Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 279
________________ स्त्रियो भवन्ति, स्तनवजणि शेषाणि नव पुरुषस्य, एतच मनुजगतिमाश्रित्य प्रोक्तं, तिर्यग्गतौ तु अजादीनां द्विस्तनीनामेकादश भोत्राणि, गवादीनां चतुःस्तनीनां त्रयोदश, सूकर्यादीनामष्टस्वनीनां सप्तदश, निर्व्याघाते एवं व्याघाते पुनरेकस्तन्या अजाया दश, त्रिस्तन्याश्च गोर्द्वादशेति, इत्येवमस्ध्यादिसंघातरूपे शरीरे किं नाम स्वरूपतः शुचित्वं १, न किश्विदित्यर्थः ॥ २४८ ॥ ८३ ॥ इदानीं 'सम्म ताईणुत्तमगुणाण लाहंतरं तु उक्कोसं' इत्येकोनपञ्चाशदधिकद्विशततमं द्वारमाह— सम्मत्तंमय लद्धे पलियपुहुत्तेण सावओ होइ । चरणोवसमखयाणं सायरसंखंतरा हुंति ॥ ८४ ॥ यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात्पल्योपमपृथक्त्वलक्षणे स्थितिखण्डे क्षपिते श्रावको - देशविरतो भवेत्, ततश्चरणोपशमक्षयाणामन्तरा संख्यातानि सागरोपमाणि भवन्ति, इयमत्र भावना - देशविरतिप्राप्त्यनन्तरं संख्यातेषु सागरोपमेषु क्षपितेषु चारित्र'मवाप्नोति, ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषूपशमश्रेणि प्रतिपद्यते, ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषु क्षपकश्रेणिर्भवति, ततस्तद्भवे मोक्ष इति एवमप्रतिपतितसम्यक्त्वस्य देवमनुष्यजन्मसु संसरणं कुर्वतोऽन्योऽन्यमनुष्यभवे देशविरत्यादिलाभो भवति, यदिवा तीव्र शुभ परिणामवशात्क्षपित बहुकर्मस्थितेरेकस्मिन्नपि भवेऽन्यतरश्रेणिवर्ज्यान्येतानि सर्वाण्यपि भवन्ति, श्रेणिद्वयं त्वेकस्मिन् भवे सैद्धान्तिकाभिप्रायेण न भवत्येव, किंत्वेकैवोपशमश्रेणिः क्षपकश्रेणिर्वा भवतीति, उक्तं च - " एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु । अन्नयरसेढिवज्जं एगभवेणं च सव्वाई || १ || ” [ एवमप्रतिपतिते सम्यक्त्वे देवमनुजजन्मसु अन्यतरश्रेणिवर्जानि एकभवेनैव सर्वाणि ॥ १ ॥ ] ।। २४९ ।। ८४ ।। इदानीं 'न लहंति माणुसत्तं सत्ता जेऽणंतरुबट्ट'ति पञ्चाशदधिकद्विशततमं द्वारमाहसत्तममहिनेरइया तेऊ वाऊ अनंतरुवद्वा । न लहंति माणुसत्तं तहा असंखाउया सबे ॥ ८५ ॥ सप्तमंपृथिवीनैरयिकास्तैजसकायिक्त वायुकायिकास्तथा असङ्ख्यातवर्षायुषः सर्वे तिर्यङ्मनुष्याश्चानन्तरमुद्धृता मानुष्यं न लभन्ते, 'मृत्वाऽनन्तरभवे मनुजेषु नोत्पद्यन्ते इत्यर्थः, शेषास्तु सुरनरतिर्यमारका नरेषूत्पद्यन्ते ॥ २५० ॥ ८५ ॥ इदानीं 'पुबंगपरिमाणं' ति एकपञ्चाशदधिकद्विशततमं द्वारमाह वरिसाणं लक्खेहिं चुलसीसंखेहिं होइ पुवंगं । एयं चिय एयगुणं जायह पुवं तयं तु इमं ॥ ८६ ॥ वर्षाणां लक्ष्क्षैश्चतुरशीतिसङ्ख्यैर्भवति पूर्वाङ्ग – पूर्वाख्यस्य सङ्ख्याविशेषस्य कारणं, अनेनैवैतद्गुणेन तस्य जायमानत्वात्, तथा चाह'एयं चिय' इत्यादि, एतदेव - पूर्वाङ्गं चतुरशीतिवर्षलक्षलक्षणं एतद्गुणं चतुरशीतिलक्षैर्गुणितं सखायते पूर्व, तत्पुनरिदं - अनन्तरद्वारे वक्ष्यमाणस्वरूपमिति ॥ २५१ ॥ ८६ ॥ साम्प्रतं 'माणं पुबस्स' त्ति द्विपञ्चाशदधिकद्विशततमं द्वारमाह पुचस्स उपरिमाणं सयरिं खलु वासकोडिलक्खाओ । छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं ॥ १ ॥ ८७ ॥ पूर्वाभिधानस्य सङ्ख्याविशेषस्य परिमाणं वर्षकोटीनां सप्ततिः कोटिर्लक्षाः षट्पश्वाशत् सहस्राणि, ७०५६०००००००००० । ॥ २५२ ॥ ८७ ॥ इदानीं 'लवणसिहमाणं' ति त्रिपञ्चाशदधिकद्विशततमं द्वारमाहदसजोयणाण सहसा लवणसिहा चक्कवालओ रुंदा । सोलससहस्स उच्चा सहस्समेगं तु ओगाढा ॥ २ ॥ ८८ ॥ लवणसमुद्रे योजनलक्षद्वयविष्कम्भे मध्यमेषु दशसु योजनसहस्रेषु नगरप्राकार इव जलमूर्ध्व गतं, तस्योत्सेधवृद्धिः शिखेव शिखा, ततो लवणस्य शिखा लवणशिखा, सा दशयोजनानां सहस्राणि चक्रवालतो रुन्द्रा - रथचक्रवद्विस्तीर्णा, भूतलसमजलपट्टादूर्ध्व षोडशयोजनस• हस्राण्युच्चा एकं तु सहस्रमधोऽवगाढा, इयमंत्र भावना - लवणसमुद्रे जम्बूद्वीपाद्धातकीखण्डद्वीपाच्च प्रत्येकं पश्वनवतिपश्वनवतियोजनसहत्राणि गोतीर्थ, गोतीर्थ नाम तडागादिष्विक प्रवेशमार्गरूपो नीचों नीचतरो भूप्रवेशो, गोतीर्थमिव गोतीर्थमिति व्युत्पत्तेः, मध्यभागावगाहस्तु दशयोजनसहस्रप्रमाणविस्तारः, गोतीर्थं च जम्बूद्वीपवेदिकान्तसमीपे घातकीखण्डवेदिकान्तसमीपे चाकुलासवेयभागः ततः परं समतलाद् भूभागादारभ्य क्रमेण प्रदेशहान्या तावत्रीचत्वं नीचतस्त्वं परिभावनीयं यावत्पश्वनवतियोजनसहस्राणि पश्वनवतियोजनसहस्रपर्यन्ते च समतल भूभागमपेक्ष्य उण्डत्वं योजनसहस्रमेकं तथा जम्बूद्वीपवेदिकातो धातकीखण्डद्वीपवेदिकातच समतले भूभागे प्रथमतो जलवृद्धिरसोयभागः, ततः समतल भूभागमेवाधिकृत्य प्रदेशवृद्ध्या जलराशिः क्रमेण परिवर्धमानः परिवर्धमानः तावत्परिभावनीय यावदुभयतोऽपि पञ्चनवतियोजनसहस्राणि पञ्चनवतियोजनसहस्रपर्यन्ते चोभयतोऽपि समभूभागमपेक्ष्य जलवृद्धिः सप्त योजनशतानि, किमुक्तं भवति ? -तत्र प्रदेशे समभूभागमपेक्ष्यावगाहो योजनसहस्रं, तदुपरि जलवृद्धिः सप्त योजनशतानीति, ततः परं मध्ये भूभागे दशयोजनसहस्रविस्तारेऽवगाहो योजनसहस्रं जलवृद्धिः षोडश योजनांसहस्राणि, पातालकलशगतवायुक्षोभे च तेषामुपरि अहोरात्रमध्ये द्वौ वारौ किचिन्न्यूने द्वे गव्यूते उदकमतिरेकेण परिवर्धते पातालकलशगतवायूपशान्तौ च हीयते ॥ २५३ ॥ ८८ ॥ इदानीं 'उस्सेहंगुलआयंगुलपमाणंगुलपमाणं' ति चतुःपञ्चाशदधिकद्विशततमं द्वारमाह उस्सेहंगुल १ मायंगुलं च २ तइयं पमाणनामं च ३ । इय तिनि अंगुलाई वावारिज्जति समयमि ॥ ८९ ॥ सत्थेण सुतिक्खेणवि छेत्तुं भेत्तुं च जं किर न सका । तं परमाणु सिद्धा वयंति आई पमाणानं ॥ ९० ॥ परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जयो अगुणविवडिया कमसो ॥ ९१ ॥ वीसंपरमाणुलक्खा ससानउई भवे सहस्साई । सयमेगं 270

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310