Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
मुक्कस्स अद्धकुलओ दुर्ट हीणाहियं होजा ॥ ८२॥ एकारस इत्थीए नव सोयाइं तु हुंति पुरि
सस्स । इय किं सुइसणं अहिमंसमलरुहिरसंघाए? ॥ ८३ ॥ वर्षाणां पञ्चपञ्चाशतः परत आर्तवाभावान्महिलानां योनिः प्रम्लायति-गर्भोत्पत्तिकारणतां न प्रतिपद्यते, भावार्थस्तु निशीथचूर्ण्यभरैरुपदयते-"इत्थीए जाव पणपन्न वासा न पूरंति ताव अमिलिया(लाणा) जोणी, आर्तवं भवति गर्भ च गृहातीत्यर्थः, पणपनवासाए पुण कस्सइ अत्तवं भवति न पुण गन्भं गिण्हइ, पणपन्नाए परओ नो अत्तवं नो गन्भं गिण्हई"त्ति, तथा वर्षाणां पञ्चसप्ततेः परतः प्रायेण नरः-पुमान् भवत्यबीजो-गर्भाधानयोग्यवीर्यविवर्जितः॥६५॥ कियत्प्रमाणायुषां पुनरेतन्मानं द्रष्टव्यमित्याह-वासे'त्यादि,वर्षशतायुषामैदंयुगीनानामेवैतद्-गर्भधारणादिकालमानमुक्तं द्रष्टव्यं, परेण तर्हि का वार्ता ? इत्याह-परेण जा होइ पुषकोडीओ' इत्यादि, वर्षशतात्परतो वर्षशतद्वयं त्रयं चतुष्टयं चेत्यादि यावन्महाविदेहादिमनुष्याणां या पूर्वकोटिः सर्वायुष्के भवति तस्य सर्वायुषोऽर्ध तर्ध यावदम्लाना-गर्भधारणक्षमा युवतीनां योनिद्रष्टव्या, ततः परतः सकृत्प्रसवधर्मिणोऽम्लानयोनयश्चावस्थितयौवनत्वात् , पुरुषाणां तु सर्वखापि पूर्वकोटिपर्यन्तस्य स्वायुषोऽन्त्यो विंशतितमो भागोऽबीजो भवति २४७ ॥६६॥ इदानीं 'सुकाईण पमाणं त्यष्टचत्वारिंशदधिकद्विशततमं द्वारमाह-बीय' मित्यादि, बीजं-कारणं तच्च शरीरस्य शुक्र तथा शोणितं च, पितुः शुक्रं मातुः शोणितं एतद् द्वथमपि शरीरस्य कारणमित्यर्थः, स्थानं तु तस्यादौ जननीगर्भ-मातुरुदरमध्यभागे, शुक्रशोणितसमुदाय ओज इत्युच्यते, शरीरोपष्टम्भस्यापि प्रथमतस्तदेव हेतुः कारणमित्यर्थः, तस्य शरीरस्य स्वरूपं तु 'अद्वारसपिढ़करंडयस्स इत्याद्यनन्तरवक्ष्यमाणलक्षणमिति शेषः ॥ ६७ ॥ तदेवाह-'अडे'त्यादिगाथाहय, देहे-मनुष्यशरीरे पृष्ठकरण्डकस्य-पृष्ठवंशस्याष्टादश प्रन्थिरूपाः संधयो भवन्ति, यथा वंशस्य पर्वाणि, तेषु चाष्टादशमु सन्धिषु मध्ये द्वादशभ्यः सन्धिभ्यो द्वादश पंशुलिका निर्गयोभयपार्थावावृत्त्य वक्षःस्थलमध्योर्द्धवर्त्यस्थि लगित्वा पल्लकाकारतया परिणमन्ति, अत आह-इह शरीरे द्वादश पंशुलिकारूपाः करण्डका-वंशका भवन्ति, 'तह छपुंसुलिए होइ कडाहे'त्ति तथा तस्मिन्नेव पृष्ठवंशे शेषषट्संधिभ्यः षट् पांशुलिका निर्गत्य पार्श्वद्वयं चावृत्य हृदयस्योभयतो वक्षःपजराधस्ताद् शिथिलकुक्षितरतूपरिष्टात्परस्परासंमिलितास्तिष्ठन्ति, अयं च कटाह इत्युच्यते, जिह्वा-मुखाभ्यन्तर्वर्तिमांसखण्डरूपा दैर्येणात्माकुलतः सप्ताङ्गुलप्रमाणा भवति, तौल्ये तु मगधदेशप्रसिद्धेन पलेन चत्वारि पलानि भवन्ति, अक्षिमांसगोलको तु द्वे फ्ले, शिरस्तु अस्थिखण्डरूपैश्चतुर्मिः कपालैनिष्पद्यते इति ॥ ६८॥ ६९ ॥ तथा 'अद्धद्धे'त्यादि, हृदयान्तर्वर्तिमांसखण्डं सार्धपलत्रयं भवति, द्वात्रिंशच मुखे दन्ता-अस्थिखण्डरूपाः प्रायः प्राप्यन्ते, कालेयजं तु-वक्षोऽन्तगूढमांसविशेषरूपं पञ्चविंशतिपलान्यागमे निर्दिष्टं । ७०॥ तथा-'अंताई' इत्यादि, इह शरीरे द्वे अत्रे भवतः, प्रत्येकं पञ्चपञ्चवामप्रमाणे, तथा संधयः-अहल्याद्यस्थिखण्डमेलापकस्थानानि तेषां षष्ट्यधिकं शतं भवन्ति, मर्माणि-सङ्घाणिकाविरकादीनि, तेषां तु सप्ताधिकं शतं भवति ॥ ७१ ॥ अथ पुरुषशरीरे शिरासङ्ख्यामाह-'सट्ठिसय मित्यादिगाथासप्तकं, इह पुरुषस्य शरीरे नाभिप्रभवाणि शिराणां-ससानां सप्त शतानि भवन्ति, तत्र षष्ट्यधिकं शतं शिराणां नाभेः शिरसि गच्छति, ताश्च रसहरणीनामधेया:, रसो हियते-विकीर्यते यकाभिरितिकृत्वा, यासां चानुग्रहविघातयोः सतोर्यथासमयं श्रोत्रचक्षुर्घाणजिह्वानामनुग्रहो विघातश्च भवति, तथा अन्यासामप्यधोगामिनीनां पादतलमुपगतानामनुपपाते जवाबलकारिणीनां ससानां पश्यधिक शतं भवति, उपघाते तु ता एव शिरोवेदनाऽन्धत्वादीनि कुर्वन्ति, तथाऽपरासां गुदप्रविष्टानां शिराणां षष्ट्यधिकं शतं भवति, यासां बलेन वायुर्मूत्रं पुरीषं च प्राणिनां प्रवर्तते, एतासां च विधातेऽसि पाण्डुरोगो वेगनिरोधश्च भवति, तथा अपरासां तिर्यग्गामिनीनां शिराणां षष्ट्यधिक शतं भवति, ताः पुनर्बाहुबलकारिण्यः, उपघाते च सति कुभिउदरवेदनाः कुर्वन्ति, तथाऽन्याः पञ्चविंशतिः शिराः श्लेष्मधारिण्यो भवन्ति, तथा पित्तधारिण्योऽपि पञ्चविंशतिः शिराः, दश च शिराः शुक्राख्यसप्तमधातुधारिण्यः, इत्येवं नाभिप्रभवाणि सप्तशिराशतानि पुरुषस्य शरीरे भवन्ति ।। ७२ ॥ ७३ ॥ ७४ ॥ ७५ ॥ ७६ ॥ ७७ ॥ ७८ ॥ अथ स्त्रीनपुंसकयोः कियन्त्य एता भवन्तीत्याशङ्याह-'तीसूणाई' इत्यादिगाथाचतुष्क, त्रिंशता न्यूनानि स्त्रीणां सप्त शिराशतानि भवन्ति, विंशत्या च हीनानि सप्त शतानि शिराणां भवन्ति षण्ढस्य-नपुंसकस्य, तथा स्नायूनाम्-अस्थिबन्धनशिराणां शतानि नव च धमन्यो रसवहा-नाड्यो देहे ॥७९॥ तथा सर्वस्मिन्नपि देहे नवनवतिर्लक्षा रोमकूपाणां भवन्ति, रोम्णां-तनूरुहाणां कूपा इव कूपा रोमकूपा-रोमरन्ध्राणीत्यर्थः, एतच्च संख्यानं श्मश्रुकेशैर्विनाऽवसेयं, तैस्तु सह सार्धास्तिनः कोटयो रोमकूपानां जायन्ते, तत्र इमणि-कूर्चकचाः, केशास्तु-शिरोरुहा इति ॥८॥ शरीरे सर्वदेव मुत्रस्य शोणितस्य च प्रत्येकमवस्थितमाढकं मगधदेशमसिद्धमानविशेषरूपं भणन्ति, उक्तं च-"दो असईओ पसई, दो पसइओ सेइया, चत्तारि सेइयाउ कुलओ, चत्तारि कुडवा पत्थो, चत्तारि पत्था आढयं, चत्तारि आढया दोणो" इत्यादि, धान्यभृतोऽवाङ्मुखीकृतो हस्तोऽसतीत्युच्यते, वसायास्त्वर्धाढकं भणन्ति, मस्तकभेजको मस्तुलुङ्कवस्तु, अन्ये त्वाहुः-मेदपिप्पिसादि मस्तुलुङ्ग, तस्यापि प्रस्थं यथोक्तरूपं वदन्ति ॥ ८१ ॥ अशुचिरूपो योऽसौ मलस्तस्य प्रस्थषटकं भवति, पित्तश्लेष्मणोः प्रत्येकं यथानिर्दिष्टस्वरूपः कुलवो भवति, शुक्रस्त्वर्धकुलवः, एतबाढकप्रस्थादिकं मानं बालकुमारतरुणादीनां 'दो असइओ पसई'त्यादिक्रमेणात्मीयात्मीयहस्तेनानेतव्यं, उक्तमानाच शुक्रशोणितादेर्यत्र हीनाधिक्यं भवति तत्र वातादिदूषितत्वेनेति ज्ञेयं ॥ ८१॥ अथ श्रोत्राणि शरीरे यावन्ति भवन्ति तावत्युपदश्र्योपसंहरति-'एकारसे'त्यादि, द्वौ कौँ द्वे चक्षुषी द्वे घ्राणे मुखं स्तनौ पायुरुपस्थश्चेत्येवमेकादश श्रोत्राणि
269

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310