Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
م ه
वेलायामागतं ११०४४३६०७७१९६११५३३३५६९५७६९५, उक्तं च-"सीयालं भङ्गसयं वयवुडऽडयालसयगुणं काउं । सीयालसएण जुयं सव्वग्गं जाण भङ्गाणं ॥१॥" [सप्तचत्वारिंशं भङ्गशतं व्रतवृद्धाष्टचत्वारिंशच्छतगुणं कृत्वा । सप्तचत्वारिंशच्छतेन युतं सर्वानं जानीहि भङ्गानां ॥१॥] तदेवं प्रतिपादिताः पश्चापि खण्डदेवकुलिकाः । साम्प्रतं संपूर्णदेवकुलिकानामवसरः, तत्र च प्रतित्रतमेकैकदेवकुलिकासद्भावेन षड्नङ्ग्या दिषु प्रत्येकं द्वादश द्वादश देवकुलिकाः प्रादुर्भवन्ति ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ तासु च सर्वास्वप्युच्यमानासु महान् प्रन्थविस्तरो भवतीत्यतो दिग्मात्रप्रदर्शनाय षड्नङ्ग्यामेव द्वादशी देवकुलिकाममिधित्सुरेककद्विकादिसयोगसूचकगुणकारकराशिसमानयनोपायमाह-'एगाई'त्यादि, 'एगाई एगुत्तर'त्ति यावत्प्रमाणानां पदानामेककद्विकादिसंयोगाः समानेतुमिष्यन्ते तावत्प्रमाणा एव एकादय एकोत्तरया वृद्ध्या उपर्युपरि क्रमेण स्थाप्यन्ते, इह च द्वादशानां व्रतानां संयोगाः समानेतव्याः
न्यसनीयाः, स्थापना 1 100- 11 ततः 'पत्तेयपयंमित्ति प्रत्येकं एकैकस्मिन् पदे "उवरि'त्ति प्रक्षेपाङ्कोपरिस्थिते
| 'पक्खेवो'त्ति अधस्तनाङ्कस्य प्रक्षेपः कार्यः, अधस्तनाङ्कस्तु तथैव ध्रियते, कथं प्रक्षेपः कार्यः ? इत्याह-'एक्केकहाणि'त्ति एकैकस्योपरितनाङ्कस्य हानिः-वर्जनं यथा भवति तथा, क्षेपे २ उपरितनोकोऽधस्तनाङ्कक्षेपरहितः कार्य इति भावः, 'अवसाणसंखया हुंति संयोग'त्ति अवसानक्रमेण सर्वाङ्कप्रक्षेपपरिसमाप्तिरूपे ये अकाः क्रमशस्तत्सङ्ख्या:-तत्प्रमाणाः संयोगा-एकद्विश्यादिपदमीलनरूपा भवन्ति, इयमत्र भावना-प्रथममेकादिद्वादशान्ता ऊर्भीयता पतिः स्थाप्या, तत एकको द्विके क्षिप्यते जातात्रयः, ते च त्रिषु क्षिप्यन्ते जाताः षट्, ते च चतुष्के क्षिप्यन्ते जाता दश, ते च पञ्चके क्षिप्यन्ते जाता पञ्चदश, ते च षट्के जाता एकविंशतिः, सा च सप्तके जाता अष्टाविंशतिः सा चाष्टके जाता षट्त्रिंशत् सा च नवके जाता पञ्चचत्वारिंशत् सा च दशके जाता पञ्चपञ्चाशत् सा च एकादशे क्षिप्यते जाता षट्षष्टिः, एषा च नोपरिस्थे द्वादशके क्षिप्यते, किंतु द्वादशकस्तदवस्थ एव ध्रियते, 'एकेकहाणि'त्ति वचनात् , इति प्रथमप्रक्षेपः । पुनश्चैककखिके क्षिप्यते जाताश्चत्वारः, ते च षट्के क्षिप्यन्ते, जाता दुश, ते च दशके जाता विंशतिः, सा च पञ्चदशके जाता पञ्चत्रिंशत्, सा चैकविंशतो जाता षट्पञ्चाशत् , सा चाष्टाविंशतौ जाता चतुरशीतिः, सा च षड्विंशतो जातं विंशत्युत्तरं शतं, तच्च पञ्चचत्वारिंशति जातं पञ्चषष्ट्याधिकं शतं, तदपि पञ्चपञ्चाशति प्रक्षिप्यते, जातं विंशत्युत्तरं शतद्वयं, एतच्चोपरिस्थितषषष्टौ न क्षिप्यते, "एक्केकहाणि'त्ति वचनात्, इति द्वितीयः क्षेपः । एवं च वारंवारं चरममकं वर्जयित्वोपर्युपरि तावदकाः प्रक्षेप्तव्या यावदेकादशः क्षेपः, एककस्त्वन्त्य. त्वान्न कुत्रापि क्षिप्यते इति द्वादशस्य क्षेपस्यासंभवः । स्थापना तदेवं एककसंयोगा द्वादश द्विकसंयोगाः षट्षष्टिः त्रिकसंयोगा द्वे शते विंशत्युत्तरे चतुष्कसंयोगाश्चत्वारि शतानि पञ्चनवत्यधिकानि पञ्चकसंयोगाः सप्त शतानि द्विनवत्य
