Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
पुरुषा:-चक्रवर्तिवासुदेवादयो यस्मिन् युगे-सुषमदुष्षमादिकाले निजाङ्गुलेनैवाष्टोत्तरं शतमकुलानामुच्छ्रिता-उच्चा भवन्ति तेषां च स्वकीयाकुलेनाष्टोत्तरानुलशतोचानां पुरुषाणां यग्निजं-आत्मीयमङ्गलं तत्पुनरात्माकुलं भवति, इह च ये यस्मिन् काले प्रमाणयुक्ताः पुरुषा भवन्ति तेषां संबन्धी आत्मा गृह्यते तत आत्मनोऽङ्गुलमात्माङ्गुलं ॥९४॥ इदं च पुरुषाणां कालादिभेदेनानवस्थितमानत्वादनियतप्रमाणं द्रष्टव्यं । 'जे पुणे' त्यादि, ये पुनः पुरुषा एतस्मादष्टोत्तराङ्गुलशतलक्षणात्प्रमाणान्यूनाः समधिका वा तेषां संबन्धि यदलमेतदात्माजलं न भण्यते, किंतु तदाभासमेव-आत्माङ्गुलाभासमेव, परमार्थत आत्माङ्गुलं तन्न भवतीत्यर्थः, लक्षणशास्त्रोक्तस्वरादिशेषलक्षणवैकल्यसहायं च यथोक्तप्रमाणाधीनाधिक्यमिह प्रतिषिद्धं न केवलमिति संभाव्यते, भरतचक्रवादीनां स्वाङ्गुलतो विंशत्यधिकाङ्गुलशतमानानामप्यत्र निर्णीतत्वान्महावीरादीनां च केषाञ्चिन्मतेन चतुरशीत्याद्यनुलप्रमाणत्वादिति ॥ ९५ ॥ साम्प्रतं क्रमसंप्राप्तं प्रमाणाकुलमाह'उस्सेहंगुले' त्यादि, उत्सेधाडलं-अनन्तरोक्तस्वरूपं सहस्रगुणं सदेकं प्रमाणाङ्गुलं भवति, परमं-प्रकर्षरूपं प्रमाणं प्राप्तमङ्गुलं प्रमाणाकुलं, नातः परं बृहत्तरमङ्गुलमस्तीति भावः, यदिवा समस्तलोकव्यवहारराज्यादि स्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतचक्रवर्ती वा तस्य प्रमाणभूतपुरुषस्याङ्गलं प्रमाणाडलं, तच्च भरतचक्रवर्तिन आत्मांगुलं, तदा आत्माकुलस्य प्रमाणाकुलस्य च तुल्यत्वात् , ननु यदि भरतचक्रिणः संबन्ध्यनुलं प्रमाणाङ्गुलमित्युच्यते एवं सत्युत्सेधाकुलात्प्रमाणाकुलं चतुःशतगुणमेव स्यात् , न सहस्रगुणं, तथाहि-भरतचक्रवर्ती आत्मीयाङ्गुलेन किल विंशं शतमङ्गुलानामनुयोगद्वारचूादिषु निर्णीतः, उत्सेधाजुलेन तु पञ्चधनुःशतमानत्वात् प्रतिधनुश्च षष्णवत्यङ्गुलसद्भावादष्टचत्वारिंशत्सहस्राण्यङ्गलानामसौ संपद्यते, एवं च सत्येकस्मिन् प्रमाणाङ्कले उत्सेधाकुलानां चत्वार्येव शतानि भवन्ति, विंशत्यधिकशतेन प्रमाणाङ्गलानामष्टचत्वारिंशत्सहस्रसंख्यस्योत्सेधाजलराशेर्भागापहारे एतावत एव लाभात्, ततश्चैवं भरतसंबन्ध्यङ्गुललक्षणं प्रमाणाकुलमुत्सेधाकुलाच्चतुःशतगुणमेव स्यात् न सहस्रगुणमिति, सत्यमुक्तं, किंतु प्रमाणाङ्गलस्यार्धतृतीयोत्सेधालरूपं पृथुत्वमस्ति, ततो यदा वकीयपृथुत्वेन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाकुलाप्रमाणामुलं चतुःशतगुणमेव भवति, यदा त्वर्धतृतीयोत्सेधाङ्गुललक्षणेन विष्कम्भेण शतचतुष्टयलक्षणं प्रमाणाङ्गुलदैर्ध्य गुण्यते तदोत्सेधालविष्कम्भा सहस्राङ्गुलदीर्घा च प्रमाणाङ्गुलसूचिर्जायते, "इदमुक्तं भवति-अर्धतृतीयोत्सेधाकुलविष्कम्भे प्रमाणाकुले तिस्रः श्रेणयः कल्प्यन्ते, प्रथमा उत्सेधाङ्गुलेनैकाङ्गुलविष्कम्भा शतचतुष्टयदीर्घा द्वितीयापि तावन्मानैव तृतीयापि दैर्येण चतुःशतमानैव विष्कम्भतस्त्वर्धाङ्गुलप्रमाणा, ततश्चैतस्या दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः संपाद्यते, तथा च सत्यकुलशतद्वयदीर्घा अङ्गुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलेनाकुलसहस्रदीर्घा अङ्गुलविष्कम्भा प्रमाणाङ्गुलस्य सूचिः सिद्धा भवति, तत इमां सूचिमधिकृत्य उत्सेधाजलात्प्रमाणाङ्गलं सहस्रगुणदीर्घमुक्त, वस्तुतस्तु चतुःशतगुणदीर्घमेव, अत एव पृथ्वीपर्वतद्वीपपयोराशिविमानादिमानान्यनेनैव चतुःशतगुणेनार्धतृतीयाकुललक्षणस्वविष्कम्भान्वितेनानीयन्ते न तु सहस्रगुणया अगुलविष्कम्भया सूच्या इति तावद् वृद्धसम्प्रदायादवगतं, तत्त्वं तु केवलिनो विदन्तीति । तथा तदेवोत्सेधाडलं द्विगुणं सद् वीरस्य भगवतोऽपश्चिमतीर्थकृत एकमात्माकुलं भणितं पूर्वाचायः, वर्धमानस्वामी हि भगवान् आदेशान्तरादात्माङ्गलेन चतुरशीतिरङ्गुलानि, उत्सेधाङ्गलतस्तु सप्तहस्तमानत्वादृष्टषष्ट्याधिकं शतं, तथा चानुयोगद्वारचूर्णिः-"वीरो आएसंतरओ आयंगुलेण चुलसीइअंगुलमुग्विद्धो उत्सेइंगुलओ सयमट्ठसर्ट हवई' इति, ततो द्वे उत्सेधाङले वीरस्यैकमात्माइलं भवति, अत्र च मतान्तराण्यधिकृत्य बह वक्तव्यं तच नोच्यते प्रन्थगौरवभयात् । इदं च त्रिविधमप्यङ्गुलं पुनः प्रत्येकं त्रिधा भवति, तद्यथा-सूच्यालं प्रतराखलं घनाङ्गलं च, तत्र देयेणाकुलायता बाहल्यतस्त्वेकप्रादेशिकी नमःप्रदेशश्रेणिः सूच्यङ्गुलमुच्यते, एतच सद्भावतोऽसंख्येयप्रदेशमप्यसत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्न द्रष्टव्यं, स्थापमा चेयं ०००, सूची सूच्यैव गुणिता प्रतराजलं, इदमपि परमार्थतोऽसंख्येयप्रदेशात्मकं असद्भावतस्त्वेषेवानन्तरदर्शिता त्रिप्रदेशात्मिका सूचिः तयैव गुण्यते, अतः प्रत्येक प्रदेशत्रयनिष्पमसूचीत्रयात्मकं नवप्रदेशसंख्यं संपद्यते, स्थापना चेयं , प्रतरश्च सूच्या गुणितो दैर्घ्य विष्कम्भबाहल्येषु समसंख्यं घनाङ्गलं भवति, दैर्ध्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्यया घनस्येह रूढत्वात् , प्रतराङ्गुलं तु दैर्घ्य विष्कम्भाभ्यामेव प्रदेशैः समं पिण्डतस्तस्य तत्रैकप्रदेशमात्रत्वादिति भावः, इदमपि सद्भावतो दैर्घ्य विष्कम्यबाहल्येषु प्रत्येकमसंख्येयमानमसत्प्ररूपणया तु सप्तविंशतिप्रदेशात्मक, पूर्वोक्तत्रिपदेशात्मकसूच्याऽनन्तरप्रदर्शिते नवप्रदेशात्मके प्रतरे गुणिते एतावतामेव प्रदेशानां भावात् , एषां च स्थापनानन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान् दत्त्वा भावनीया, तथा च सत्यायामविष्कम्भपिण्डैस्तुल्यविषयमापद्यत इति ॥ ९६ ॥ अथ येनाङ्गुलेन यन्मीयते तदाह-'आय' मियादि, आत्माङ्गुलेन वास्तु मिमीष्व, तच्च वास्तु त्रिधा खातमुच्छ्रितमुभयं च, तत्र खातं-कूपभूमिगृहतडागादि उच्छ्रितं-धवलगृहादि उभयं-भूमिगृहादियुक्तं धवलगृहादि, तथा देहं-देवादीनां शरीरमुत्सेधप्रमाणत:-उत्सेधाडलेन मिमीऽव, प्रमाणाङलेन पुनर्नगपृथ्वीविमानादीनि मिमीष्व तत्र नगा-मेर्वाद्याः पृथिव्यो-धर्माद्याः विमानानि-सौधर्मावतंसकादीनि, आदिशब्दाद्भवननरकावासद्वीपसमुद्राद्यपि प्रमाणाङ्गुलेन मिमीष्वेति २५४ ॥ ९७ ॥ इदानीं 'तमकायसरूवंति पञ्चपञ्चाशदधिकद्विशततमं द्वारमाह
जंबूदीवाउ असंखेजइमा अरुणवरसमुहाओ। बायालीससहस्से जगईउ जलं विलंघेउं ॥९८॥ समसेणीए सतरस एकवीसाइं जोयणसयाई । उल्लसिओ तमरूवो वलयागारो अउकाओ
272

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310