Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
डाइं चउदुवाराई सधयाइं ॥७६ ॥ पइदारं मणितोरणपेच्छामंडवविरायमाणाई । पञ्चधणुस्सय. जसियअहत्तरसयजिणजुयाइं ॥ ७७॥ मणिपेढिया महिंदज्झया य पोक्खरिणिया य पासेसुं। कंकेल्लिसत्तवन्नयचंपयचूयावणजुयाओ ॥ ७८ ॥ नंदुत्तरा य नंदा आणंदा नंदिवद्धणा नाम । पुक्खरिणीओ चउरो पुवंजणचउदिसिं संति ॥ ७९ ॥ विक्खंभायामेहिं जोयणलक्खप्पमाणजुत्ताओ। दसजोयणूसियाओ चउदिसितोरणवणजुयाओ ॥ ८०॥ तासि मज्झे दहिमुह महीहरा दुखदहियसियवन्ना । पोक्खरिणीकल्लोलाहणणोन्भवफेणपिण्डुछ ॥ ८१॥ चउसट्ठिसहस्सुचा दसजोयणसहस्सवित्थडा सवे । सहसमहो उवगाढा उवरि अहो पल्लयागारा ॥ ८२॥ अंजणगिरिसिहरेसु व तेसुवि जिणमंदिराई रुंदाई । वावीणमंतरालेसु पन्चयदुर्ग दुगं अत्थि ॥ ८३ ॥ते रइकराभिहाणा विदिसिठिया अट्ट पउमरायाभा। उवरिट्ठियजिणिंदसिणाणघुसिणरससंगपिंगुष ॥४४॥ अचंतमसिणफासा अमरेसरविंदविहियआवासा । दसजोयणसहसुच्चा उबिद्धा गाउयसहस्सं ॥८॥ झल्लरिसंठाणठिया उच्चत्तसमाणवित्थडा सवे । तेसुवि जिणभवणाई नेयाइं जहुत्तमाणाई ॥ ८६ ॥ दाहिणदिसाएँ भद्दा विसालवावी य कुमुयपुक्खरिणी। तह पुंडरीगिणी मणितोरणआरामरमणीया ॥ ८७॥ पुक्खरिणी नंदिसेणा तहा अमोहा य वावि गोथूभा। तह य सुदंसणवावी पच्छिमअंजणचउदिसासु ॥८८॥ विजया य वेजयंती जयंति अपराजियाउ वावीओ। उत्तरदिसाएँ पुयुत्सवावीमाणा उ बारसवि ॥ ८९॥ सपाओ वावीओ दहिमुहसेलाण ठाणभूयाओ। अंजणगिरिपमुहं गिरितेरसगं विजह चउदिसिपि ॥९०॥इय बावन्नगिरीसरसिहरट्ठियवीयरायविम्बाणं । पूयणकए चविहदेवनिकाओ समेह सया ॥ ९१ ॥ इतो जम्बूद्वीपादष्टमो वलयाकारः कामं कमनीयतया सकलसुरविसरानन्दी नन्दीश्वरो नाम द्वीपोऽस्ति, नन्द्या-अत्युदारजिनमन्दिरोद्यानपुष्करिणीपर्वतप्रभृतिप्रभूतपदार्थसार्थसमुद्भूतयाऽत्यभूतया समृद्ध्या ईश्वर:-स्फातिमानन्दीश्वरा, स च विष्कम्भे-चक्रवालविष्कम्भतः एकं कोटिशतं त्रिषष्टिः कोट्यश्चतुरशीतिर्लक्षाः १६३८४००००० इत्येतावद्योजनप्रमाणः, योजनानि चात्र प्रमाणाङ्गुलनिष्पन्नान्यवसेयानि । अथाअनशैलादिवक्तव्यतामाह-एयन्तो'इत्यादि गाथात्रिकं, एतस्य भन्दीश्वरस्य द्वीपस्यान्तः-मध्यभागे पूर्वादिषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारः सर्वात्मनाऽजनरत्नमया अञ्जनगिरयः प्रज्ञप्ताः, तद्यथा-पूर्वस्यां दिशि देवरमणः दक्षिणस्यां नित्योद्योतः पश्चिमायां स्वयंप्रभः उत्तरस्यां रमणीयः, उक्तं च-"पुव्वदिसि देवरमणो निज्जोओ य दाहिणदिसाए । अवरदिसाएँ सयंपभ रमणिज्जो उत्तरे पासे ॥