Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 274
________________ पञ्चानां ब्रतानां द्विकसंयोगे भङ्गाः, भङ्गामिलापश्चैवं-स्थूलप्राणातिपातं प्रत्याख्याति द्विविधं त्रिविधेन स्थूलमृषावादमपि द्विविधं त्रिविधेन १ स्थूलप्राणातिपातं द्विविधं त्रिविधेन स्थूलमृषावादं तु द्विविधं द्विविधेन २ स्थूलप्राणातिपातं द्विविधं त्रिविधेन स्थूलमृषावादं तु द्विविधमेकविधेन ३ स्थूलप्राणातिपातं द्विविधं त्रिविधेन स्थूलमृषावादं त्वेकविधं त्रिविधेन ४ स्थूलप्राणातिपातं द्विविधं त्रिविधेन स्थूलमृषावादं त्वेकविधं द्विविधेन ५ स्थूलप्राणातिपातं द्विविधं त्रिविधेन स्थूलमृषावादं पुनरेकविधमेकविधेन ६, एवं स्थूलादत्तादानमैथुनपरिप्रहेष्वपि प्रत्येकं षट् षड्भनाः, सर्वेऽपि मिलिताश्चतुर्विशतिः, एते च द्विविधत्रिविधलक्षणं प्राणातिपातप्रथमभङ्गममुञ्चता लब्धाः, एवं द्वितीयतृतीयचतुर्थपञ्चमषष्ठेष्वपि प्राणातिपातभङ्गेषु चतुर्विशतिश्चतुर्विंशतिर्भङ्गा भवन्ति, एते सर्वेऽपि चतुश्चत्वारिंशदुत्तरं शतं, तथा स्थूलमृषावादं प्रत्याख्याति द्विविधं त्रिविधेन स्थूलादत्तादानमपि द्विविधं त्रिविधेन, स्थूलमूषावाद द्विविधं त्रिविधेन स्थूलादत्तादानं तु द्विविधं द्विविधेन, एवं पूर्वक्रमेण षड्नका ज्ञेयाः, एवं मैथुनपरग्रहेष्वपि प्रत्येकं षट् षड्नकाः, सर्वेऽप्यष्टादश, एते च मृषावादप्रथमभङ्गममुञ्चता लब्धाः, एवं द्वितीयादिष्वप्यष्टादश २ भवन्ति, मिलिताश्वाष्टोत्तर शतं, तथा स्थूलादत्तादानं स्थूलमैथुनं च प्रत्याख्याति द्विविधं त्रिविधेन, स्थूलादत्तादानं द्विविधं त्रिविधेन स्थूलमैथुनं तु द्विविधं द्विविधेन, एवं पूर्वक्रमेण षड् भङ्गा झेयाः, एवं मैथुनपरिग्रहेष्वपि षड् भङ्गाः, सर्वेऽपि द्वादश, एते च स्थूलादत्तादानप्रथमभङ्गकममुञ्चता लब्धाः, एवं द्वितीयादिष्वपि द्वादश द्वादश भवन्ति, मिलिताश्च द्वासप्ततिः, तथा स्थूलमैथुनं स्थूलपरिग्रहं च प्रत्याख्याति द्विविधं त्रिविधेन स्थूलमैथुनं द्विविधं त्रिविधेन स्थूलपरिग्रहं तु द्विविधं द्विविधेन, एवं पूर्वक्रमेण षड् भङ्गाः, एते च स्थूलमैथुनप्रथमभङ्गकममुञ्चता लब्धाः, एवं द्वितीयादिष्वपि प्रत्येकं षट् षड्नवन्ति, मिलिताश्च षट्त्रिंशत् , एते च मूलादारभ्य सर्वेऽपि चतुश्चत्वारिंशं शतं अष्टोत्तरं शतं द्वासप्ततिः षट्त्रिंशष मिलितास्त्रीणि शतानि पश्याधिकानि भवन्तील, एवं त्रिकसंयोगादिष्वपि भङ्गामिलापः कार्यः, विस्तरभयाच नेह प्रदयते । तथा एकैकस्मिंत्रिकसंयोगे षोडशोत्तरं शतद्वयं प्रत्येक भङ्गानां भवन्ति, तथाहि-मृषावादसंबन्धी प्रथमो भङ्गोऽवस्थितोऽदत्तादानसत्कान् षड्भङ्गान् लभते, एवं द्वितीयतृतीयचतुर्थपञ्चमषष्ठा अपि षड्नङ्गान लभन्ते, तंतोऽत्रापि षट्त्रिंशद् भङ्गाः, ते च प्राणातिपातप्रथमभङ्गकेन लब्धाः, एवं द्वितीयतृतीयचतुर्थपञ्चमषष्ठैरपि प्राणातिपातसंबन्धिभिर्भङ्गैः षट्त्रिंशत् षट्त्रिंशल्लब्धाः, षट्त्रिंशतश्च षनिर्गुणने द्वे शते षोडशोत्तरे, अत्र च त्रिकसंयोगा दश भवन्ति, ततो द्वे शते षोडशोत्तरे दशमिर्गुण्येते जातान्येकविंशतिः शतानि षष्ट्यधिकानि, एतावन्तः पञ्चानां व्रतानां