________________
॥ ९९ ॥ तिरिय पवित्थरमाणो आवरयंतो सूरालयचउकं । पंचमकप्पे रिलुमि पत्थडे घउदिसिं मिलिओ ॥ १४०० ॥ हेहा मल्लयमूलट्टिइटिओ उवरि बंभलोयं जा । कुछुडपंजरगागारसंठिओ सो तमकाओ॥१॥ दुविहो से विखंभो संखेनो अस्थि तह असंखेजो। पढमंमिवि विखंभो संखेजा जोयणसहस्सा ॥२॥ परिहीऍ ते असंखा बीए विकूखंभपरिहिजोएहिं । हुँति असं
खसहस्सा नवरमिमं होइ वित्थारो॥३॥ जम्बूद्वीपादसयतमो योऽसावरुणवरसमुद्रस्तमाश्रित्य द्विचत्वारिंशद्योजनसहस्राणि जगत्या जलं विलय समश्रेण्या-सममित्तितया एकविंशत्यधिकानि सप्तदश योजनशतानि यावद्वलयाकारस्तमोरूपो. देवानामपि तत्रोद्योताभावेन महान्धकारात्मकत्वादप्काय उल्लसितः, अयमर्थ:-एतस्माजम्बूद्वीपात्तिर्यगसङ्ख्यातद्वीपसमुद्रान् व्यतिक्रम्यारुणवरनामा द्वीपः समस्ति, तद्वेदिकापर्यन्ताद् द्विचत्वारिंशद्योजनसहस्राण्यरुणवरं समुद्रमवगायात्रान्तरे जलोपरितनतलादूर्ध्वमेकविंशत्युत्तराणि सप्तदश योजनशतानि यावत्सममित्याकारतया गत्वा वलयाकृतिरप्कायमयो महान्धकाररूपस्तमस्कायः समुल्लसित इति, अयं च तिर्यक्प्रविस्तरन् सुरालयचतुष्कं-सौधर्मेशानसनत्कुमारमाहे. न्द्ररूपं देवलोकचतुष्टयमावृण्वन्-आच्छादयन्नूर्व तावद्गतो यावत् पञ्चमे ब्रह्मलोकनामके कल्पे तृतीयेऽरिष्ठविमानप्रस्तटे चतसृष्वपि दिक्षु मिलित इति ॥ ९८ ॥ ९९ ॥ १०॥ अथ तमस्कायस्य संस्थानमाह-हेतु' त्यावि, अधस्ताद्-अधोभागे मल्लकमूलस्थितिस्थितो-मल्लक-शरावं तस्य मूलं-बुनं तस्य स्थिति:-संस्थानं तया स्थितो-ज्यवस्थितः, शरावबुनाकार इति भावः, उपरिष्टाच ब्रह्मलोकं यावत् कुर्कुटपञ्जरकाकारसंस्थितः सः-पूर्वोक्तस्वरूपस्तमस्कायो भवति, तमसां-तमिस्रपुद्गलानां कायो-राशिस्तमस्काय इति ॥ १॥ अथास्य तमस्कायस्य विष्कम्भं परिधि च प्राह-दुविहों इत्यादिगाथाद्वयं, द्विविधो-द्विप्रकारः 'सेति तस्य तमस्कायस्य विष्कम्भो-विस्तारो भवति-समावस्तथा असङ्ख्यातच, तत्र प्रथमे विष्कम्भे आदित आरभ्य ऊर्ध्व सोययोजनानि यावत्सोया योजनसहस्राः प्रमाणतो भवन्ति, परिषौ-परिक्षेपे पुनस्त एव योजनसहस्रा असङ्ख्याताः, अधस्तमस्कायस्य सङ्ख्यातयोजनविस्तृतत्वेऽप्यसमाततमद्वीपपरिक्षेपतो बृहत्तरत्वात्तत्परिक्षेपस्यासङ्ख्यातयोजनसहस्रप्रमाणत्वमविरुद्धं, आन्तरबहिःपरिक्षेपविभागस्तु नोक्तः, उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति। तथा द्वितीये विष्कम्भे विष्कम्भपरिधियोगाभ्यां-विष्कम्भेन परिधिना च प्रत्येकमसङ्ख्याता योजनसहस्रा भवन्ति, नवरं-केवलमिदमत्रासयातयोजनसहस्ररूपं प्रमाणं विस्तारे भवति, वलयाकारादूर्ध्व यदाऽसौ तमस्कायः क्रमेण विस्तरति तदानीमिदं प्रमाणमवसेयमिति भावः, अस्य च तमस्कायस्य