१॥" कथंभूतास्ते इत्याह-अजनरत्नाना-कृष्णरत्नविशेषाणां ये श्यामाः करप्रसरा:-प्रभापटलानि तैः पूरिता:परिपूर्णतां नीता उपान्ता:-पर्यन्तभागा येषां ते तथा, एवंविधाश्चोत्प्रेक्ष्यन्ते-बालतमालवनावलीयुता इव-तरुणतरतमालतरुवनमण्डलीवलयिता इव, तथा घनपटलकलिता इव-प्रावृषेण्यपयोदपतियुक्ता इव, धाराधरा हि विविधोद्यानहृद्याः सजलनलदजालमालिनो हि भवन्तीति, तथा तेषामजनकपर्वतानामेकैकोऽजनकः पर्वतः प्रत्येकं चतुरशीतियोजनसहस्राणि उच्चः-उच्छ्रितः एक योजनसहनमवगाढोभूमिप्रविष्टः, तथा तस्यैकैकस्यानगिरेर्मूले-धरणितले सहस्रदशकं-दश योजनसहस्राणि भवन्ति विष्कम्भे-विस्तरतः, वदनन्तरं च मात्रया मात्रया परिहीयमानस्य तस्य उपरि-पर्यन्तभागे शतदशक-योजनसहस्रं विष्कम्भेन, एवं चैते चत्वारोऽप्यखनगिरयो मूले विस्तीर्णा मध्ये संक्षिप्ता उपरि च तनुकाः संवृत्ताः, तेषु चाखनगिरिषु घनमणिमयानि-नानाविधनिःसपत्नरत्ननिर्मितानि एकैकस्मिन्नेकैकसद्भावाच्चत्वारि सिद्धायतनानि-शाश्वतानि सिद्धानां वा-शाश्वतीनामहत्प्रतिमानामायतनानि सिद्धायतनानि भवन्ति । अथैतेषामेव प्रमाणादिप्रतिपादनायाह-'जोयणे'त्यादि गाथात्रयं, तानि सिद्धायतनानि योजनशतमेकं दीर्घाणि-पूर्वपश्चिमतः द्वासप्ततियोजनान्युच्छ्रितानि रम्याणि-रमणीयानि पञ्चाशद्योजनानि विस्तृतानि-विस्तीर्णानि दक्षिणोत्तरतः, तथा एकैकस्यां दिशि एकैकसद्भावेन चत्वारि द्वाराणि येषु तानि चतुर्दाराणि, सध्वजानि-सपताकानि, तथा प्रतिद्वारमेकैकस्मिन् द्वारे मणय:-चन्द्रकान्तादिरनविशेषास्तनिष्पन्नस्तोरणैः, प्रेक्षा-प्रेक्षणकं तदर्थ मण्डपाः-प्रेक्षामण्डपास्तैश्च प्रसिद्धस्वरूपैर्विशेषेण राजमानानि-शोभमानानि, तथा पञ्चधनुःशतसमुच्छ्रितैरष्टोत्तरशतसाथैः ऋषभवर्धमानचन्द्राननवारिषेणाख्यर्जिनैः शाश्वतप्रतिमाभिर्यतानि-संयुक्तानि । तेषां सिद्धायतनानां मध्ये मणिमय्यः-सवोंत्मना रत्नमय्यः पीठिका-वेदिकाः प्रज्ञप्ताः, तासामुपरि महेन्द्रध्वजाः, महेन्द्रा इत्यतिमहान्तः समयभाषया ते च ते ध्वजाश्चेति, अथवा महेन्द्रस्यैव-शक्रादेर्ध्वजा महेन्द्रध्वजाः, तेषां च पुरतः प्रत्येकं योजनशतायामाः पञ्चाशद्योजनविष्कम्भा दशयोजनोद्वेधाः पुष्करिण्योवाप्यः प्रज्ञप्ताः, ताश्च पार्थेषु चतसृषु दिक्षु कद्वेलिसप्तपर्णचम्पकचूतवनयुक्ताः, तत्र पूर्वस्यां दिशि अशोकवनं दक्षिणस्यां सप्तच्छदवनं पश्चिमायां चम्पकवनं उत्तरस्यां च सहकारवनमिति । उक्ता अनगिरिवक्तव्यता, अथ पुष्करिणीवक्तव्यतामाह-'नन्दु'इत्यादि गाथाद्वयं, तेषु चतुर्यु अवनगिरिषु मध्ये योऽसौ पूर्व:-पूर्व दिग्भावी अखनगिरिस्तस्य चतुर्दिशि-चतसृषु दिक्षु लक्षमेकं गत्वा चतस्रः पुष्करिण्यः सन्ति, तद्यथा-पूर्वस्यां नन्दोत्तरा दक्षिणस्यां नन्दा अपरस्यां आनन्दा उत्तरस्यां नन्दिवर्धनाच, ताश्व विष्कम्भायामाभ्यां योजन
285

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310