________________
मृतपयोदनां च पानं तथा, चन्द्रार्कप्रसनं स्थितं शिवपदे स्वापे प्रशस्तं नृणाम् ॥ १॥" इत्यादि २, इष्टमनिष्टं च यत्स्वरविशेषतः षड्डादिस्वरसप्तकविभागतः शकुनरुतरूपाद्वा परस्मै कथ्यते तत् स्वरनामकं निमित्तं, यथा-"सज्जेण लब्भए वित्ति, कयं च न विणस्सइ । गावो मित्ता य पुत्ता य, नारीणं चेव वल्लहो ॥ १॥” इत्यादि, यद्वा-'चिलिचिलिसद्दो पुनो सामाए सूलिसूलि धन्नो उ । चेरी चेरी दित्तो चिक्कुत्ती लाभहेउत्ति ॥१॥' इत्यादि ३, सहजरुधिरवृष्ट्यादि यस्मिन् जायते (भण्यते) तदुत्पाताभिधं निमित्तं, आदिशब्दादस्थिवृष्ट्यादिपरिग्रहः, यथा-"मज्जानि रुधिरास्थीनि, धान्याङ्गारान् वसां तथा । मघवा वर्षते यत्र, भयं विद्याच्चतुर्विधम् ॥१॥" इत्यादि ४, प्रहवेधभूताट्टहासप्रमुखमान्तरिक्षं निमित्तं, तत्र प्रहवेधो-अहस्य प्रहमध्येन निर्गमः, भूताट्टहासः-अतिमहानाकाशे आकस्मिकः किलकिलारावः, यथा-"भिनत्ति सोमं मध्येन, ग्रहेष्वन्यतमो यदा । तदा राजभयं विद्यात् , प्रजाक्षोभं च दारुणम् ॥ १॥" इत्यादि, प्रमुखग्रहणाद्गन्धर्वनगरादिपरिग्रहः, यथा-"कपिलं शस्यघाताय, माविष्ठं हरणं गवाम् । अव्यक्तवर्ण कुरुते, बलक्षोभं न संशयः ॥ १॥ गंधर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ॥ २ ॥” इत्यादि ५, भूमिकम्पादिभिर्विकारैः शुभाशुभं यद् ज्ञायते तद्भौमं निमित्तं, यथा-"शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ॥ १”६, इह-अस्मिन् शाने व्यखनं-मषादि, लाञ्छनप्रमुखं तु लक्षणं भणितं, यथा-"नाभ्यधस्ताद्भवेद्यस्या, लाञ्छनं मशकोऽपि वा । कुङ्कुमोदकसङ्काशं, सा प्रशस्ता निगद्यते ॥१॥” इत्यादि, निशीथग्रन्थे पुनरित्थमुक्तं-"माणाइगं लक्खणं मसाइगं वंजणं, अहवाजं सरीरेण सह समुप्पन्नं तं लक्खणं पच्छा उप्पन्नं वंजण" मिति, तदेवं शुभाशुभसूचकान्यङ्गादीन्यष्टावपि प्रतिपादितानीति, लक्षणानि च पुरुषविभागेनेत्थं निशीथे प्रोकानि—“पागयमणुयाणं बत्तीसं अठ्ठसयं बलदेववासुदेवाणं अट्ठसहस्सं चकव. द्वितित्थगराणं, जे फुडा हत्थपायाइसु लखिज्जति तेसिं पमाणं भणिय, जे पुण अंतो स्वभावसत्त्वादयः तेहिं सह बहुतरा भवंती'. त्यादि, २५७, ॥ ६ ॥ ७ ॥ ८॥ ९ ॥ संप्रति 'माणुम्माणपमाणं ति अष्टपञ्चाशदधिकद्विशततमं द्वारमाह
जलदोणमद्धभारं समुहाइं समूसिओ उ जो नव उ । माणुम्माणपमाणं तिविहं खलु लक्षणं
