Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
विशेषाधिकाः, प्रभूतासोयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्योऽप्कायिका विशेषाधिकाः, प्रभूततरासह यलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासयेयलोकाकाशप्रदेशमानत्वात्, तेभ्योऽकायिका अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यः सकाया विशेषाधिकाः, पृथिवीकायिकादीनामपि सत्र प्रक्षेपात् ॥ ३४॥ साम्प्रतमेकेन्द्रियत्वादिविशेषणविशिष्टानां जन्तूनामल्पबहुत्वमाह-'पणेत्यादि, सर्वखोकाः पञ्चेन्द्रियाः, सहययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमितप्रतरासयेयभागवयंसहयेयश्रेणिगत्मकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यश्चतुरिन्द्रिया विशेपाधिकाः, तेषां विष्कम्भसूच्याः प्रभूतसहयेययोजनकोटीकोटीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततरसोययोजनकोटीकोटीप्रमाणत्वात् , तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततमसोययोजनकोटीकोटीत्रमाणत्वात् , तेभ्योऽनिन्द्रिया अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽप्येकेन्द्रिया अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योsप्यनन्तगुणत्वात् , तेभ्योऽपि सेन्द्रिया विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् ॥ ३५ ॥ अथ जीवपुद्गलादीनामल्पबहुत्समाह'जीवेत्यादि, वक्ष्यमाणापेक्षया सर्वस्तोका जीवाः, तेभ्यः पुरला अनन्तगुणाः, इह हि परमाणुद्विप्रदेशिकादीनि पृथक्पृथग्द्रव्याणि, वानि च सामान्यतनिधा-प्रयोगपरिणतानि मिश्रपरिणतानि विस्रसापरिणतानि च, तत्र प्रयोगपरिणतान्यपि तावज्जीवेभ्योऽनन्तगुणानि, एकैकस्य जीवस्यानन्तः प्रत्येकं ज्ञानावरणीयादिकर्मपुद्गलस्कन्धेरावेष्टितत्वात् , किं पुनः शेषाणि ?, यतः प्रयोगपरिणतेभ्यो मिश्रपरिणतान्यनन्तगुणानि तेभ्योऽपि विस्रसापरिणतान्यनन्तगुणानि ततो युक्तं जीवेभ्यः पुगला अनन्तगुणाः, तेभ्योऽद्धासमया अनन्तगुणाः, यत एकसामि परमाणोर्द्रव्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भावसमया उपलब्धाः, यथैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेषां च प्रत्येक द्विप्रदेशिकादीनां स्कन्धानामेवमन्यान्यद्रव्यक्षेत्रकालभावसम्बन्धिनामनन्ताः समया अतीता अनागता अपीति सिद्धं पुरलेभ्यः समयानाम नन्तगुणत्वं, तेभ्यः सर्वद्रव्याणि विशेषाधिकानि, कथमिति चेद् उच्च्यते इह ये अनन्तरमद्धासमयाः पुद्रलेभ्योऽनन्तगुणा उकास्ते प्रत्येकं द्रव्याणि, ततो द्रव्यचिन्तायां तेऽपि गृह्यन्ते, तेषु मध्ये सर्वजीवद्रव्याणि सर्वपुरलद्रव्याणि धर्माधर्माकाशा-. स्तिकायद्रव्याणि च प्रक्षिप्यन्ते, तानि च समुदितान्यप्यद्धासमयानामनन्तभागकल्पानीति तेषु प्रक्षिप्तेष्वपि मनागधिकत्वं जातमित्यद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि, तेभ्यः सर्वप्रदेशा अनन्तगुणाः, एकस्याप्यलोकाकाशद्रव्यस्य सर्वद्रव्यानन्तगुणप्रदेशत्वात् , तेभ्यः सर्वपर्यवा अनन्तगुणाः, एकैकस्मिन्नाकाशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां सद्भावादिति ॥ २६३ ॥ ३६॥ इदानीं 'जुगप्पहाणसूरिसंखत्ति चतुःषष्ट्यधिकद्विशततमं द्वारमाह
