Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
गैर्नाममिरमी गीयन्ते-कथ्यन्ते ॥४७॥ तान्येव नामानि विमानक्रमेणाह-'सारे'त्यादि, सारस्वताः १ मकारोऽलाक्षणिक: आदित्याः २ वहयः ३ वरुणाः ४ गर्दतोयाः ५ तुषिताः ६ अव्याबाधाः ७ आग्नेयाः ८ एते संज्ञान्तरतो मरुतोप्यभिधीयन्ते, रिष्ठाश्चेति 'तास्थ्यात्तद्व्यपदेश' इति रिष्ठविमानाधारा रिष्ठाः ९, एते च सारस्वतादयो लोकान्तिकसुराः प्रव्रज्यासमयात्संवत्सरेणार्वागेव स्वयंसम्बुद्धमपि जिनेन्द्र कल्प इतिकृत्वा भगवन् ! सर्वजनजीवहितं तीर्थ प्रवर्तयेति बोधयन्ति ॥४८॥ अथैतेषां देवानां परिवारमाह
'त्यादि, अयमत्राभिप्रायः-सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवारः, एवं वहिवरुणयोश्चतुर्दश देवा. श्वतुर्दश च देवसहस्राः, गर्दतोयतुषितयोः सप्त देवाः सप्त च देवसहस्राः, शेषेषु त्वव्याबाधाग्नेयरिष्ठेषु नव देवा नव च देवशतानीति, ॥ २६७ ।। ४९ ॥ इदानीं 'सज्झायस्स अकरणं' त्यष्टषष्ट्यधिकद्विशततमं द्वारमाह
संजमघा १ उप्पाये २ सादिवे ३ वुग्गहे य ४ सारीरे ५। महिया १ सचित्तरओ २ वासम्मि य ३ संजमे तिविहं॥५०॥ महिया उगम्भमासे सचित्तरओ य इसिआयंबे । वासे तिन्नि पगारा बुब्बुय तवज फुसिए य ॥५१॥ दवे तं चिय दवं खेत्ते जहियं तु जच्चिरं कालं । ठाणाइभास भावे मोत्तुं उस्सासउम्मेसे ॥५२॥ पंसू य मंसरुहिरे केससिलावुट्टि तह रयुग्घाए । मंसरुहिरे अहरत्तं अवसेसे जचिरं सुत्तं ॥५३॥ पंसू अञ्चित्तरओ रयस्सलाओ दिसा रउग्घाओ। तत्थ सवाए निघायए य सुत्तं परिहरंति ॥५४॥ गंधवदिसा विजुक्क गजिए जूव जक्ख आलित्ते । एकेकपोरिसिं गलियं तु दो पोरिसी हणइ ॥५५॥ दिसिदाहो छिन्नमूलो उक्क सरेहा पगाससंजुत्ता। संझाछेयावरणो उ जूवओ सुक्ति दिण तिनि॥५६॥ चंदिमसूरुवरागे निग्याए गुंजिए अहोरत्तं । संझाचउ पडिवए जं जहि सुगिम्हए नियमा ॥ ५७॥ आसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धधे । एए महामहा खलु एएसिं जाव पाडिवया ॥५८॥ उक्कोसेण दुवालस चंदो जहन्नेण पोरिसी अट्ठ । सूरो जहन्न बारस पोरिसि उक्कोस दो अट्ठ॥ ५९॥ सग्गहनिवुड एवं सूराई जेण हुँतिऽहोरत्ता । आइन्नं दिणमुक्के सोच्चिय दिवसो य राई य ॥ ६०॥ वुग्गहदंडियमाई संखोभे दंडिए व कालगए। अणरायए य सभए जचिरनिद्दोच्चाहोरत्तं ॥ ६१॥ तदिवसभोइआइ अंतो सत्तण्ह जाव सज्झाओ । अणहस्स य हत्थसयं दिद्विविवित्तंमि सुद्धं तु ॥ ६२॥ मयहर पगए बहुपक्खिए य सत्तघर अंतर मयंमि । निहुक्खत्ति य गरिहा न पढंति सणियगं वावि ॥ ६३ ॥ तिरिपंचिंदिय दवे खेत्ते सहिहत्थ पोग्गलाइन्नं । तिकुरत्थ महंतेगा नगरे बाहिं तु गामस्स ॥६४॥ काले तिपोरिसि अट्ट व भावे सुत्तं तु नंदिमाईयं । सोणिय मंसं चम्मं अट्ठीवि य अहव चत्तारि ॥६५॥ अंतो बहिं व धोयं सही हत्याउ पोरिसी तिन्नि । महकाइ अहोरत्तं रत्ते बूढे य सुद्धं तु ॥६६॥ अंडगमुज्झिय कप्पे न य भूमि खणंति इयरहा तिन्नि । असझाइयप्पमाणं मच्छियपाया जहिं बुड़े ॥ ६७ ॥ अजराउ तिनि पोरिसि जराउयाणं जरे पडे तिन्नि । रायपहबिदुपडिए कंप्पे बूढे पुणो नत्थि॥ ६८॥ माणस्सयं चउद्धा अहि मोतूण सयमहोर यावन्नविवन्ने सेसे तिय सत्त अटेव ॥ ६९॥ रत्तुक्कडा उ इत्थी अट्ट दिणे तेण सत्त सुक्कहिए। तिण्ह दिणाण परेणं अणोउगं तं महारत्तं ॥ ७० ॥ दंते दिढे विगिचण सेसहि बारसेव वरि
साइं । दहट्ठीसु न चेव य कीरइ सज्झायपरिहारो ॥ ७१॥ आ-मर्यादया सिद्धान्तोक्तन्यायेन अध्ययनं-पठनं आध्यायः सुष्ट-शोभन आध्यायः स्वाध्यायः स एव स्वाध्यायिकं यत्र नास्ति तदस्वाध्यायिक-रुधिरादि, तन्मूलभेदापेक्षया द्विधा-आत्मसमुत्थं परसमुत्थं च, आत्मनः-स्वाध्याय चिकीर्षोः समुद्भूतमात्मसमुत्थं, परस्मात्-स्वाध्यायकर्तुरन्यस्मात्समुद्भूतं परसमुत्थं, तत्र बहुवक्तव्यत्वात्प्रथमतः परसमुत्थमेव प्रतिपाद्यते, तच्च पञ्चविधं, तद्यथा-संयमघाति-संयमौपघातिकं १ औत्पातिकं-उत्पातनि मित्तं २ सदैवं-देवताप्रयुक्तं ३ व्युग्रहः-संग्रामः ४ शारीरं चशरीरसंभवं ५, एतेषु च पञ्चस्वप्यस्वाध्यायिकेषु स्वाध्यायं विदधतः साधोस्तीर्थकदाज्ञाभङ्गादयो दोषा भवन्ति । तत्र संयमेसंयमोपघातविषयमस्वाध्यायिकं त्रिविधं-महिका सचित्तरजो वर्ष चेति । त्रीनपि भेदान् क्रमेण व्याख्यानयति-'मही'त्यादि, महिका गर्भमासे पतन्ती धूमरी प्रतीता, गर्भमासो नाम कार्तिकादिर्यावन्माघमासः, सा च पतनसमकालमेव सर्वमप्कायभावितं करोति, सचित्तरजो नाम व्यवहारसचित्ता अरण्यवातोद्भूता लक्ष्णा धूलिः, तच्च सचित्तरजो वर्णत ईषदातानं दिगन्तरेषु दृश्यते, गाथायां पुंस्त्वं प्राकृतत्वात् , तदपि निरन्तरपातेन त्रयाणां दिनानां परतः सर्व पृथ्वीकायभावितं करोति, वर्षस्य पुनस्रयः प्रकारा भवन्ति, तानेवाह-'बुब्बुय'त्ति यत्र वर्षे निपतति पानीयमध्ये बुदबुदा:-तोयशलाकारूपा उत्तिष्ठन्ति तद्वर्षमप्युपचाराद् बुद्बुदमित्युच्यते, तद्वर्ज-तैर्बुदबुदैर्वर्जितं द्वितीयं वर्ष, तृतीयं 'फुसिअय'त्ति जलस्पर्शिका निपतन्त्यः, तत्र बुबुदे
281

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310