Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
दमित्यर्थः, 'सम्यग रुचिः सम्यग-अज्ञानसंशयविपर्यासनिरासेन इदमेव तत्त्वमिति निश्चयपूर्विका जिनोदितजीवादिपदार्थेष्वमिप्रीतिः, जिनोक्तानुसारितया तत्त्वार्थश्रद्धानरूपमेकविधं सम्यक्त्वमिति भावः, तथा निसर्गाधिगमाभ्यां तत्-सम्यक्त्वं भवेद् द्विविधं, तत्र निसर्गः-स्वभावो गुरूपदेशादिनिरपेक्षस्तस्मात्सम्यक्त्वं भवति, यथा नारकादीनां, अधिगमो-गुरूपदेशादिस्तस्मात्सम्यक्त्वं भवतीति प्रतीतमेव, अयमभिप्रायः-तीर्थकराद्युपदेशदानमन्तरेण स्वत एव जन्तोर्यत्कोपशमादिभ्यो जायते तन्निसर्गसम्यक्त्वं, यत्पुनस्तीर्थकराद्युपदेशजिनप्रतिमादर्शनादिबाह्यनिमित्तोपष्टम्भतः कर्मोपशमादिना प्रादुर्भवति तदधिगमसम्यक्त्वमिति, तथा त्रिविधं तत्-सम्यक्त्वं क्षायिकादि, अथवा त्रिविधं कारकादि ॥ ९४३ ॥ तत्र क्षायिकक्षायोपशमिके व्याख्यातुमाह-सम्यक्त्वमिश्रमिथ्यात्वकर्मक्षयाद्भणन्ति तीर्थकरगणधराः क्षायिक सम्यक्त्वं, त्रिविधस्यापि दर्शनमोहनीयस्य भयेण-निर्मूलोच्छेदेन निवृत्तं क्षायिकं, असमर्थः-अनन्तानुबन्धिकषायचतुष्टयक्षयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वपुजलक्षणे त्रिविधेऽपि दर्शनमोहनीयकर्मणि सर्वथा क्षीणे क्षायिकं सम्यक्त्वं भवतीति, तथा मिथ्यात्वस्य-मिथ्यात्वमोहनीयकर्मण उदीर्णस्य क्ष्यादनुदीर्णस्य चोपशमात्सम्यक्त्वरूपतापत्तिलक्षणाद्विष्कम्भितोदयस्वरूपाच क्षायोपशमिकं सम्यक्त्वं व्यपदिशन्ति-कथयन्ति, इदमुक्तं भवति-यदुदीर्ण-उदयमागतं मिथ्यात्वं तद्विपाकोदयेन वेदितत्वात् क्षीणं-निर्जीर्ण, यच्च शेषं सत्तायामनुदयागतं वर्तते तदुपशान्तं, उपशान्तं नाम विष्कम्भितोदयमपनीतमिथ्यास्वभावं च, मिथ्यात्वमिश्रपुखावाश्रित्य विष्कम्भितोदयं शुद्धपुजमाश्रित्य पुनरपनीतमिथ्यात्वस्वभावमित्यर्थः, तदेवमुदीर्णस्य मिथ्यात्वस्य क्षयेण अनुदीर्णस्य चोपशमेन निवृत्तत्वात् त्रुटितरसं शुद्धपुजलक्षणं मिथ्यात्वमपि क्षायोपशमिकं सम्यक्त्वमुच्यते, शोधिता हि मिथ्यात्वपुद्गला अतिस्वच्छवस्त्रमिव दृष्टेयथाऽवस्थिततत्त्वरुच्यध्यवसायरूपस्य सम्यक्त्वस्यावारका न भवन्ति, अतस्तेऽप्युपचारतः सम्यक्त्वमुच्यन्ते इति ॥ ९४४ ॥ अथौपशमिकं सम्यक्त्वमाह-मिथ्यात्वस्य-मिथ्यात्वमोहनीयस्य कर्मणो य उपशमो-विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य भस्मच्छन्नवह्निवद्विष्कम्भणं तस्मात् 'उवसमय'ति प्राकृतशैल्या औपशमिकं तत्सम्यक्त्वं भणन्ति समयज्ञाः-सिद्धान्तवेदिनः, तत्पुनरुपशमश्रेण्यामौपपशमिकी श्रेणिमनुप्रविष्टस्य सतो जन्तोरनन्तानुबन्धिषु दर्शनत्रिके चोपशमं नीते भवति, किमुपशमश्रेणिगतस्यैवैतद्भवति ?, नेत्याह'आइमे'त्यादि, आदिमः-प्रथमोऽनादिमिथ्यादृष्टेः सतो जीवस्य योऽसौ सम्यक्त्वलाभस्तस्मिन् वा औपशमिकं सम्यक्त्वं भवति । इह खल्वनादिमिथ्यादृष्टिः कश्चिदायुर्वर्जसप्तकर्मप्रकृतिध्वनाभोगनिर्वर्तितेन यथाप्रवृत्तिकरणेन क्षपयित्वा प्रत्येकं पल्योपमासयेयभागन्यूनसागरोपमकोटीकोटिप्रमाणतां नीतासु अपूर्वकरणेन 'भन्नइ करणं तु परिणामों' इतिवचनादध्यवसायविशेषरूपेणातिप्रकृष्टघनरागद्वेषपरिणामजनितस्य वनाश्मवद् दुर्भेद्यस्य कर्मग्रन्र्भेदं विधायानिवृत्तिकरणं प्रविशति, तत्र च प्रतिसमयं विशुद्ध्यमानस्तान्येव कर्माणि निरन्तरं