Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
समणी १ मवगयवेयं २ परिहार ३ पुलाय ४ मप्पमत्तं ५ च । चउदसपुचि ६ आहारगं च ७ न
य कोइ संहरइ ॥१९॥ श्रमणी-अजिझब्रह्मचरणशरणां साध्वीं अपगतवेदं-क्षपितवेदं 'परिहार'त्ति प्रतिपन्नपारिहारिकतपश्चरणं पुलाकं-लब्धिपुलाकं अप्रम-अप्रमत्तसंयतं चतुर्दशपूर्विणं-चतुर्दशपूर्वधरं आहारकं च-आहारकशरीरिणं नैव कोऽपि-विद्याधरदेवादिः (प्रन्थानं १७०००) संहरति-प्रत्यनीकतयाऽनुकम्पया अनुरागेण वोरिक्षप्यान्यत्र क्षिपति, इह च न सर्वोऽपि चतुर्दशपूर्वधर आहारकलब्धिमान् भवति, किंतु कश्चिदेवेति ज्ञापनार्थमाहारकमहणं ।। २६१ ॥ १९ ॥ इदानीं 'अंतरदीवत्ति द्विषष्ट्यधिकं द्विशततमं द्वारमाह
चुलहिमवंतपुत्वावरेण विदिसासु सायरं तिसए । गंतणंतरदीवा तिन्नि सए हंति विच्छिन्ना ॥२०॥ अउणावन्ननवसए किंचूणे परिहि तेसिमे नामा । एगोरुअ १ आभासिय २ वेसाणी . चेव ३ नंगूली ४॥ २१ ॥ एएसि दीवाणं परओ चत्तारि जोयणसयाणि । ओगाहिऊण लवणं सपडिदिसिं चउसयपमाणा ॥ २२ ॥ चत्सारंतरदीवा हय ५ गय ६ गोकन्न ७ संकुलीकन्ना ८॥ एवं पंचसयाई छस्सय सत्तट्ट नव चेव ॥ २३ ॥ ओगाहिऊण लवणं विक्खंभोगाहसस्सिया भणिया। घरो चउरो दीवा इमेहिं नामेहिं नायबा ॥ २४ ॥ आयंसमिंढगमुहा अयोमुहा गोमुहा य चउरोए १२ । अस्समुहा हत्थिमुहा सीहमुहा चेव वग्घमुहा १६॥ २५ ॥ तत्तो य आसकन्ना हरिकन्न अकन्न कन्नपावरणा २० । उकमुहा मेहमुहा विद्युमुहा विजुदंता य २४ ॥ २६ ॥ घणदंत लट्ठदंता य गूढदंता य सुद्धदंता य २८ । वासहरे सिहरिमि य एवं चिय अटुकीसावि ॥ २७॥ तिन्नेव हंति आहे एगुत्तरवाडिया नवसयाओ। ओगाहिऊण लवणं ताबडयं चेद विच्छिन्ना ॥२८॥ इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रम सीमाकारी पूर्वापरपर्यन्ताभ्यां लवणार्णवजलसंस्पर्शी महाहिमवदपेक्षया धुलो-लघुहिमवन्नामा पर्वतः समस्ति, तस्य लवणार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चिमायां च दिशि प्रत्येकं द्वे द्वे गजदन्ताकारे दंष्ट्र विनिर्गते, तत्र ईशान्यां दिशि या निर्गता दंष्ठा तस्यां हिमवतः पर्यन्तादारभ्य त्रीणि योजनशतानि लवणसमुद्रं गत्वा-अवगाह अत्रान्तरे योजनशतत्रयायामविष्कम्भः किश्चिन्यूनैकोनपञ्चाशदधिकनवयोजनशतपरिरय एकोरुकनामा द्वीपो वर्तते, अयं च पञ्चधनुःशतप्रमाणविष्कम्भया गव्यूतद्वयोच्छ्रितया पद्मवरवेदिकया वनखण्डेन च सर्वतः परिमण्डितः, एवं सर्वेऽप्यन्तरद्वीपाः प्रत्येकं पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तपरिसराः समवसेयाः, एवं तस्यैव हिमवतः पर्वतस्य पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लवणसमुद्रमवगाह द्वितीय दंष्ट्राया उपरि एकोरुकद्वीपप्रमाण आभासिकनामा द्वीपो वर्तते, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणपश्चिमायां दिशि नैर्ऋतकोणे इत्यर्थः त्रीणि योजनशतानि लवणसमुद्रमवगाह्य