Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 293
________________ पौरुषीईन्ति, 'अद्वैवेति यत्र महाकायपश्चेन्द्रियस्य मूषकादेर्मार्जारादिना मारणं तत्राष्टौ पौरुषीर्यावदस्वाध्यायः, गता कालतोऽपि मार्गणा, भावत आह-भाव-भावतो नन्द्यादिकं सूत्रं न पठन्ति । अथवा जलजादिकं प्रत्येकं रुधिरादिभेदतश्चतुर्विधं, तद्यथा-शोणितं मांसं चर्म अस्थि चेति, चत्वार्यप्येतानि प्रतीतानि । अत्रैव विशेषमाह-'अंतो'इत्यादि, यदि षष्टेईस्तानां अन्तः-मध्ये मांसं धौत-प्रक्षालितं तदा तस्मिन् बहिर्नीतेऽपि यतस्ततस्तत्र नियमात् केचिदवयवाः पतिता भवन्ति ततस्तिस्रः पौरुषीः परिहर्तव्यः स्वाध्यायः, एवं पाकेऽप्यवसेयं, षष्टिहस्तेभ्यो बहिः-परतः पुनः प्रक्षालिते पक्वे वा पिशिते स्वाध्यायः कर्तव्यः, न कश्चिदोषः, 'अवे'ति प्राग्यः दुक्तं तदिदानीं भावयति-'महकाए अहोरत्तंति एतच्च प्रागेव व्याख्यातं, अत्रैके प्राहुः-यदि मार्जारादिना मूषकादिरविमिन्न एव सन् मारितो मारयित्वा च गृहीत्वा अथवा गिलित्वा यदि ततः स्थानात्पलायते तदा पठन्ति साधवः सूत्रं, न कश्चिदोषः, अन्ये नेच्छंति यतः कस्तं जानाति अविभिन्नो मिन्नो वा मारित इति, अपरे पुनरेवमाहुः-यत्र मार्जारादिः स्वयं मृतोऽन्येन वा केनाप्यविमिन्न एव सन्मारितस्तत्र यावत्तत्कलेवरं न मिद्यते तावन्नास्वाध्यायिकं, विमिन्ने त्वस्वाध्यायिकमिति, तदेतदसमीचीनं, यतश्चर्मादिभेदतश्चतुर्विध. मस्वाध्यायिकं तस्मादविभिन्नेऽप्यस्वाध्याय एव, 'रत्ते बूढे य सुद्धं ति यत्तत्र षष्टिहस्ताभ्यन्तरे पतितं रक्त-रुधिरं तेनावकाशेन पानीयप्रवाह आगतस्तेन व्यूढं तदा पौरुषीत्रयमध्येऽपि शुद्धमस्वाध्यायिकमिति स्वाध्यायः कार्यः । तैरश्चास्वाध्यायिकप्रस्तावादन्यदप्याह'अण्डगे'त्यादि, षष्टिहस्ताभ्यन्तरे अण्डके पतिते यदि तदण्डकममिन्नमद्याप्यस्ति तदा तस्मिन्नुज्झिते खाध्यायः कल्पते, अथ पतितं सत्तदण्डकं मिन्नं तस्य च कललबिन्दुभूमौ पतितस्तदा न कल्पते, न च भूमि खनन्ति, इतरथा-भूमिखनने यदि तदस्वाध्यायिकमपनयन्ति तथापि तिनः पौरुषीर्यावदस्वाध्यायः, अथ कल्पे पतितं सत्तदण्डकं मिन्नं कललबिन्दुर्वा तत्र लग्नस्तदा तस्मिन् षष्टिहस्तेभ्यः परतो बहिर्नीत्वा धौते कल्पते, अण्डकबिन्दोरमृग्बिन्दोऽस्वाध्यायिकस्य प्रमाणं यत्र मक्षिकापादा निमजन्ति, किमुक्तं भवति ?यावन्मात्रे मक्षिकापादो निमजति तावन्मात्रेऽप्यण्डकबिन्दौ रुधिरबिन्दौ वा भूमौ पतितेऽस्वाध्यायः । किंच-"अजराउ"इत्यादि, अजरायु:-जरायुरहिता हस्तिन्यादिका प्रसूता तिस्रः पौरुषीः स्वाध्यायं हन्ति, अहोरात्रं छेदं मुक्त्वा-अहोरात्रे तु छिन्ने आसन्नायामपि प्रसूतायां कल्पते स्वाध्यायः, जरायुजादीनां पुनर्गवादीनां यावजरायुर्लम्बते तावदस्वाध्यायः, जरायो पतितेऽपि सति तदनन्तरं तिस्रः पौरुषीर्यावदस्वाध्यायः, तथा राजपथे यद्यस्वाध्यायिकबिन्दवः पतितास्तदा कल्पते स्वाध्यायः, किं कारणमिति चेदुच्यते यत्तत्स्वयोगत आगच्छतां गच्छतां च मनुष्यतिरश्नां पदनिपातैरेवोरिक्षप्तं