SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ कादिपत्रनिर्मितं, तथा डाको वस्तुलराजिकादीनां भर्जिका हिङ्गुजीरकादिभिर्युता सुसंस्कृता, सा च रसाला ज्ञेया या मार्जितेति लोके प्रसिद्धा, तस्याश्चेदं वक्ष्यमाणं स्वरूपं । तदेवाह — 'दो घयपले' त्यादि, द्वे पले घृतस्य एकं पलं मधुनः अर्धाढको दघ्नः विंशतिर्मरिचानि वर्तितानि दश च पलानि खण्डस्य गुडस्य वा, एतैः पदार्थैर्मिलितै रसाला निष्पद्यते, एषा च नृपतीनां - राज्ञामुपलक्षणत्वादीश्वरलोकस्य योग्या - उचितेति, तथा पानं-सुरादि, आदिशब्दात्सर्वमद्यभेदपरिग्रहः, तथा पानीयं - सुशीतलं सुखादु च जलं, पानकं पुनरत्रद्राक्षाखर्जूरादिकृतं पानकप्रमुखं, तथा शाकः स उच्यते यत्तक्रेण सिद्धं - निष्प नं वटकादीति, २५९ ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ सम्प्रति 'छट्ठाणवुडिहाणि'त्ति षष्ट्यधिकद्विशततमं द्वारमाह ही वाहाणीव अनंत १ अस्संख २ संखभागेहिं ३ । वत्थूण संख ४ अस्संख ५ णंत ६ गुणणेण विया ॥ १८ ॥ अनन्ताऽसङ्ख्यातसङ्ख्यातभागैः सङ्ख्यातास यातानन्तगुणेन च वस्तूनां पदार्थानां वृद्धिर्वा हानिर्वा विधेया, इह षट्स्थानके त्रीणि 1. स्थानानि भागेन - भागहारेण वृद्धानि हीनानि वा भवन्ति, त्रीणि च स्थानानि गुणनेन - गुणकारेण, 'भागो तिसु गुणणा तिसु' इति वचनात्, तत्र भागहारेऽनन्तासङ्ख्यातसङ्ख्यात लक्षणः क्रमः, गुणकारे च सङ्ख्याता सङ्ख्यातानन्तलक्षण इति, अययर्थः — सर्वविरतिविशुद्धिस्थानादीनां वस्तूनां वृद्धिर्वा हानिर्वा चिन्त्यमाना षट्स्थानगता प्राप्यते, तद्यथा - अनन्तभागवृद्धिः असङ्ख्यातभागवृद्धिः सयात - भागवृद्धिः सङ्ख्यातगुणवृद्धिः असङ्ख्यातगुणवृद्धिः अनन्तगुणवृद्धिश्च, एवं हानिरपि तत्र किञ्चित्सुगमत्वात्सर्वविरतिविशुद्धिस्थानान्येवांश्रित्य लेशतो भाव्यते - इह हि सर्वोत्कृष्टादपि देशविरतिविशुद्धिस्थानात् सर्वजघन्यमपि सर्वविरतिविशुद्धिस्थानमनन्तगुणं, अनन्तगुणता च सर्वत्रापि षट्स्थानकचिन्तायां सर्वजीवानन्तकप्रमाणेन गुणकारेण द्रष्टव्या इयमत्र भावना - सर्वजघन्यमपि सर्वविरतिविशुद्धिस्थानं केवलिप्रज्ञाच्छेदनकेन विच्छिद्यते, छित्वा च निर्विभागा भागाः पृथक् क्रियन्ते, ते च निर्विभागा भागाः सर्वसंकलनया विभाव्यमाना यावन्तः सर्वोत्कृष्टदेशविरतिविशुद्धिस्थानगता निर्विभागाः भागाः सर्वजीवानन्तकरूपेण गुणकारेण गुण्यमाना जायन्ते तावत्प्रमाणाः प्राप्यन्ते, अत्राप्ययं भावार्थ : — इह किलासत्कल्पनया सर्वोत्कृष्टस्य देशविरतिविशुद्धिस्थानस्य निर्विभागा भागा दश सहस्राणि, सर्वजीवानन्तकप्रमाणश्च राशिः शतं, ततस्तेन शतसङ्ख्येन सर्वजीवानन्तकमानेन राशिना दशसहस्रसङ्ख्याः सर्वोत्कृष्ट देश विरति विशुद्धिस्थानगता निर्विभागा भागा गुण्यन्ते, जाता दश लक्षाः, एतावन्तः किल सर्वजघन्यस्यापि सर्वविरतिविशुद्धिस्थानस्य निर्विभागा भागा भवन्ति, एते च सर्वजघन्यचारित्रसत्कविशुद्धिस्थानगता निर्विभागा भागाः समुदिताः सन्तः सर्वजघन्यं संयमस्थानं भण्यते, तस्मादनन्तरं यद् द्वितीयं संयमस्थानं तत् पूर्वस्मादनन्तभागवृद्धं