Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 282
________________ ॥ ९९ ॥ तिरिय पवित्थरमाणो आवरयंतो सूरालयचउकं । पंचमकप्पे रिलुमि पत्थडे घउदिसिं मिलिओ ॥ १४०० ॥ हेहा मल्लयमूलट्टिइटिओ उवरि बंभलोयं जा । कुछुडपंजरगागारसंठिओ सो तमकाओ॥१॥ दुविहो से विखंभो संखेनो अस्थि तह असंखेजो। पढमंमिवि विखंभो संखेजा जोयणसहस्सा ॥२॥ परिहीऍ ते असंखा बीए विकूखंभपरिहिजोएहिं । हुँति असं खसहस्सा नवरमिमं होइ वित्थारो॥३॥ जम्बूद्वीपादसयतमो योऽसावरुणवरसमुद्रस्तमाश्रित्य द्विचत्वारिंशद्योजनसहस्राणि जगत्या जलं विलय समश्रेण्या-सममित्तितया एकविंशत्यधिकानि सप्तदश योजनशतानि यावद्वलयाकारस्तमोरूपो. देवानामपि तत्रोद्योताभावेन महान्धकारात्मकत्वादप्काय उल्लसितः, अयमर्थ:-एतस्माजम्बूद्वीपात्तिर्यगसङ्ख्यातद्वीपसमुद्रान् व्यतिक्रम्यारुणवरनामा द्वीपः समस्ति, तद्वेदिकापर्यन्ताद् द्विचत्वारिंशद्योजनसहस्राण्यरुणवरं समुद्रमवगायात्रान्तरे जलोपरितनतलादूर्ध्वमेकविंशत्युत्तराणि सप्तदश योजनशतानि यावत्सममित्याकारतया गत्वा वलयाकृतिरप्कायमयो महान्धकाररूपस्तमस्कायः समुल्लसित इति, अयं च तिर्यक्प्रविस्तरन् सुरालयचतुष्कं-सौधर्मेशानसनत्कुमारमाहे. न्द्ररूपं देवलोकचतुष्टयमावृण्वन्-आच्छादयन्नूर्व तावद्गतो यावत् पञ्चमे ब्रह्मलोकनामके कल्पे तृतीयेऽरिष्ठविमानप्रस्तटे चतसृष्वपि दिक्षु मिलित इति ॥ ९८ ॥ ९९ ॥ १०॥ अथ तमस्कायस्य संस्थानमाह-हेतु' त्यावि, अधस्ताद्-अधोभागे मल्लकमूलस्थितिस्थितो-मल्लक-शरावं तस्य मूलं-बुनं तस्य स्थिति:-संस्थानं तया स्थितो-ज्यवस्थितः, शरावबुनाकार इति भावः, उपरिष्टाच ब्रह्मलोकं यावत् कुर्कुटपञ्जरकाकारसंस्थितः सः-पूर्वोक्तस्वरूपस्तमस्कायो भवति, तमसां-तमिस्रपुद्गलानां कायो-राशिस्तमस्काय इति ॥ १॥ अथास्य तमस्कायस्य विष्कम्भं परिधि च प्राह-दुविहों इत्यादिगाथाद्वयं, द्विविधो-द्विप्रकारः 'सेति तस्य तमस्कायस्य विष्कम्भो-विस्तारो भवति-समावस्तथा असङ्ख्यातच, तत्र प्रथमे विष्कम्भे आदित आरभ्य ऊर्ध्व सोययोजनानि यावत्सोया योजनसहस्राः प्रमाणतो भवन्ति, परिषौ-परिक्षेपे पुनस्त एव योजनसहस्रा असङ्ख्याताः, अधस्तमस्कायस्य सङ्ख्यातयोजनविस्तृतत्वेऽप्यसमाततमद्वीपपरिक्षेपतो बृहत्तरत्वात्तत्परिक्षेपस्यासङ्ख्यातयोजनसहस्रप्रमाणत्वमविरुद्धं, आन्तरबहिःपरिक्षेपविभागस्तु नोक्तः, उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति। तथा द्वितीये विष्कम्भे विष्कम्भपरिधियोगाभ्यां-विष्कम्भेन परिधिना च प्रत्येकमसङ्ख्याता योजनसहस्रा भवन्ति, नवरं-केवलमिदमत्रासयातयोजनसहस्ररूपं प्रमाणं विस्तारे भवति, वलयाकारादूर्ध्व यदाऽसौ तमस्कायः क्रमेण विस्तरति तदानीमिदं प्रमाणमवसेयमिति भावः, अस्य च तमस्कायस्य महत्त्वमित्थमागमविदः प्रवेदयन्ति, यथा-यो देवो महर्द्धिको यया गत्या तिसृभिश्चपुटिकाभिरेकविंशतिवारान् सकलं जम्बूद्वीपमनुपरिवृत्त्यागच्छेत् स एव देवस्तयैव गत्या पङ्किरपि मासैः सङ्ख्यातयोजनविस्तारमेव समस्कायं व्यतिव्रजेत् नेतरमिति, यदा च कश्चिदेवः परदेव्यासेवाहेवाकपररत्नापहारादिभिरपराधमाधत्ते तदा बलवदेवभयात् प्रपलाय्य देवानामपि भूरिभयाविर्भावकत्वेन गमनविघातहेतौ तस्मिंस्तमस्काये निलीयत इति ॥२५५॥२॥।॥ सम्प्रति 'अणंतछकं'ति षट्पञ्चाशदधिकद्विशततमं द्वारमाह - सिद्धा १ निगोयजीवा २ वणस्सई ३ काल ४ पोग्गला ५ चेव । सबमलोगागासं ६ छप्पेएऽणं. तया नेया ॥४॥ __ सर्व एव सिद्धा:-अपगतसकलकर्मकलंकाः तथा सर्वेऽपि सूक्ष्मबादरभेदभिन्ना निगोदजीवा-अनन्तकायिकजन्तवः तथा सर्वे वनस्पतयः-प्रत्येकानन्तवनस्पतिजीवाः काल इति-सर्वेऽतीतानागतवर्तमानसमयाः सर्वे पुला:-समस्तपुद्गलास्तिकायगताः परमाणवः तथा सर्व-समस्तमलोकाकाशं, अयं च सर्वशब्दः प्रत्येकं लिङ्गवचनपरिणामेन सर्वत्र संबन्धनीयः, सच तथैव संबन्धितः, एते-प्रदर्शितखरूपाः षडपि राशयोऽनन्तका शेयाः ॥ २५६ ॥४॥ इदानीं 'अडंगनिमित्ताणं'ति सप्तपञ्चाशदधिकद्विशततमं द्वारमाह अंगं १ सुविणं २ च सरं ३ उपायं ४ अंतरिक्ख ५ भोमं च ६ । वंजण ७ लक्खण ८ मेव य अपयारं इह निमित्तं ॥५॥ अंगप्फुरणाईहिं सुहासुहं जमिह भन्नइ तमंग १ तह सुसुमिणयदुस्सुमिणएहिं जं सुमिणयंति तयं २॥६॥ इमणिहूं जं सरविसेसओ तं सरंति विनेयं । रुहिरवरिसाइ जंमि जायइ भन्नइ तमुप्पायं ४ ॥७॥ गहवेहभूयअट्टहासपमुहं जमंतरिक्खं तं ५। भोमं च भूमिकंपाइएहिं नज्ज वियारेहिं ६॥८॥ इह पंजणं मसाई ७ लंछणपमुहं तु . लक्खणं भणियं ८। सुहअसुहसूयगाई अंगाईयाइं अट्ठावि ॥९॥ अङ्गं स्वप्नः स्वर उत्पात आन्तरिक्षं भौम व्यजनं लक्षणं चेत्येवमष्टप्रकारं-अष्टविधमिह-शाने निमित्तं भवति, अतीतानागतवर्वमानानामतीन्द्रियभावानामधिगमे निमित्तं-हेतुर्यद्वस्तुजातं तन्निमित्तं, सूत्रे स्वप्नादिपदेषु प्राकृतत्वानपुंसकत्वमिति ॥ ५॥ साम्प्रतमष्टप्रकारमपि निमित्तं क्रमेण व्याख्यातुमाह-'अंगे'यादिगाथाचतुष्क, अङ्गस्फुरणादिभिः-शरीरावयवस्पन्दप्रमाणादिभिर्यदिह वर्तमानमतीतमना. गतं वा शुभं वा-प्रशस्तमशुभं वा-अप्रशस्तं अन्यस्मै कथ्यते तद्भण्यतेऽङ्गामं निमित्तं, यथा-"दक्षिणपार्श्वे स्पन्दनमभिधास्ये तत्फलं त्रिया वामे । पृथिवीलाभः शिरसि स्थानविवृद्धिर्ललाटे स्यात् ॥१॥” इत्यादि, तथा सुस्वप्नदुःस्वप्नाभ्यां यत्कथ्यते शुभाशुभं तत्स्वप्राख्यं निमित्तं, यथा-"देवेज्यात्मजबान्धवोत्सवगुरुच्छत्राम्बुजप्रेक्षणं, प्राकारद्विरदाम्बुदद्रुमगिरिप्रासादसंरोहणम् । अम्भोधेस्तरणं सुरा 273 .

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310