महत्त्वमित्थमागमविदः प्रवेदयन्ति, यथा-यो देवो महर्द्धिको यया गत्या तिसृभिश्चपुटिकाभिरेकविंशतिवारान् सकलं जम्बूद्वीपमनुपरिवृत्त्यागच्छेत् स एव देवस्तयैव गत्या पङ्किरपि मासैः सङ्ख्यातयोजनविस्तारमेव समस्कायं व्यतिव्रजेत् नेतरमिति, यदा च कश्चिदेवः परदेव्यासेवाहेवाकपररत्नापहारादिभिरपराधमाधत्ते तदा बलवदेवभयात् प्रपलाय्य देवानामपि भूरिभयाविर्भावकत्वेन गमनविघातहेतौ तस्मिंस्तमस्काये निलीयत इति ॥२५५॥२॥।॥ सम्प्रति 'अणंतछकं'ति षट्पञ्चाशदधिकद्विशततमं द्वारमाह
- सिद्धा १ निगोयजीवा २ वणस्सई ३ काल ४ पोग्गला ५ चेव । सबमलोगागासं ६ छप्पेएऽणं. तया नेया ॥४॥ __ सर्व एव सिद्धा:-अपगतसकलकर्मकलंकाः तथा सर्वेऽपि सूक्ष्मबादरभेदभिन्ना निगोदजीवा-अनन्तकायिकजन्तवः तथा सर्वे वनस्पतयः-प्रत्येकानन्तवनस्पतिजीवाः काल इति-सर्वेऽतीतानागतवर्तमानसमयाः सर्वे पुला:-समस्तपुद्गलास्तिकायगताः परमाणवः तथा सर्व-समस्तमलोकाकाशं, अयं च सर्वशब्दः प्रत्येकं लिङ्गवचनपरिणामेन सर्वत्र संबन्धनीयः, सच तथैव संबन्धितः, एते-प्रदर्शितखरूपाः षडपि राशयोऽनन्तका शेयाः ॥ २५६ ॥४॥ इदानीं 'अडंगनिमित्ताणं'ति सप्तपञ्चाशदधिकद्विशततमं द्वारमाह
अंगं १ सुविणं २ च सरं ३ उपायं ४ अंतरिक्ख ५ भोमं च ६ । वंजण ७ लक्खण ८ मेव य अपयारं इह निमित्तं ॥५॥ अंगप्फुरणाईहिं सुहासुहं जमिह भन्नइ तमंग १ तह सुसुमिणयदुस्सुमिणएहिं जं सुमिणयंति तयं २॥६॥ इमणिहूं जं सरविसेसओ तं सरंति विनेयं । रुहिरवरिसाइ जंमि जायइ भन्नइ तमुप्पायं ४ ॥७॥ गहवेहभूयअट्टहासपमुहं जमंतरिक्खं
तं ५। भोमं च भूमिकंपाइएहिं नज्ज वियारेहिं ६॥८॥ इह पंजणं मसाई ७ लंछणपमुहं तु . लक्खणं भणियं ८। सुहअसुहसूयगाई अंगाईयाइं अट्ठावि ॥९॥
अङ्गं स्वप्नः स्वर उत्पात आन्तरिक्षं भौम व्यजनं लक्षणं चेत्येवमष्टप्रकारं-अष्टविधमिह-शाने निमित्तं भवति, अतीतानागतवर्वमानानामतीन्द्रियभावानामधिगमे निमित्तं-हेतुर्यद्वस्तुजातं तन्निमित्तं, सूत्रे स्वप्नादिपदेषु प्राकृतत्वानपुंसकत्वमिति ॥ ५॥ साम्प्रतमष्टप्रकारमपि निमित्तं क्रमेण व्याख्यातुमाह-'अंगे'यादिगाथाचतुष्क, अङ्गस्फुरणादिभिः-शरीरावयवस्पन्दप्रमाणादिभिर्यदिह वर्तमानमतीतमना. गतं वा शुभं वा-प्रशस्तमशुभं वा-अप्रशस्तं अन्यस्मै कथ्यते तद्भण्यतेऽङ्गामं निमित्तं, यथा-"दक्षिणपार्श्वे स्पन्दनमभिधास्ये तत्फलं त्रिया वामे । पृथिवीलाभः शिरसि स्थानविवृद्धिर्ललाटे स्यात् ॥१॥” इत्यादि, तथा सुस्वप्नदुःस्वप्नाभ्यां यत्कथ्यते शुभाशुभं तत्स्वप्राख्यं निमित्तं, यथा-"देवेज्यात्मजबान्धवोत्सवगुरुच्छत्राम्बुजप्रेक्षणं, प्राकारद्विरदाम्बुदद्रुमगिरिप्रासादसंरोहणम् । अम्भोधेस्तरणं सुरा
273
.