९२५ धिकानि षट्कसंयोगा नव शतानि चतुर्विशत्यधिकानि सप्त
१६६/२१०३३०४९५ कसंयोगाः सप्त शतानि द्विनवत्यधिकानि अष्टकसंयोगाश्व
२० ३५, ६६ ८४ १२० १२५/२२० त्वारि शतानि पञ्चनवत्युत्तराणि नवकसंयोगा द्वे शते विंश
२१/ २८ ३६ ४५ ५५ ६६ त्युत्तरे दशकसयोगाः षट्षष्टिः एकादशसंयोगा द्वादश द्वादशकसंयोगः पुनरेक एवेति ॥ ३४॥ अथवा प्रकारान्तरेण संयोगसङ्ख्यापरिज्ञानोपायमाह-'अहवे'त्यादि, अथवा पदानि-विवक्षितबतलक्षणानि पट्टिकादौ स्थापयित्वा अक्षान् गृहीत्वा क्रमेण चारणां कुर्यात् , तत एकद्विकादिसंयोगविषये भङ्गाः समुत्पद्यन्ते, तेषां सङ्ख्या कर्तव्या, इह च यद्यपि द्वादशी देवकुलिका वक्तुमुपक्रान्ता तथापि लाघवार्थ पश्चाणुव्रतान्येवाश्रित्य भावनाऽमिधीयते, तत्र पञ्चानां पदानामेकसंयोगे एकैकचारणया पश्च भङ्गाः, द्विकसंयोगे दश, ते चैवं-प्रथमद्वितीयप्रथमतृतीयप्रथमचतुर्थप्रथमपञ्चमचारणया चत्वारः, द्वितीयतृतीयद्वितीयचतुर्थद्वितीयपञ्चमचारणया त्रयः तृतीयचतुर्थतृतीयपञ्चमचारणया द्वौ चतुर्थपञ्चमचारणया त्वेकः सर्वे दश, तथा त्रिकयोगेऽपि दश, ते चैवं-प्रथमद्वितीयतृतीय-प्रथमद्वितीयचतुर्थ-प्रथमद्वितीयपञ्चम-प्रथमतृतीयचतुर्थ-प्रथमतृतीयपञ्चम-प्रथमचतुर्थपञ्चमचारणया षटू, द्वितीयतृतीयचतुर्थ-द्वितीयतृतीयपश्चम-द्वितीयचतुर्थपञ्चमचारणया त्रयः, तृतीयचतुर्थपञ्चमचारणया त्वेकः, सर्वे दश, चतुःसंयोगे पञ्च, ते चैवं-प्रथमद्वितीयतृतीयचतुर्थचारणया एकः प्रथमद्वितीयतृतीयपञ्चमचारणया द्वितीयः प्रथमद्वितीयचतुर्थपञ्चमचारणया तृतीयः प्रथमतृतीयचतुर्थपञ्चमचारणया चतुर्थः द्वितीयतृतीयचतुर्थपञ्चमचारणया तु पञ्चमः, पञ्चकयोगे पुनश्चारणाया असंभवादेक एव भङ्ग इति ॥ ३५ ॥ एवं सर्वत्रापि चारणा करणीया, अथ सूत्रकारः साक्षादेव द्वादश्या देवकुलिकायाः क्रमेण गुणकारकराशीनाह–'बारसे'त्यादि गाथाद्वयं, द्वादश षट्पष्टिविंशत्यधिके द्वे शते "पंच नव चउरोत्ति पञ्च नव चत्वारश्च, गणितव्यवस्थावशतो व्युत्क्रमेण स्थाप्यन्ते, ततो भवन्ति पञ्चनवत्युत्तराणि चत्वारि शतानि, एवमग्रेऽपि, 'दो नव सत्त यत्ति द्विनवत्यधिकानि सप्त शतानि, 'चउ दोन्नि नक यत्ति चतुर्विशत्युत्तराणि नव शतानि, 'दो नव य सत्तेवत्ति द्विनवत्यधिकानि सप्त शतानि, 'पण नव चउरो'त्ति पञ्चनवत्युत्तराणि चत्वारि शतानि, विंशत्युत्तरे द्वे शते षट्षष्टिादश
७९२
m . mer
.
४६२
१६२७९२
مه وه بگره س له ما
.
:
263

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310