Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
नानि तावद्वाच्यानि यावत्कण्डकमात्राणि, ततः पूर्वपरिपाट्या पुनरप्यसङ्ख्येयगुणाधिकस्थानप्रसङ्गेऽनन्तगुणाधिकं संयमस्थानं वाच्यं, ततो भूयोऽपि मुलादारभ्य यावन्ति संयमस्थानानि प्रागुक्तानि भवन्ति तावन्ति तथैव वाच्यानि, ततो भूयोऽप्येकमनन्तगुणाधिक स्थानं, ततः पुनरपि मूलादारभ्य तावन्ति स्थानानि तथैव वाच्यानि, ततः पुनरप्येकमनन्तगुणाधिकं स्थानं, एवमनन्तगुणाधिकानि संयमस्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भवन्ति, ततो भूयोऽपि तेषामुपरि पञ्चवृद्ध्यात्मकानि संयमस्थानानि मूलादारभ्य तथैव वाच्यानि, यत्पुनरनन्तगुणवृद्धिस्थानं तन्न प्राप्यते, षट्स्थानकस्य परिसमाप्तत्वात्, इत्थंभूतान्यसयेयानि कण्डकानि समुदि. तानि एक षट्स्थानकं भवति, अस्माच षट्स्थानकादूर्ध्वमुक्तक्रमेणैव द्वितीयं षट्स्थानकमुत्तिष्ठति, एवमेव च तृतीयं, एवं षस्थानकान्यपि तावद्वाच्यानि यावदसयेयलोकाकाशप्रदेशप्रमाणानि भवन्ति, उक्तं च-"छठ्ठाणगअवसाणे अन्नं छट्ठाणयं पुणो अन्नं । एवमसंखा लोगा छठ्ठाणाणं मुणेयव्वा ॥१॥" अस्मिंश्च षट्स्थानके यादृशोऽनन्ततमो भागोऽसयतमः सल्येयतमो वा गृह्यते यादृशस्तु सोयोऽसङ्ख्येयोऽनन्तो वा गुणकारः स निरूप्यते-तत्र यदपेक्षयाऽनन्तगुणवृद्धता तस्य सर्वजीवसङ्ख्याप्रमाणेन राशिना भागो हियते हृते च भागे यल्लब्धं सोऽनन्ततमो भागः तेनाधिकमुत्तरं संयमस्थानं, किमुक्तं भवति ?-प्रथमस्य संयमस्थानस्य ये निर्विभागा भागास्तेषां सर्वजीवसङ्ख्याप्रमाणेन राशिना भागे हृते सति ये लभ्यन्ते तावत्प्रमाणैर्निविभागैर्भागैर्द्वितीयसंयमस्थाने निर्विभागा भागा अधिकाः प्राप्यन्ते, द्वितीयसंयमस्थानस्य ये निर्विभागा भागास्तेषां सर्वजीवसङ्ख्याप्रमाणेन राशिना भागे हृते सति यावन्तो लभ्यन्ते तावत्प्रमाणेनिर्विभागै गैरधिकास्तृतीये संयमस्थाने निर्विभागा भागाः प्राप्यन्ते, एवं यद्यत्संयमस्थानमनन्तभागवृद्धमुपलभ्यते तत्तताश्चात्यस्य संयमस्थानस्य सर्वजीवसङ्ख्याप्रमाणेन राशिना भागे हृते सति यद्यल्लभ्यते तावत्प्रमाणेनानन्ततमेन भागेनाधिक्यमवगन्तव्यं । असोयभागाधिकानि पुनरप्येवं-पाश्चात्यस्य संयमस्थानस्य सत्कानां निर्विभागभागानामसख्येयलोकाकाशप्रदेशप्रमाणेन राशिना भागे हृते सति यद्यल्लभ्यते सोऽसयतमो भागः, ततस्तेनासङ्ख्येयतमेन भागेनाधिकान्यसयेयभागाधिकानि स्थानानि वेदितव्यानि, सहयेयभागाधि. कानि स्वेवं-पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्योत्कृष्टेन सयेयेन भागे हृते सति यद्यल्लभ्यते स सत्येयतमो भागः, ततस्तेन सङ्ख्येयतमेन भागेनाधिकानि स्थानानि वेदितव्यानि, सोयगुणवृद्धानि पुनरेवं-पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य ये ये निर्विभागा भागास्ते ते उत्कृष्टेन सहयेयकमानेन राशिना गुण्यन्ते गुणिते च सति यावन्तो यावन्तो भवन्ति तावत्तावत्प्रमाणानि सहयगुणाधिकानि स्थानानि द्रष्टव्यानि, एवमसयेयगुणवृद्धान्यनन्तगुणवृद्धानि च भावनीयानि, नवरमसयेयगुणवृद्धौ पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य निर्विभागा भागा असल्येयलोकाकाशप्रदेशप्रमाणेनासयेयेन गुण्यन्ते, अनन्तगुणवृद्धौ तु सर्वजीवप्रमाणेनानन्तेनेति । अयं च षट्स्थानकविचारः