुरभी च भवतः सा क्रमेण खेलौषधिर्जल्लोषघिश्च, तथा यन्माहात्यतो विण्मूत्र केशनखादयश्च सर्वेऽप्यवयवाः समुदिताः सर्वत्र भेषजीभावं सौरभं च भजंते सा सर्वौषधिरिति । सम्प्रति सम्भिन्नश्रोतोलब्धिमाह – 'जो' इत्यादि, यः सर्वतः - सर्वैरपि शरीरदेशैः शृणोति स सम्भिन्नश्रोताः, अथवा यः सर्वानपि शब्दादीन् विषयान् सर्वैरपि श्रोतोभिः - इन्द्रियैर्जानाति, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् योऽवगच्छतीत्यर्थः, स सम्भिन्नश्रोतोलब्धिमान्, अथवा द्वादशयोजनविस्तृतस्य चक्रवर्तिकटकस्य युगपद्ध्रुवाणस्य तत्तूर्यसङ्घातस्य वा समकालमास्फाल्यमानस्य सम्भिन्नान् – लक्षणतो विधानतश्च परस्परं विभिन्नान् जननिवहसमुत्थान् शङ्खकाहला भेरी भाणक ढक्कादितूर्यसमुत्थान् वा युगपदेव च सुबहून् शब्दान् यः शृणोति स संभिन्नश्रोताः सम्भिन्नश्रोतोलब्धिरिति । अथ ऋजुमतिलब्धि विपुलमतिलब्धिं चाह - 'रिङ' इत्यादि गाथाद्वयं, ऋजु -सामान्यं वस्तुमात्रं तद्माहिणी मतिः- संवेदनं ऋजुमति मनोज्ञानं-मनः पर्यायज्ञानमेव, सा च प्रायो- बाहुल्येन विशेषविमुखं - देशकालाद्यनेकपर्यायपरित्यक्तं घटमानं परेण चिन्तितं जानाति, तथा विपुलं वस्तुनो घटादेर्विशेषाणां देशक्षेत्रकालादीनां मानं-सङ्ख्यास्वरूपं तदुग्राहिणी मतिर्विपुला, सा च परेण चिन्तितं घटं प्रसङ्गतः पर्यवशतैरुपेतमनुसरति - सौवर्णः पाटलिपुत्रकोऽद्यतनो महानपवरकस्थित इत्याद्यपि प्रभूतविशेषैर्विशिष्टं घटं परेण चिन्तितमवगच्छतीत्यर्थः, इदमत्र तात्पर्य - मनः पर्यायज्ञानं द्वेधा - ऋजुमतिर्विपुलमतिख', तत्र सामान्यघटादिवस्तुमात्रचिन्तनप्रवृत्तमनः परिणाममाहि किश्विदविशुद्धतरमर्धतृतीयाङ्गुलहीनमनुष्यक्षेत्रविषयं ज्ञानं ऋजुमतिलब्धिः पर्यायशतोपेतघटादिवस्तुविशेषचिन्तनप्रवृत्तमनोद्रव्यप्राहि स्फुटतरं संपूर्णमनुष्यक्षेत्रविषयं ज्ञानं विपुलमतिलब्धिः । सम्प्रत्याशी विषलब्धिमाह - 'आसीत्यादि, आइयो - दंष्ट्रास्तासु गतं—स्थितं महद्विषं येषां भवति ते आशीविषाः, ते च द्विभेदाः - कर्मभेदेन जातिभेदेन च तत्र कर्मभेदेन पञ्चेन्द्रियतिर्यग्योनयो मनुष्या देवाश्च सहस्रारान्ता इत्यनेकविधाः, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिकभुजङ्गादिसाध्यां क्रियां कुर्वन्ति, शापप्रदानादिना परं व्यापादयन्तीति भावः, देवास्त्वपर्याप्तावस्थायां तच्छक्तिमन्तो मन्तव्याः, ते हि पूर्व मनुष्यभवे समुपार्जिताशीविषलब्धयः सहस्रारान्तदेवेष्वमिनवोत्पन्ना अपर्याप्तावस्थायां प्राग्भविकाशीविषलब्धिसंस्कारादाशीविषलब्धिमन्तो व्यवहियन्ते, ततः परं तु पर्याप्तावस्थायां संस्कारस्यापि निवृत्तिरिति न तद्व्यपदेशभाजः, यद्यपि च नाम पर्याप्ता अपि देवाः शापादिना परं व्यापादयन्ति तथापि न लब्धिव्यपदेशः, भवप्रत्ययतस्तथारूपसामर्थ्यस्य सर्वसाधारणत्वात्, गुणप्रत्ययो हि सामर्थ्यविशेषो लब्धिरिति प्रसिद्धेः, जातिभेदेन च वृश्चिकमण्डूक सर्पमनुष्यभेदाच्चतुर्विधाः क्रमेण बहुबहुतरबहुतमातिबहुतमविषाः, वृश्चिकविषं ह्युत्कृष्टतोऽर्धभरत क्षेत्रप्रमाणं वपुर्व्याप्नोति मण्डूकविषं भरतक्षेत्रप्रमाणं भुजङ्गविषं जम्बूद्वीपप्रमाणं मनुष्यविषं तु समयक्षेत्रप्रमाणमिति । अथ क्षीरमधुसर्पिराश्रवलब्धिं कोष्ठकबुद्धिलब्धिं चाह - ' खीरे 'त्यादि, क्षीरं- दुग्धं मधु-मधुरद्रव्यं सर्पिः- घृतं एतत्स्वादोपमानं वचनं वैरस्वाम्यादिवत्तदाश्रवाः - क्षीरमधुसर्पिराश्रवा भवन्ति, इयमत्र भावना - पुण्ड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमर्धार्धक्रमेण दीयते यावदेकस्याः पीतगोक्षीरायाः क्षीरं, तत्किल चातुरि
287

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310