Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 291
________________ वर्षे निपतति यामाष्टकादूम, अन्ये तु व्याचक्षते-त्रयाणां दिनानां परतः, तर्जे पचानां दिनानां परतः, जलस्पर्शिकारूपे सप्तानां दिनानां परतः सर्वमकायस्पृष्टं भवति । अथ संयमघातिभेदानां सर्वेषामपि चतुर्विधं परिहारमाह-'द इत्यादि, द्रव्ये-द्रव्यतस्तदेवाखान्यायिक महिका सचित्तरजो वर्ष वा वय॑न्ते, क्षेत्रे यावति क्षेत्रे महिकादि पतति तावत्क्षेत्रं, कालतो 'जचिरं' यावन्तं कालं पतति तावन्तं कालं, भावे-भावतो मुक्त्वा उच्छ्वासमुन्मेषं च, तर्जने जीवितव्यव्याघातसंभवात्, शेष-स्थानादिकं आदिशब्दागमनागमनप्रतिलेखनादिपरिग्रहः कायिकी चेष्टां भाषां च वर्जयन्ति, इह च न निष्कारणेन कामपि लेशतोऽपि चेष्टां कुर्वन्ति, ग्लानादिकारणे तु समापतिते यतनया हस्तसंज्ञया अक्षिसंज्ञया अहालीसंज्ञया वा व्यवहरन्ति पोतावरिता वा भाषन्ते वर्षाकल्पावृताश्च गच्छन्तीति । गतं संयमोपघायस्वाध्यायिकं इदानीमौत्पातिकमाह-पंसू येत्यादि, अत्र वृष्टिशब्दः प्रत्येकममिसंबध्यते, पांशुवृष्टौ मांसवृष्टौ रुधिरवृष्टौ केशवृष्टौ शिलावृष्टौ च, तत्र पांशुवृष्टि म यदचित्तं रजो निपतति, मांसवृष्टिर्मासखण्डानि पतन्ति, रुधिरवृष्टिर्यत्र रुधिरबिन्दवः पतन्ति, केशवृष्टिर्यदुपरिभागात्केशाः पतन्ति, शिलावृष्टिः-पाषाणनिपतनं करकादिशिलावर्षमित्यर्थः, तथा रजउद्घाते-रजस्खलासु दिक्षु सूत्रं न पठ्यते, शेषाः सर्वा अपि चेष्टाः क्रियन्ते, तत्र मांसे रुधिरे च पतति एकमहोरात्रं वय॑ते, अवशेषे-पांशुवृष्ट्यादौ यावचिरं-या. वन्तं कालं पांशुप्रभृति पतति तावन्तं कालं सूत्रं-नन्द्यादि न पठ्यते, शेषकालं तु पठ्यते । सम्प्रति पांशुरजउद्घातयोर्व्याख्यानमाह'पंसू'इत्यादि, पांशवो नाम धूमाकारमापाण्डुरमचित्तरजः, रजउद्घातो रजस्वला दिशो यासु सतीषु समन्ततोऽन्धकारमिव दृश्यते, तत्र पांशुवृष्टौ रजउद्घाते वा सवाते निर्वाते च पतति यावत्पतनं तावत्सूत्रं परिहरन्ति । ॥ ५४॥ गतमौत्पातिकं, इदानीं सदेवमाह-गंधधे'त्यादि, गन्धर्वनगरं नाम यच्चक्रवा दिनगरस्योत्पातसूचनाय संध्यासमये तस्य नगरस्योपरि द्वितीयं नगरं प्राकाराट्टालकादिसंस्थितं दृश्यते, 'दिसत्ति दिग्दाहः, विद्युत्-तडित् उल्का-सरेखा प्रकाशयुक्ता वा गर्जितं-जीमूतध्वनिः यूपको-वक्ष्यमाणलक्षणः यक्षादीप्तं नाम-एकस्यां दिशि अन्तराऽन्तरा यद् दृश्यते विद्युत्सदृशः प्रकाशः, एतेषु मध्ये गन्धर्वनगरादिकमेकैकां पौरुषीं हन्ति, एकैकं प्रहरं यावत्स्वाध्यायो न विधीयते इति भावः, गर्जितं पुनः द्विपौरुषी हन्ति, इह च गन्धर्वनगरं नियमात् सदेवम्, अन्यथा तस्याभावात् , शेषकाणि तु दिग्दाहादीनि भाज्यानि-कदाचित्वाभाविकानि भवन्ति कदाचिदेवकृतानि, तत्र स्वाभाविकेषु खाध्यायो न परिहियते, किंतु देवकृतेषु, परं येन कारणेन स्फुटं वैविक्त्ये न तानि न ज्ञायन्ते तेन तेषामविशेषेण परिहारः, उक्तं च-"गंधवनगर नियमा सादिव्वं सेसगाणि भइयाणि । जेण न नजति फुडं तेण उ तेसिं तु परिहारो॥१॥" [गान्धर्वनगरं नियमात् सदैवं शेषकाणि भक्तानि । येन न ज्ञायन्ते स्फुटं तेन तु तेषां परिहार एव ॥१॥ अथ दिग्दाहादिव्याख्यानमाह-'दिसी'त्यादि, दिशि-पूर्वादिकायां छिन्नमूलो दाहः-प्रज्वलनं दिग्दाहः, किमुक्तं भवति?