स्थापना विना मन्दबुद्धिभिः सम्यगवबोध्धुं न शक्यते, सा च स्थापना कर्मप्रकृतिपटेभ्यः प्रतिपत्तव्या, विस्तरभयात्तु नेह प्रदयेते, केवलं कियन्तमपि स्थानाशून्यार्थ स्थापनाप्रकारं प्रकाशयामः, तथाहि-प्रथमं तावत्तिर्यक्पङ्खी चत्वारो बिन्दवः स्थाप्यन्ते, तेषां च कण्डकमिति संज्ञा, सर्वेषामपि चैतेषामन्योऽन्यमनन्तभागवृद्ध्या वृद्धिरवसेया, ततस्तेषामप्रतोऽसङ्ख्यातभागवृद्धिसंझक एककः स्थाप्यते, ततो भूयोऽपि चत्वारो बिन्दवः, तत एकक इत्यादि तावदवसेयं यावदिशतिबिन्दवश्चत्वारश्चैकका जाताः, तदनु सङ्ख्यातभागवृद्धिसंज्ञको द्विकः स्थाप्यते, ततः पुनरपि विंशतिबिन्दवश्चत्वारश्चैककाः, ततो द्वितीयो द्विकः, एवं विंशतेर्विशतेबिन्दूनामन्तराऽन्तरा चतुर्णा चतुर्णामेककानामवसाने तृतीयचतुर्थावपि द्विको क्रमेण स्थाप्यौ, तदनु भूयोऽपि चतुर्थद्विकस्याने विंशतिबिन्दवश्चत्वारश्चैककाः, एवं च जातं बिन्दूनां शतं, एककानां विंशतिश्चत्वारश्च द्विकाः, अत्रान्तरे चतुर्णा बिन्दूनामप्रतः समातगुणवृद्धिसंज्ञकः प्रथमस्त्रिका संस्थाप्यते, ततः पुनरपि बिन्दूनां शतादेककानां विंशतेर्द्विकानां चतुष्टयाच परतो द्वितीयखिकः स्थाप्यते, एवं बिन्दूनां शते एककानां विंशतौ द्विकानां च चतुष्टये चतुष्टयेऽतिक्रान्ते तृतीयश्चतुर्थावपि त्रिको स्थाप्यौ, तदनु चतुर्थत्रिकस्याप्यो बिन्दूनां शतमेककानां विंशतिर्द्विकानां चतुष्टयं च स्थाप्यते, ततो जातानि पञ्च शतानि बिन्दूनां शतमेककानां विंशतिर्द्विकानां चत्वारश्च त्रिकाः, अत्रान्तरे चतुर्णा बिन्दूनामप्रतोऽसङ्ख्यातगुणवृद्धिसंज्ञक प्रथमचतुष्कः स्थाप्यते, ततो भूयोऽपि पञ्च शतानि बिन्दूनां, शतमेककानां विंशतिर्द्विकानां चत्वारश्च त्रिकाः प्रागिव स्थाप्यन्ते, ततो द्वितीयचतुष्कः स्थाप्यः, एवं बिन्दूनां शतपञ्चके एककानां शते द्विकानां विंशतौ त्रिकाणां चतुष्टये चतुष्टये चातिक्रान्ते तृतीयचतुर्थावपि चतुष्को क्रमेण स्थाप्यौ, ततश्चतुर्थचतुष्कस्याने। स्थापयित्वा अनन्तगुणवृद्धिसंज्ञकः प्रथमः पञ्चको न्यस्यते, एवमनेनैवानन्तरोक्तेन क्रमेण द्वितीयतृतीयचतुर्था अपि पञ्चका न्यसनीयाः, ततश्चतुर्थपञ्चकस्याप्यो पञ्चमपञ्चकोचितं दलिकं लिख्यते, न च पञ्चकः स्थाप्यते, तत आद्यन्तयोः प्रत्येकं बिन्दुचतुष्टयेन प्रथम षट्स्थानं समाप्यते, यदा पुनः प्रथमानन्तरं द्वितीयं षट्स्थानकं स्थापयितुमिष्यते तदा तदपेक्षया प्रथमं पृथक्चत्वारो बिन्दवः स्थाप्यन्ते, तदनन्तरमेककादिः सोऽपि पूर्वोक्तविधिः क्रमेण कर्तव्य इति, साम्प्रतमकानां बिन्दूनां च सर्वसङ्ख्या कथ्यते तत्रैकस्मिन् षट्स्थानके चत्वारः पञ्चका भवन्ति, ततः पञ्चभिर्वा गुणयेदिति करणवशाच्चतुर्णा पञ्चकानां पञ्चभिर्गुणने लब्धा विंशतिचतुष्काः, एतेषामपि पञ्चमिर्गुणने लब्धं शतं त्रिकाणां, तेषामपि पञ्चमिर्गुणने लब्धानि पञ्च शतानि द्विकानां, तेषामपि च पञ्चमिर्गुणने लब्धे वे सहस्रे सार्धे एककामां, तेषामपि च पञ्चमिर्गुणने लब्धानि द्वादश सहस्राणि सार्धानि बिन्दूनां १२५००, इयमेकस्मिन् षट्स्थाने सर्वसङ्ख्या, एवं शेषेष्वपि षट्स्थानकेषु प्रतिपत्तव्यमिति, २६०॥१८॥ इदानीं 'अवहरि जाई नेव तीरंति'त्येकषष्ट्यधिकद्विशततमं द्वारमाह
276

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310