भवति, जिनाज्ञा चात्र प्रमाणमतो न कश्चित् दोषः, अथ पुनस्तदस्वाध्यायिकं तैरश्चं राजपथादन्यत्र षष्टिहस्ताभ्यन्तरे पतितं तदा तस्मिन् व्यूढे वर्षोंदकेन उपलक्षणमेतत् दग्धे वा प्रदीपनकेन शुद्ध्यति स्वाध्यायः । गतं तैरश्चमधुना मानुषमाह-'माणुस्से'त्यादि, मानुषमस्वाध्यायिक चतुर्धा-चर्म रुधिरं मांसं अस्थि च, एतेध्वस्थि मुक्त्वा शेषेषु सत्सु क्षेत्रतो हस्तशताभ्यन्तरे न कल्पते स्वाध्यायः कालतोऽहोरात्रं, 'परियावन्नविवन्नेत्ति मानुषं तैर वा यदुधिरं तद्यदि पर्यापन्नत्वेन-परिणामान्तरापन्नत्वेन स्वभावाद्वर्णाद्विवर्णीभूतं भवति खदिरकल्कसदृशं तदा तदस्खाध्यायिकं न भवतीति क्रियते तस्मिन् पतितेऽपि स्वाध्यायः, 'सेस'त्ति पर्यापनं विवर्ण मुक्त्वा शेषमखाध्यायिक भवति, 'तिग'त्ति यदविरताया मासे २ आर्तवमस्खाध्यायिकमागच्छति तत्स्वभावतस्त्रीणि दिनानि गलति, ततस्तानि त्रीणि दिनानि यावदस्वाध्यायः, त्रयाणां दिवसानां परतोऽपि कस्याश्चिद्गलति परं न तदातवं भवति किंतु तन्महारक्तं नियमात् पर्यापनं विवर्ण भवतीति नास्वाध्यायिकं गण्यते, तथा यदि प्रसूताया दारको जातस्तदा सप्त विनान्यखाध्यायिकं अष्टमे दिवसे कर्तव्यः स्वाध्यायः, अथ दारिका जाता तर्हि सा रक्तोत्कटेति तस्यां जातायामधी दिनान्यस्वाध्यायः, नवमे दिने स्वाध्यायः कल्पते । एममेष गाथावयवं व्याचिख्यासुराह-रत्त' इत्यादि, निषेककाले यदि रकोत्कटता तदा स्त्री इति तस्यां जातायां दिनान्यष्टावखाध्यायः, दारकः शुक्राधिकस्ततस्तस्मिन् जाते सप्त दिनान्यस्वाध्यायः, तथा स्त्रीणां त्रयाणां दिनानां परतस्तन्महारक्तमनातवं भवति ततो न गणनीयं । अस्थि मुक्त्वेति यत्पूर्वमुक्तं तस्येदानी विधिमाह-दंते इत्यादि, यत्र हस्तशताभ्यन्तरे दारकादीनां दन्तः पतितो भवति तत्र प्रयत्नतो निभालनीयः, यदि दृश्यते तदा परिष्ठाप्या, अथ सम्यग्मृग्यमाणैरपि न दृष्टस्तदा शुद्धमिति कल्पते स्वाध्यायः, अन्ये तु ब्रुवते-तस्यावहेठनार्थ कायोत्सर्गः करणीयः, दन्तं मुक्त्वा शेषे अङ्गोपाङ्गसम्बन्धिन्यस्थिनि हस्तशताभ्यन्तरे पतिते द्वादश वर्षाणि न कल्पते स्वाध्यायः, अथास्थीन्यमिना दुग्धानि तदा हस्तशताभ्यन्तरे स्थितेष्वपि तेषु नैव क्रियते स्वाध्यायस्य-वाचनादेः परिहारः, अनुप्रेक्षा तु न कदाचनापि प्रतिषिद्ध्यते इति २६८ ॥ ५० ॥५१॥ ॥ ५२ ॥ ५३ ॥ ५४॥ ५५ ॥ ५६ ॥ ५७ ॥५८॥ ५९॥ ६०॥ ६१ ॥ ६२ ॥६३ ॥ ६४ ॥६५॥ ६६ ॥ ६७ ॥६८॥ ॥ ६९ ॥७०॥७१॥ इदानीं 'नंदीसरदीवठिय' इत्येकोनसप्तत्यधिकद्विशततमं द्वारमाह विक्खंभो कोडिसयं तिसट्टिकोडी उ लक्खतचुलसीई। नंदीसरो पमाणंगुलेण इय जोयणपमाणो ॥७२॥ एयंतो अंजणरयणसामकरपसरपूरिओवंता। पालतमालवणावलिजुयच घणपडलकलियव ॥७३॥ चउरो अंजणगिरिणो पुवाइदिसासु ताणमेकेको। चुलसीसहस्सउचो ओगाढो जोयणसहस्सं ॥७॥जुम्म।मूले सहस्सदसगं विक्खंभे तस्स उवरि सयदसगं।तेसुघणमणिमयाई सिद्धाययणाणि चत्तारि ॥७६ ॥ जोयणसयदीहाई पावसरि ऊसियाई रम्माई। पन्नास वित्थ 284

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310