-अन्यतमस्यां दिशि महानगरं प्रदीप्तमिवोपरि प्रकाशोऽधस्तादन्धकार इति दिग्दाहः, उल्का पृष्ठतः सरेखा प्रकाशयुक्ता वा तारकस्येव पातः, यूपको नाम शुक्लपक्षे त्रीणि दिनानि यावद्, द्वितीयस्यां तृतीयस्यां चतुर्ध्या चेत्यर्थः, सन्ध्याछेदः-सन्ध्याविभागः स आत्रियते येन स सन्ध्याच्छेदावरणश्चन्द्रः, इयमत्र भावना-शुक्लपक्षे द्वितीया. तृतीयाचतुर्थीरूपेषु त्रिषु दिनेषु सन्ध्यागतश्चन्द्र इतिकृत्वा सन्ध्या न विभाव्यते ततस्तानि शुक्लपक्षे त्रीणि दिनानि यावच्चन्द्रः सन्ध्याच्छेदावरणःस यूपक इति, एतेषु त्रिषु दिनेषु प्रादोषिकं कालं न गृहन्ति प्रादोषिकी च सूत्रपौरुषींन कुर्वन्ति, सन्ध्याच्छेदाविभावनेन कालवेलापरिज्ञानाभावादिति, न केवलं अमूनि सदेवानि, किंत्वन्यान्यपि, तान्येवाह-'चंदी'त्यादि, चन्द्रस्य-चन्द्रविमानस्योपरागो-राहुविमानतेजसोपरखनं चन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूर्योपरागोऽपि, ततश्चन्द्रोपरागे सूर्योपरागे च तदिनेऽपगते इति वाक्यशेषः, तथा साभ्रे निरभ्रे वा नभसि ब्यन्तररुतो महागर्जितसमो ध्वनिर्निर्घातः, गर्जितस्येव विकारो गुजावद्यमानो महाध्वनिर्गजितं, तस्मिनिर्घात गजिते च प्रत्येकमहोरात्रं यावत्स्वाध्यायपरिहारः, अयं चात्र विशेषः-यस्यां वेलायां निर्घातो गुजितं वाऽधिकृते दिनेऽभवत् द्वितीयेऽपि दिने यावत्सैव बेला प्राप्ता भवति तावदस्वाध्याय एव, उक्तं च-निग्घायगुखिएसुं विसेसो-बिइयदिणे जाव सा वेला अहोरत्तच्छेएण ण छिजइ, जहा अन्नेसु भसज्झाइएसु” इति । 'संझाचेउ'त्ति चतस्रः संध्यास्तिस्रो रात्रौ, तद्यथा-प्रस्थिते सूर्ये अर्धरात्रे प्रभाते च, चतर्थी दिनस्य मध्यभागे, एतासु चतसृष्वपि सन्ध्यासु स्वाध्यायो न विधीयते, शेषक्रियाणां तुप्रतिलेखनादीनां तु न प्रतिषेधः, 'पाडिवए'त्ति प्रतिप ग्रहणेन प्रतिपत्पर्यन्ताश्चत्वारो महामहाः सूचिताः, ततश्वतुर्णा महामहानां चतसृषु प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते, न शेषक्रियाणां प्रतिषेधः 'जं जहिं सुगिम्हए नियम'त्ति, एवमन्योऽपि य उत्सवः पशुवधादिबहुलो यस्मिन् प्रामनगरादौ यावन्तं कालं प्रवर्तते स तत्र तावन्तं कालं वर्जनीयः, सुप्रीष्मक:-चैत्रमासभावी पुनर्महामहः सर्वेषु देशेषु शुक्लपक्षप्रतिपद आरभ्य चैत्रपौर्णमासीप्रतिपत्पर्यन्तो नियमात् प्रसिद्ध इति । के पुनस्ते चत्वारो महामहाः, तत्र सूत्रकृदाह-'आसाढी'त्यादि,आषाढी-आषाढपौर्णमासीमह इन्द्रमहःअश्वयुद्धपौर्णमासी कार्तिकी-कार्तिकपौर्णमासी सुप्रीष्मक:-चैत्रपौर्णमासी, खलुशब्दस्यावधारणार्थत्वादेत एव चत्वारो महान्तः-सर्वातिशायिनो महा-उत्सवा महामहा बोद्धव्याः, एतेषां च चतुर्णा महामहानां मध्ये यो महामहो यस्मिन् देशे यतो दिवसादारभ्य यावन्तं कालं प्रवर्तते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं न स्वाध्यायं कुर्वन्ति, इह च यद्यपि सर्वेऽपि महामहाः पौर्णमासीपर्यता एव प्रसिद्धास्तथापि क्षणानुवृत्तिसंभवेन प्रतिपदोऽप्यवश्यं वर्जनीयाः, अत एवाह-'जाव पाडिवईत्ति गतार्थ । सम्प्रति जघन्यत उत्कर्षतश्च चन्द्रोपरागं सूर्योपरागं चाधिकृत्य स्वाध्यायविघातकालमानमाह-'उकोसेणे'त्यादिगाथाद्वयं, चन्द्र उत्कर्षतो द्वादशपौरुषी हन्ति जघ 282

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310