Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 276
________________ क्तता १९ मनःप्रभृतिनिरोधाः २२ ज्ञानादिसंपन्नतास्तिस्रः २५ वेदनाधिसहनता २६ मरणान्तोपसर्गसहनं च २७ ॥२३८॥५४॥ ॥ ५५ ॥ इदानीं 'इगवीसा सावयगुणाणं'त्येकोनचत्वारिंशदधिकद्विशततमं द्वारमाह धम्मरयणस्स जोगो अक्खुद्दो १ रूववं २ पगइसोमो ३ । लोयप्पिओ ४ अकूरो ५ भीरू ६ असठो सदक्खिन्नो ८॥५६॥ लज्जालुओ९ दयालू १० मज्झत्थो ११ सोमदिहि १२ गुणरागी १३ । सकहसुपक्खजुत्तो १४ सुदीहदंसी १५.विसेसन्नू १६ ॥५७ ॥ वुड्डाणुगो १७ विणीओ १८ कयनुओ १९ परहियत्थकारी य २० । तह चेव लद्धलक्खो २१ इगवीसगुणो हवइ सहो ॥५८॥ परतीर्थिकप्रणीतानां सर्वेषामपि धर्माणां मध्ये प्रधानत्वेन यो रत्नमिव वर्तते स धर्मरत्नं-जिनोदितो देशविरत्यादिरूपः समाचारः तस्य योग्यः-उचित ईदृक्स्वरूप एव श्रावको भवति, तद्यथा-अक्षुद्र इत्यादि, तत्र यद्यपि क्षुद्रः-तुच्छः क्षुद्रः-क्रूरः क्षुद्रो-दरिद्रः क्षुद्रो-लघुरित्यनेकार्थः क्षुद्रशब्दः तथाऽपीह तुच्छार्थो गृह्यते तस्यैव प्रस्तुतोपयोगित्वात् , ततः क्षुद्रः-तुच्छोऽगम्भीर इत्यर्थः तद्विपरीतोऽक्षुद्रः स च सूक्ष्ममतित्वात् सुखेनैव धर्ममवबुध्यते १ रूपवान-संपूर्णाङ्गोपाङ्गतया मनोहराकारः, स च तथारूपसंपन्नः सदाचारप्रवृत्त्या भविकलोकानां धर्मे गौरवमुत्पादयन् प्रभावको भवति, ननु नन्दिषेणहरिकेशबलप्रभृतीनां कुरूपाणामपि धर्मप्रतिपत्तिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रियते ?, सत्यं, इह द्विविधं रूपं-सामान्यमतिशायि च, तत्र सामान्यं संपूर्णाङ्गत्वादि, तच्च नन्दिषेणादीनामप्यासीदेवेति न विरोधः, प्रायिकं चैतच्छेषगुणसद्भावे कुरूपत्वस्याप्यदुष्टत्वात् , एवमग्रेऽपि, अतिशायि पुनर्यद्यपि तीर्थकरादीनामेव संभवति तथापि येन कचिद्देशे काले वयसि वा वर्तमानो रूपवानयमिति जनानां प्रतीतिमुपजनयति तदेवेहाधिकृतं मन्तव्यं २ प्रकृत्या-खभावेन सौम्यः-अभीषणाकृतिविश्वसनीयरूप इत्यर्थः, एवंविधश्च प्रायेण न पापव्यापारे व्याप्रियते सुखाश्रयणीयश्च भवति ३ लोकस्य-सर्वजनस्य इहपरलोकविरुद्धवर्जनेन दानशीलादिगुणैश्च प्रियो-वल्लभो लोकप्रियः, सोऽपि सर्वेषां धर्मे बहुमानं जनयति ४, अक्रूरः-अक्लिष्टाध्यवसायः, क्रूरो हि परच्छिद्रान्वेषणलम्पटः कलुषमनाः स्वानुष्ठानं कुर्वन्नपि न फलभाग्भवतीति ५ भीरु:-ऐहिकामुष्मिकापायेभ्यस्रसनशीलः, स हि कारणेऽपि सति न निःशकमधमे प्रवर्तते ६ अशठः-अच्छयानुष्ठाननिष्ठा, शठो हि वश्चनप्रपञ्चचतुरतया सर्वस्याप्य विश्वसनीयो भवति ७ सदाक्षिण्यः-स्वकार्यपरिहारेण परकार्यकरणैकरसिकान्तःकरणः, स च करव नाम नानुवर्तनीयो भवति? ८ 'लज्जालु यत्ति प्राकृतशैल्या लज्जावान , स खल्वकृत्यासेवनवार्तयाऽपि ब्रीडते, स्वयमङ्गीकृतमनुष्ठान च परित्यक्तुं न शक्नोति ९ दयालुः दयावान , दु:खितजन्तुजातत्राणामिलाषुक इत्यर्थः, 'धर्मस्य हि दया मूल मिति प्रतीतमेव १० मध्यस्थो-रागद्वेषत्यक्तधीः, स हि सर्वत्रारक्तद्विष्टतया विश्वस्यापि वल्लभो भवति ११ सौम्यदृष्टिः कस्याप्यनुढेजकः, स हि दर्शनमात्रेणापि प्राणिनां प्रीतिं पल्लवयति १२ गुणेषु-गाम्भीर्यस्थैर्यप्रमुखेषु रज्यतीत्येवंशीलो गुणरागी, स हि गुणपक्षपातित्वादेव सद्गुणान् बहु मन्यते निर्गुणांश्वोपेक्षते १३ सत्कथा:-सदाचारचारित्वात्सुचरित्रचर्याकथनरुचयो न तु दुश्चारित्रचर्याकथनरुच्यो के सपक्षा:-. सहाया जनास्तैर्युक्त:-अन्वितो, धर्माविबन्धकपरिवार इति भावः, एवंविधश्च न केनचिदुन्मार्ग नेतुं शक्यते १४ अन्ये तु सत्कथः सुपक्षयुक्तश्चेति पृथग्गुणद्वयं मन्यन्ते, मध्यस्थः सोमदृष्टिश्रेति द्वाभ्यामप्येकमेवेति, तथा सुदीर्घदी-सुपर्यालोचितपरिणामपेशलकार्यकारी, सकिल पारिजामिया बुस्सा सुन्दरपरिणाममैहिकमपि कार्यमारभते १५ विशेषज्ञ:-सारेतरवस्तुविभागवेदी, अविशेषज्ञस्तु दोषामपि गुणत्वेन गुणानपि दोषत्वेनाध्यवस्थति १६ वृद्धान्-परिणतमतीननुगच्छति-गुणार्जनबुखा सेक्त इति वृद्धानुवा, वृद्धजनानुगत्या हि प्रवर्तमानः पुमान् न जातुचिदपि विपदः पदं भवति १७ विनीतो-गुरुजनगौरवकृत् , विनयवति हि सपदि संपदः प्रादुभवन्ति १८ स्वल्पमप्युपकारमैहिकं पारत्रिकं वा परेण कृतं जानाति न निहुते इति कृतज्ञः, कृतघ्नो हि सर्वत्राप्यमन्दां निन्दा समासादयति १९ परेषां-अन्येषां हितान-पध्यानान्-प्रयोजनानि कर्तु शीलं यस्य स परहितार्थकारी, सदाक्षिण्योऽभ्यर्थित एक करोति अयं पुनः स्वत एव परहिताय प्रवर्तते इत्यनयोर्भेदः, यश्च प्रकृत्यैव परहितकरणे नितरां निरतो भवति स निरीहचित्ततयाऽन्यानपि सद्ध, स्थापयति २० तथा लब्धमिव लब्धं लक्षं-शिक्षणीयानुष्ठानं येन स लब्धलक्षः, पूर्वभवाभ्यस्तमिव सर्वमपि धर्मकृत्यं झटिये. वाधिगच्छतीति भावः, ईदृशो हि वन्दनप्रत्युपेक्षणादिकं धर्मकर्म सुखेनैव शिक्षयितुं शक्यते २१, तदेवमेकविंशतिगुणसंपन्नः श्राद्धः -श्रावको भवतीति २३९ ।। ५६ ।। ५७ ॥ ५८ ॥ इदानीं 'तेरिच्छीणुकिट्ठ गन्भडिइत्ति चत्वारिंशदधिकशततमं द्वारमाह उक्किट्ठा गन्भठिई तिरियाणं होइ अट्ठ वरिसाई । माणुस्सीणुकिलु इत्तो गम्भट्टिइं वुच्छं ॥१९॥ उत्कृष्टा गर्भस्थिति:-गर्भावस्थानं तिरश्चीनां-तिर्यग्योषितां भवत्यष्टौ वर्षाणि, ततः परं गर्भस्य विपत्तिः प्रसवो वेति २४०॥ इदानीं 'माणुसीणुक्किट्ठा गन्भठिइत्ति तथा 'तग्गन्भस्स कायटिई'त्येकचत्वारिंशदधिकद्विचत्वारिंशदधिकद्विशततमे द्वारे आह गम्भटिइ मणुस्सीणुकिट्ठा होइ वरिसबारसगं । गम्भस्स य कायठिई नराण चउवीस वरि साई॥६०॥ मानुषीणां-मनुष्यस्त्रीणामुत्कृष्टा गर्भस्थितिर्भवति वर्षद्वादशकं द्वादशवर्षप्रमाणा, अयमर्थ:-कश्चिजन्तुराविर्भूतप्रभूतपापामिभूतवपुवातपित्तादिदूषिते देवादिस्तम्भिते वा गर्ने द्वादश वर्षाणि निरन्तरं तिष्ठतीति, इयं च भवस्थितिरुक्ता, कायस्थितिः पुनर्नराणां गर्भस 267

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310