किमुक्तं भवति ? – प्रथमसंयमस्थानगतनिविभागभागापेक्षया द्वितीयसंयमस्थाने निर्विभागा भागा अनन्ततमेन भागेनाधिका भवन्तीति, तस्मादपि यदनन्तरं तृतीयं तत्ततोऽनन्तभागवृद्धं एवं पूर्वस्मात् पूर्वस्मादुत्तरोत्तराणि निरन्तरमनन्तभागवृद्धानि संयमस्थानानि अङ्गुलमात्रक्षेत्रास ये यभागगतप्रदेश राशिप्रमाणानि वाच्यानि, एतानि च समुदितानि संयमस्थानान्येकं कण्डकं भवति, कण्डकं नाम समयपरिभाषया अङ्गुलमात्रक्षेत्रासत्येयभागगतप्रदेशराशिप्रमाणा सङ्ख्याऽभिधीयते, उक्तं च - "कण्डति एत्थ भन्नइ अंगुलभागो असंखेज्जो” [कण्डकमिति भण्यतेऽङ्गुलभागोऽसङ्ख्येयः] तस्माच्च कण्डकात् परतो यदन्यदनंतरं संयमस्थानं तत् पूर्वस्मादसत्येयभागाधिकं एतदुक्तं भवति — पाश्चात्य कण्डकसत्कचरमसंयमस्थानगतनिर्विभागभागापेक्षया कण्डकानन्तरे संयमस्थाने निर्विभागभागगतप्रदेशा असत्येयतमेन भागेनाधिकाः प्राप्यन्ते, ततः पराणि पुनर्यान्यन्यानि संयमस्थानानि अङ्गुलमात्रक्षेत्रासत्येय भागगतप्रदेशरा शिप्रमाणानि तानि यथोत्तरमनन्तभागवृद्धान्यवसेयानि, एतानि च समुदितानि द्वितीयं कण्डकं, तस्य च द्वितीयकण्डकस्योपरि यदन्यत् संयमस्थानं तत्पुनरपि द्वितीयकण्डकसत्कचरमसंयमस्थानगतनिर्विभागभागापेक्षयाऽसङ्खयेयभागवृद्धं ततो भूयोऽपि ततः पराणि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरप्येकमसय भागवृद्धं संयमस्थानं, एवमनन्तभागाधिकैः कण्डकप्रमाणैः संयमस्थानैर्व्य व हितान्यसङ्घयेय भागाधिकानि संयमस्थानानि तावद्वाच्यानि यावत्तान्यपि कण्डकमात्राणि भवन्ति, चरमादसङ्ख्येयभागाधिकसंयमस्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयमस्थानानि वाच्यानि, ततः परमेकं सङ्ख्येयभागाधिकं संयमस्थानं, ततो मूलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तेनैव क्रमेणाभिधाय पुनरप्येकं सत्येयभागाधिकं संयमस्थानं वाच्यं इदं च द्वितीयं सत्येयभागाधिकं स्थानं, ततोऽनेनैव क्रमेण तृतीयं वाच्यं, अमूनि चैवं सत्येयभागाधिकानि संयमस्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भवन्ति, तत उक्तक्रमेण भूयोऽपि सङ्ख्यभागाधिकस्थानप्रसंगे सङ्ख्येयगुणाधिकमेकं स्थानं वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्राग्व्यतिक्रान्तानि तावन्ति भूयोऽपि तथैव वाच्यानि, ततः पुनरप्येकं सत्येयगुणाधिकं स्थानं वाच्यं ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वाच्यानि, ततः पुनरप्येकं सत्येयगुणाधिकं स्थानं, अमून्यप्येवं सत्येयगुणाधिकानि स्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भवन्ति, ततस्तेनैव क्रमेण पुनः सङ्ख्येयगुणाधिकस्थानप्रसंगेऽसङ्ख्येयगुणाधिकं स्थानं वाच्यं ततः पुनरपि मूलादारभ्य यावन्ति संयम - स्थानानि प्रागतिक्रान्तानि तावन्ति तथैव भूयोऽपि वाच्यानि, ततः पुनरप्येकमसत्येयगुणाधिकं संयमस्थानं वाच्यं ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वाच्यानि, ततः पुनरप्येकमसत्येयगुणाधिकं, अमूनि चैवमसत्येयगुणाधिकानि संयमस्था 275
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy