Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 152
________________ कुर्कुटी-पक्षिणी तस्या अण्डकं प्रमाणं कवलस्य, तथा यावन्मात्रेणाहारेण भुक्तेन न न्यूनं नाप्यत्याध्मातमुदरं भवति धृतिश्च विशिष्टा सम्पद्यते ज्ञानदर्शनचारित्राणां च वृद्धिरुपजायते तावत्प्रमाण आहारो भावकुर्कुटी, तस्य द्वात्रिंशत्तिमो भागोऽण्डकं, तत्प्रमाणं कवलस्य, ततो द्वात्रिंशत्कवलाः पुरुषस्याहारप्रमाणं, स्त्रियास्तु अष्टाविंशतिः नपुंसकस्य पुनश्चतुर्विशतिः, उक्तं च तण्दुलवैचारिके-"बत्तीसं कवला पुरिसस्स आहारो अट्ठावीसं इत्थियाए चउव्वीसं पंडयस्स"त्ति, अधिकाहारस्तु अजीर्यमाणः सन् व्याधये वमनाय मृत्यवे चेति, यदभ्यधायि-"अइबहुयं अइबहुसो अइप्पमाणेण भोयणं भुत्तं। हादेज व वामेज व मारेज व तं अजीरंतं ॥१॥" इति [अतिबहुकमतिबहुशः अतिप्रमाणेन भोजनं भुक्तं । हादयेद्वा वमयेद्वा मारयेद्वा तदजीर्यमाणं ।। १॥] इदानीमङ्गारदोषमाह-'राएणे'त्यादि उत्तरार्ध, रागेण-अन्नस्य तद्दातुर्वा प्रशंसारूपेणास्वादयन्-अभ्यवहरन् प्रासुकमप्याहारं करोति स्वचारित्रं साङ्गारं, चरणेन्धनस्याङ्गारभूतत्वात् , अयमत्र भावार्थ:-इह द्विधा अङ्गाराः-द्रव्यतो भावतश्च, तत्र द्रव्यतः कृशानुदग्धाः खदिरादिवनस्पतिविशेषाः, भावतो रागाग्निना निर्दग्धं चरणेन्धनं, ततो यथा दग्धमिन्धनं धूमे गते सति अङ्गार इत्युच्यते एवमिहापि चरणेन्धनं रागाग्निना निर्दग्धं सदङ्गारक इत्युच्यते, ततश्च भोजनगतविशिष्टगन्धरसास्वादवशेन सजाततद्विषयमूर्छस्य सतोऽहो सुमृष्टमहो सुसंभृतमहो स्निग्धं सुपकं सुरसं चेत्येवं प्रशंसातः सहाङ्गारेण यद्वर्तते तत्साङ्गारमिति ॥ ७३५ ॥ इदानीं धूमदोषमाह-भुंजंतो' इत्यादि गाथापूर्वाध, द्वेषेण-अन्नस्य तद्दायकस्य वा निन्दात्मकेनअमनोज्ञम्-अमधुरमाहारं भुजानश्चरणं-चारित्रं सधूमकं करोति, निन्दात्मककलुषभावस्वरूपधूमसम्मिश्रत्वात् , अत्राप्ययं भावार्थ:-इह द्विविधो धूमस्तद्यथा-द्रव्यतो भावतश्च, तत्र द्रव्यतोऽर्धदग्धानां काष्ठानां सम्बन्धी भावतो द्वेषाग्निना दह्यमानस्य चरणेन्धनस्य सम्बन्धी कलुषभावो निन्दात्मकः, ततो यथाऽङ्गारत्वमप्राप्तं ज्वलदिन्धनं सधूममुच्यते एवं द्वेषाग्निना दह्यमानं चरणेन्धनमपि सधूम, ततश्च भोजनगतविरूपरसगन्धास्वादतो जाततद्विषयव्यलीकचित्तस्य सतोऽहो विरूपं कथितमपक्कमसंस्कृतमलवणं चेति निन्दावशाद्धमेन सह यद्वर्तते तत्सधूम चारित्रमिति ॥ अधुना कारणमाह-वेयणे'त्याद्युत्तरार्ध, वेदनातङ्कप्रमुखानि षट् कारणानि प्रत्येकं भोजने अभोजने च ज्ञेयानि, पुंस्त्वं च प्राकृतत्वात् , अयमर्थः-वेदनादिभिः षड्भिः कारणैर्भोजनं कुर्वाणः आतङ्कप्रमुखैश्च षभिः कारणैर्भोजनमकुवाणस्तीर्थकदाज्ञां नातिकामति पुष्टकारणत्वात् , अन्यथा त्वतिक्रामत्येव रागादिभावादिति ॥ ७३६ ॥ तत्र वेदनादीनि षट् भोजनका. रणानि तावदाह-'वेयण' गाहा, इह पदैकदेशे पदसमुदायोपचारात् सुव्यत्ययाच 'वेयण'त्ति क्षुद्वेदनोपशमाय भुजीतेति सर्वत्र क्रियासम्बन्धः, बुभुक्षा हि न शक्यते सोढुं बुभुक्षायाः सर्ववेदनातिशायित्वात् , उक्तं च-'छुहासमा वेयणा नत्थि'त्ति [क्षुधासमा वेदना नास्ति] तथा वैयावृत्त्यकरणाय, बुभुक्षितो हि गुर्वादीनां न शक्नोति वैयावृत्त्यं कर्तु, तथा ईर्येति-ईर्यासमितिः सैव निर्जरार्थिभिरर्यमानतयाऽर्थस्तस्मै, बुभुक्षापीडितस्य हि चक्षुामपश्यतः कथमिव ईर्यासमितिपरिपालनं स्यात् ?, तथा संयमार्थाय, क्षुधाों हि न प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणं संयमं विधातुमलं अतः संयमामिवृद्ध्यर्थ, तथा प्राणा-उच्छ्रासादयो बलं वा प्राणास्तेषां तस्य वा वृत्तिः-पालनं तदर्थ प्राणसंधारणार्थमित्यर्थः यद्वा प्राणप्रत्ययं-जीवितनिमित्तं, अविधिना ह्यात्मनोऽपि प्राणोपक्रमे हिंसा स्यात्, अत एवोक्तम्-'भावियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणंमि परंमि य तो वज्जे पीडमुभओवि ॥ १॥ [भावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि परस्मिन्नपि च ततो वर्जयेत् पीडामुभययोरपि ॥ १॥] षष्ठं पुनरिदं कारणं-यदुत 'धर्मचिन्तायै' धर्मचिन्ता-धर्मध्यानचिन्ता श्रुतधर्मचिन्ता वा प्रन्थपरावर्तनचिन्तनवाचनादिरूपा, इयं [भयरूपाऽपि बुभुक्षाऽऽकुलितेचतसो न स्यादातध्यानसम्भवादिति । इह च यद्यपि वेदनोपशमादीनां शाब्द्या वृत्त्या तदुपलक्षितभोजनफलत्वेन प्रतीतिः तथापि वैविना तनिषेधसूचनादार्थ्या वृत्त्या कारणत्वमेवैषामुपदर्शितं भवति, अत एव षष्ठमित्यत्र कारणमेव सम्बन्धितम् ॥ ७३७ ॥ अथातकादीनि षडेवाभोजनकारणान्याह-'आयंके' गाहा, आतङ्के-ज्वरादौ रोगे समुत्पन्ने सति न भुजीत, उपवासान् कुर्वतो हि प्रायेण ज्वरादयसुट्यन्ति, उक्तं च-"बलावरोधि निर्दिष्ट, ज्वरादौ लङ्घनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥ १॥" तथोपसर्गे देवमनुष्यतिर्यकृते सजाते सति, तितिक्षया हेतुभूतया उपसर्गसहनार्थमित्यर्थः, उपसर्गश्च अनुकूलप्रतिकूलभेदाद् द्विविधः, तत्र मातापितृकलत्रादिखजनकृ. तोऽनुकूलः, ते हि स्नेहादिना प्रव्रज्यामोचनार्थ कदाचिदुपतिष्ठन्ते, तत्रोपसोऽयमिति मत्वा नाभीयात्, यतस्तमुपवासान् कुर्वन्तं वीक्ष्य तन्निश्चयावगमनान्मरणादिभयाद्वा मुञ्चन्तीति, प्रतिकूलोपसर्गश्च कुपितराजादिकृतः, तत्रापि न भुजीत, विहितोपवासं हि साधुं समीक्ष्य राजादयोऽपि प्रायेण सजातदया मुञ्चन्तीति, तथा ब्रह्मचर्यगुप्तिषु-ब्रह्मचर्यगुप्तिनिमित्तं मैथुनव्रतसंरक्षणार्थमित्यर्थः, उपवासान् हि विदधतः कामः कामं दूरमपक्रामति, यदुक्तम्-'विषया विनिवर्तन्ते, निराहारस्य देहिनः।' इति, तथा 'पाणिदयातवहेउ'त्ति प्राणिदयाहेतोः-जीवरक्षणार्थ, जलवृष्टौ महिकापाते सचित्तरजःपातादौ प्रभूतसूक्ष्ममण्डू किकामसिकाकोद्रविकादिसत्त्वसंसक्तायां वा भूमौ प्राणिदयानिमित्तमटनं परिहरन् न भुजीत, तथा तपोहेतोः-तपःकरणनिमित्तं, एकद्विव्याधुपवासकरणेन षण्मासान्तं यावत्तपः कुर्वतो न भोजनसम्भवः, तथा शरीरस्य व्यवच्छेदः-परिहारस्तदर्थ च, इह हि शिष्यनिष्पादनादिसकलकर्तव्यताऽनन्तरं पाश्चात्ये वयसि संलेखनाकरणेन यावज्जीवानशनप्रत्याख्यानकरणयोग्यमात्मानं कृत्वा भोजनं परिहरेत् नान्यथा, शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि शरीरपरित्यागार्थमनशनप्रत्याख्यानकरणे जिनाज्ञाभङ्गप्रसङ्गात् संलेखनामन्तरेणा-ध्यानादिसम्भवाच, यदुक्तम्-"देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणाहिं । जायइ अट्टज्झाणं सरीरिणो चरिमसमयम्मि ॥१॥" [देहेऽसंलिखिते सहसा धातुषु क्षीयमाणेषु । 143

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310