क्षपयन् उदीर्ण मिथ्यात्वं वेदयन् अनुदीर्णस्य तु तस्योपशमलक्षणमन्तर्मुहूर्त्तकालमानमन्तरकरणं प्रविशति, तस्य चायं विधिःयदुत अन्तरकरणस्थितेमध्याद्दलिकं गृहीत्वा प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति, एवं च प्रतिसमयं तावत्प्रक्षिपति यावदन्तरकरणदलिकं सकलमपि क्षीयते, अन्तर्मुहूर्तेन च कालेन सकलदलिकक्षयः, ततस्तस्मिन्ननिवृत्तिकरणेऽवसिते उदीर्णे च मिथ्यात्वेऽनुभवतः क्षीणे अनुदीर्णे च परिणामविशुद्धिविशेषतो विष्कम्भितोदये ऊपरदेशकल्पं मिथ्यात्वविवरमासाद्य औपशमिकं सम्यक्त्वमधिगच्छति, तस्मिंश्च स्थितः सत्तायां वर्तमानं मिथ्यात्वं विशोध्य पुजत्रयरूपेणावश्यं व्यवस्थापयति, यथा हि कश्चिन्मदनकोद्रवानौषधवशेन शोधयति, ते च शोध्यमानाः केचिच्छुद्ध्यन्ति केचिदर्धशुद्धा एव भवन्ति केचित्तेष्वपि सर्वथैव न शुद्ध्यन्ति, एवं जीवोऽप्यध्यवसायविशेषतो जिनवचनरुचिप्रतिबन्धकदुष्टरसोच्छेदकरणेन मिथ्यात्वं शोधयति, तदपि शोध्यमानं शुद्धमर्धशुद्धमशुद्धं च त्रिधा जायते, तत्र शुद्धपुजः सर्वज्ञधर्मे सम्यक्प्रतिपत्त्यप्रतिबन्धकत्वेनोपचारात् सम्यक्त्वपुञ्ज उच्यते, द्वितीयस्तु अर्धशुद्ध इति मिश्रपुज उच्यते, तदुदये तु जिनधर्मे औदासीन्यमेव भवति, अशुद्धस्त्वहंदादिषु मिथ्याप्रतिपत्तिजनकत्वान्मिथ्यात्वपुखोऽभिधीयते, तदेवमन्तरकरणेन अन्तर्मुहूर्तकालमौपशमिकसम्यक्त्वेऽनुभूते तदनन्तरं नियमादसौ क्षायोपशमिकसम्यग्दृष्टिर्मिश्रो मिथ्यादृष्टियं भवतीत्येष कार्मग्रन्थिकाभिप्रायः, सैद्धान्तिकाः पुनरयमनादिमिथ्यादृष्टिः कोऽपि ग्रन्थिभेदं विधाय तथाविधतीव्रपरिणामोपेतत्वेनापूर्वकरणमुपारूढः सन्मिथ्यात्वं त्रिपुजीकरोति 'अपुव्येण तिपुंजं मिच्छत्तं कुणइ कोद्दवोवमया।' इति वचनात् , ततोऽनिवृत्तिकरणसामर्थ्याच्छुद्धपुजपुद्गलान् वेदयन्नौपशमिकं सम्यक्त्वमलब्ध्वैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति, अन्यस्तु यथाप्रवृत्त्यादिकरणत्रयक्रमेणान्तरकरणे औपशमिकं सम्यक्त्वं लभते, पुंजत्रयं त्वसौ न करोत्येव, ततश्चौपशमिकसम्यक्त्वाच्युतोऽवश्यं मिथ्यात्वमेव गच्छतीति । नन्वौपशमिकसम्यक्त्वस्य क्षायोपशमिकसम्यक्त्वात्को विशेषः?, उभयत्रापि ह्यविशेषेणोदितं मिथ्यात्वं क्षीणं अनुदितं चोपशान्तमिति, उच्यते, अस्ति विशेषः, क्षायोपशमिके हि सम्यक्त्वे मिथ्यात्वस्य प्रदेशानुभवोऽस्ति, न त्वौपशमिके सम्यक्त्वे इति, अन्ये तु व्याचक्षते-श्रेणिमध्यवर्तिन्येवौपशमिके सम्यक्त्वे प्रदेशानुभवो नास्ति, न तु द्वितीये, तथापि तत्र सम्यक्त्वाण्वनुभवाभाव एव विशेष इति ॥ ९४५ ॥ इदानीं कारकरोचकदीपकसम्यक्त्वानि क्रमेणाह-विहितस्य-आगमोक्तस्य यदनुष्ठानं-करणं तदिह-सम्यक्त्वविचारे कारकं सम्यक्त्वं, अयमर्थः-यद्नुष्ठानं यथा सूत्रे भणितं तद् यस्मिन् सम्यक्त्वे परमविशुद्धिरूपे सति देशकालसंहननानुरूपशक्त्यनिगृहनेन तथैव करोति तत् सदनुष्ठानं कारयतीति कारकमुच्यते, एतच्च साधूनां द्रष्टव्यं, तथा श्रद्धानमात्रं रोचकं सम्यक्त्वं, इदमुक्तं भवति-यत्सम्यक्त्वं सदनुष्ठानं रोचयत्येव केवलं न पुनः कारयति तद्रोचयति तथाविधविशुद्धिभावाद्विहितानुष्टानं इति रोचकं, यथा श्रेणिकादीनां, तथा यः स्वयमिह मिथ्यादृष्टिरभव्यो वा कश्चिदङ्गार.
188

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310