त्रिकसंयोगे भङ्गाः, तथा एकैकस्मिन् चतुष्कसंयोगे द्वादश शतानि षण्णवत्यधिकानि प्रत्येक भङ्गानां भवन्ति, तथाहि-अदत्तादानसंबन्धी प्रथमो भङ्गोऽवस्थितो मैथुनव्रतसत्कान् षड्भङ्गान् लभते, एवं द्वितीयतृतीयचतुर्थपञ्चमषष्ठा अपि षड् भङ्गान् लभन्ते, जाताः षट्त्रिंशद् भङ्गाः, ते च मृषावादप्रथमभङ्गकेन लब्धाः, एवं द्वितीयतृतीयचतुर्थपञ्चमषष्ठैरपि मृषावादभङ्गैः षट्त्रिंशत् षट्त्रिंशल्लब्धाः, जाते द्वे शते षोडशोत्तरे, एते च प्राणातिपातभङ्गकैः षड्भिरपि प्रत्येकं प्राप्यन्ते, जातानि १२९६, चतुष्कसंयोगाश्चात्र पञ्च, ततो द्वादश शतानि षण्णवत्यधिकानि पञ्चभिर्गुण्यन्ते, जातानि चतुःषष्टिशतान्यशीत्यधिकानि, एतावन्तः पञ्चानां व्रतानां चतुष्कसंयोगे भनाः, तथा पञ्चकसंयोगे मैथुनव्रतसंबन्धिनः प्रथमाद्याः षडपि भङ्गाः प्रत्येकं परिग्रहसत्कान् षट् षड्नङ्गान् लभन्ते, जातं ३६, सा च षट्त्रिंशत् अदत्तादानभनेः षड्भिरपि प्रत्येकं प्राप्यते, जातं २१६, एते च द्वे शते षोडशोत्तरे मृषावादभङ्गैः षभिरपि प्रत्येकं प्राप्यते, जातं १२९६, एतानि च द्वादश शतानि षण्णवत्यधिकानि प्राणातिपातव्रतसंबन्धिमिः षड्भिरपि भङ्गैः प्रत्येकं प्राप्यन्ते, जातानि ७७७६, एक एव चात्र पञ्चकसंयोगः, ततः सप्तसप्ततिशतानि षट्सप्तत्युत्तराणि एकेन गुण्यन्ते, 'एकेन च गुणितं तदेव भवतीति गुण्यराशेव॒व्यभावात्सप्तसप्तति शतानि षट्सप्तत्यधिकानीत्यवस्थितैव सङ्ख्या जाता, एतावन्तः पञ्चानां व्रतानां पश्चकसंयोगे भङ्गाः, व्रतयन्त्रकस्थापना चेयं, तदेवं गुणकारकगुण्यागतराशित्रिकेण निष्पन्ना परिपूर्णा पञ्चमी देवकुलिका, एतदनुसारेण सर्वासामपि देवकुलिकानां निष्पत्तिनिपुणत्वेन स्वयमवसेया, "उत्तरगुणअविरयमेलियाण जाणाहि सधग्गं'ति प्रतिपन्नोत्तरगुणाविरतसम्यग्दृष्टिलक्षणभेदद्वयीमिलितानामनन्तरोक्तानां त्रिंशत्प्रभृतीनां भङ्गानां सर्वानं-सर्वसङ्ख्यां जानीहि ॥ ४६ ॥४७॥४८॥ एतदेवाह-'सोलसे'त्यादि, षोडश सहस्रा अष्टौ शतान्यष्टाधि कानि भवन्ति, एषः-पूर्वोक्तो व्रतानां पञ्चसङ्ख्यानां पिंडार्थ:-सर्वसमुदायसङ्ख्याखरूपः । दर्शनादयस्तु प्रति १३] मा-अमिग्रह विशेषाः, न पुनर्ब्रतानि, ताभ्यो ब्रतानां विमिन्नस्वरूपत्वादिति भावः, एते च श्रावकाणां भेदाः mmmmm पञ्चैवाणुव्रतान्याश्रित्योक्ताः, द्वादशवतविवक्षया तु भूयस्तरा अपि भेदा भवन्ति, ॥ ४९ ॥ तथा चाहतेरसकोडिसयाई चुलसीइजुयाई पारस य लक्खा।सत्तासीई सहस्सा दो यसया तह दुरुत्ता य॥५०॥ 'तेरसे'त्यादि, त्रयोदश कोटिशतानि चतुरशीतिकोटयो द्वादश लक्षाः सप्ताशीतिसहस्राणि द्वे शते व्युत्तरे १३८४१२८७२०२, एतच्च षड्नङ्गीप्रतिबद्धाया द्वादश्या देवकुलिकायाः समागतसर्वराशिसंपिण्डनेन उत्तरगुणाविरतरूपभेदद्वयप्रक्षेपेण च भवतीति । एते च सर्वेऽपि श्रावकाणामेव व्रतभङ्गा इह प्रतिपादिताः, साधूनां पुनः सप्तविंशतिरेव भङ्गा भवन्ति, तथाहि-यन्न करोति तन्मनसा वचसा कायेन, एवं न कारयत्यपि मनसा वाचा कायेन, एवं न समनुजानीते मनसा वचसा कायेनेत्येवं वर्तमाने काले नव . १२९६ प्रा سم ":-100 ::: ::: 265

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310