दंष्ट्राया उपरि यथोक्तप्रमाणो वैषाणिकनामा द्वीपः, तथा तस्यैव हिमवतः पश्चिमायामेव दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि वायव्यकोणे इत्यर्थः त्रीणि योजनशतानि लबणसमुद्रमध्ये चतुर्थी दंष्ट्रामतिक्रम्यात्रान्तरे पूर्वप्रमाणो नाङ्गोलिकनामा द्वीपः, एवमेते हिमवतश्चतसृष्वपि विदिक्षु तुल्यप्रमाणाश्चत्वारोन्तरे-लवणसमुद्रमध्ये द्वीपा अन्तरद्वीपा अवतिष्ठन्ते, तत एतेषामेकोरुकादीनां चतुर्णा द्वीपानां परतः 'सपडिदिसं'ति प्रत्येकं पूर्वोतरादिविदिक्षु चतसृष्वपि चत्वारि चत्वारि योजनशतानि लवणसमुद्रमवगाह्य चतुर्योजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातश्चतुर्योजनशतप्रमाणान्तरा हयकर्णगजकर्णगोकर्णशष्कुलीकर्णनामानश्चत्वारोऽन्तरद्वीपाः, तद्यथा-एकोरुकस्य परतो हयकर्णः आभासिकस्व परतो गजकर्णः वैषाणिकस्य परतो गोकर्णः नङ्गोलिकस्य परतः शष्कुलीकर्ण इति, एवमप्रेऽपि भावना कार्या, तत एतेषामपि हयकर्णादीनां चतुर्णा द्वीपानां परतः पुनरपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं पञ्च पञ्च योजनशतानि व्यतिक्रम्य पञ्चयोजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातः पञ्चयोजनशतप्रमाणान्तरा आदर्शमुखमेण्ढमुखायोमुखगोमुखनामानश्चत्वारो द्वीपाः, एतेषामप्यादर्शमुखादीनां चतुर्णा द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं षट् षट् योजनशतानि व्यतिक्रम्य षषड्योजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातः षड्योजनशतप्रमाणान्तरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपाः, एतेषामप्यश्वमुखादीनां चतुर्णा द्वीपानां परतो भूयो यथाक्रमं पूर्वोत्तरादिषु विदिक्षु प्रत्येकं सप्तयोजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातः सप्तयोजनशतप्रमाणान्तरा अश्वक
हरिकर्णाकर्णकर्णप्रावरणनामानश्चत्वारो द्वीपाः, एतेषामप्यश्वकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टावष्टौ योजनशतान्यतिक्रम्याष्टयोजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातोऽष्टयोजनशतप्रमाणान्तरा उल्कामुखमेघमुखविद्युन्मुखविधुरन्वामिधानाश्चत्वारो द्वीपाः, ततोऽमीषामप्युल्कामुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं नवनवयोजनशतान्यतिक्रम्य नवयोजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातो नवयोजनशतप्रमाणान्तरा धनदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः, एवमेते हिमवति पर्वते चतसृषु विदिश्च व्यवस्थिताः सर्वसंख्यया अष्टाविंशतिः, एवं शिखरिण्यपि वर्षधरे-पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोकप्रमाणान्तराश्चतसृषु विदिक्षु व्यवस्थिता एकोरुकादिनामानोऽष्टाविंशतिसया द्वीपा वक्तव्याः, वतः सर्वस
277

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310