नेयं ॥१०॥ मानं-जलद्रोणप्रमाणता, उन्मानं-तुलारोपितस्यार्धभारप्रमाणता, यस्य स्वमुखानि नवैव समुच्छ्रितः स पुमान् प्रमाणोपेतो भवति, अयमर्थः-पानीयपरिपूर्णायां पुरुषप्रमाणादीपदतिरिक्तायां महत्यां कुण्डिकायां प्रवेशितो यः पुरुषो जलस्य द्रोणं-सर्वार्धघटिकाघटस्वरूपं निष्कासयति द्रोणेन जलस्योनां वा तां पूरयति स पुरुषो मानयक्तो भवति, तथा सारपदलोपचितत्वात् तुलायामा यः पुरुषस्तुलयति स उन्मानयुक्तो भवति, तथा यद्यस्यात्मीयमलं तेनात्मनोऽङ्गुलेन द्वादशाकुलानि मुखं प्रमाणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति, प्रत्येकं द्वादशाङ्गुलैवभिर्मुखैरष्टोत्तरं शतमलानां संपद्यते, ततश्चैतावदुच्छ्रयः पुमान् प्रमाणयुक्तो भवतीति, तदेवं मानोन्मानप्रमाणरूपमेतत् त्रिविधं लक्षणमुत्तमपुरुषाणां खलु निश्चयेन ज्ञेयमिति, २५८ ॥१४॥ इदानीं 'अट्ठारस भक्खभोजाई'त्येकोनषधिकद्विशततमं द्वारमाह
सूओ १ यणो २ जवन्नं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८। भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ डागो १३ ॥११॥होइ रसालू य १४ तहा पाणं १५ पाणीय १६ पाणगं १७ चेव । अट्ठारसमो सागो १८ निरुवहओ लोहओ पिण्डो ॥ १२ ॥ जलथलखहयरमंसाई तिनि जूसो उ जीरयाइजुओ। मुग्गरसो भक्खाणि य खंडखवयपभोक्खाणि ॥ १३ ॥ गुललावणिया गुडप्पपडीउ गुलहाणियाउ वा भणिया। मूलफलंतिकपयं हरिययमिह जीरयाईयं ॥ १४ ॥ डाओ वत्थुलराईण भजिया हिंगुजीरयाइजुया । सा य रसालू जा मज्जियत्ति तल्लक्खणं चेयं ॥१५॥ दो घयंपला महु पलं दहियस्सऽद्धाढयं मिरिय वीसा । दस खंडगुलपलाई एस रसालू निवइजोगो ॥ १६ ॥ पाणं सुराइयं पाणियं जलं पाणगं पुणो एत्थ। दक्खावाणियपमुहं सागो सो तक्कसिद्धं जं ॥१७॥ सूपः ओदनः यवानं त्रीणि मांसानि गोरसो यूषः भक्ष्याणि गुडलावणिका मूलफलानि हरितकं डाकः, तथा भवति रसाला, आर्षत्वाच रसालू इति निर्देशः, तथा पानं पानीयं पानकं अष्टादशश्च शाकः, एषोऽष्टादशविधो निरुपहतो-निर्गत उपहतः-दोषो यस्मादसौ निरुपहतो-निर्दोष इत्यर्थः, लौकिको-निर्विवेकलोकप्रतीतः पिण्ड:-आहार इति ॥ ११ ॥ १२ ॥ तत्र सूपो-दालिः ओदनः-कूरः, यवानं-यवनिष्पन्नं परमानं, गोरसो-दुग्धदधिघृतप्रभृतिकः, शेषं च सूत्रकृदेव क्रमेण विवृणोति-'जले'त्यादिकं गाथापञ्चकं, जलचरस्थलचरखचरंजीवसंबन्धीनि त्रीणि मांसानि, तत्र जलचरा-मत्स्यादयः स्थलचरा-हरिणादयः खचरा-लावकादयः, तथा जूषो-जीरककटुभाण्डादिमिर्युतः सुसंभृतो मुद्गरसः, तथा भक्ष्याणि-खण्डखाधकप्रमुखाणि, खाद्यक-खजकं, तच्च खण्डेन खरण्टितं, तत्प्रमुखाणि, तथा गुललावणिका-गुडपर्पटिका, पूर्वदेशीयप्रधानगुडकृता या पर्पटिकेत्यर्थः, अथवा गुडमिश्रा धाना गुडधाना भणिता गुललावणिकेति, 'मूलकफल'मिति वेकमेव पदं प्रायं, नतु द्वयं, तत्र मूलानि अश्वगन्धादीनां फलानि सहकारादीनां, तथा हरितकमिह जीर
274