जा दुप्पसहो सूरी होहिंति जुगप्पहाण आयरिया । अजसुहम्मप्पभिई चउरहिया दुन्नि य
सहस्सा ॥ ३७॥ इहावसर्पिण्या दुषमावसानसमये द्विहस्तोच्छ्रितवपुर्विशतिवर्षायुष्कः पुष्कलतपःक्षपितकर्मतया समासनसिद्धिसौधः शुद्धान्तरात्मा दशवकालिकमात्रसूत्रधरोऽपि चतुर्दशपूर्वधर इव शक्रपूज्यो दुप्रसभनामा सर्वान्तिमः सूरिभविष्यति, तवस्त दुष्पसमं यावत्चममिव्याप्यैवेत्यर्थः, आर्यसुधर्मप्रभृतयः आरात्-सर्वहेयधर्मेभ्योऽर्वाग्यातः आर्यः स चासौ सुधर्मस्तत्प्रभृतयः, प्रभृतिग्रहणाच जम्बूस्वामिप्रभवशय्यम्भवाचा गणधरपरम्परा गृह्यते, युगप्रधाना:-तत्कालपचरत्पारमेश्वरप्रवचनोपनिषद्वेदित्वेन विशिष्टतरमूलगुणोत्तरगुणसंपनत्वेन च तत्कालापेक्षया भरतक्षेत्रमध्ये प्रधाना आचार्या:-सूरयश्चतुरधिकसहस्रद्वयप्रमाणा भविष्यन्ति, अन्ये तु चतूरहितसहस्रदयप्रमाणा इत्याहुः, तत्त्वं तु सर्वविदो विदन्ति, यव महानिशीथपन्ये जग्रन्थ प्रन्थकार:-"इत्थं चायरियाणं पणपन्ना होंति कोडिलक्खाओ। कोडिसहस्से कोडीसए य तह इत्तिए चेवत्ति ॥१॥" [इत्थं चाचार्याणां पञ्चपञ्चाशत्कोटीलक्षाः कोटीसहस्रा कोटीशतं तथैतावन्त एवेति ॥१॥] (५५५५१५५-कोट्यः) तत्सामान्यमुनिपत्यपेक्षया द्रष्टव्यं, तथा च तत्रैवोक्तम्-“एएसिं मझाओ एगे निव्वडइ गुणगणाइन्ने । सव्वुत्तमभंगेणं तित्थयरस्साणसरिस गुरू॥१॥" [एतेषां मध्यात् एके निपतन्ति गुणगणाकीर्णाः सर्वोत्तमभङ्गे तीर्थकरानुसदृशा गुरवः ॥१॥] २६४ ॥ ३७ ॥ इदानीं 'उस्सप्पिणिअंतिमजिणतित्थप्पमाणंति पञ्चषष्ट्यधिकद्विशततमं द्वारमाह
ओसप्पिणअंतिमजिण तित्थं सिरिरिसहनाणपजाया । संखेजा जावइया तावयमाणं धुवं
भविही ॥ ३८॥
इह श्रीऋषभवामिनः केवलज्ञानपायो वर्षसहस्रोन एकः पूर्वलक्षः, तत एवंखरूपा ज्ञानपर्यायाः सोया यावन्तो भवन्ति तावत्प्रमाणमुत्सर्पिण्यामन्तिमजिनस्य चतुर्विशतितमस्य भद्रकृन्नाम्नस्तीर्थकृतस्तीर्थ ध्रुव-निश्चितं भविष्यति, सोयपूर्वलक्षमानं तत्तीयमित्यर्थः, २६५ ॥ ३८॥ इदानीं 'देवाण पवियारोत्ति षषष्ट्यधिकद्विशततमं द्वारमाह
दो कायप्पवियारा कप्पा फरिसेण दोन्नि दो रुवे । सहे दो चउर मणे नत्थि यत्थी ॥ ३९ ॥ गेविजणुत्तरेसुं अप्पवियारा हवंति सबसुरा । सप्पवियारठिईणं अणंतगुणसो
क्खसंजुत्ता ॥४०॥ द्वौ कल्पाविति मर्यादायां कल्पशब्देन च वात्स्थ्यात् कल्पस्था देवाः, ततोऽयमर्थ:-भवनपत्यादय ईशानान्ता देवाः लिष्टोदकपुवेदा
279

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310