Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 270
________________ द्विविधत्रिविधादयः षड्नङ्गाः स्थाप्यन्ते, तेषां षण्णां भङ्गानां क्रमेणैते वक्ष्यमाणा भेदा-उत्तरविकल्पा भवन्ति, तथाहि-प्रथममेकः स्थाप्यते, तदनन्तरं क्रमेण द्वौ त्रिको तत एको द्विकः तदनु क्रमेण द्वौ षट्को, इयमत्र भावना-प्रागुक्तायाः षड्नद्याः प्रथमे भङ्गे एक एव भेदः, द्वितीयभङ्गे उत्तरभेदात्रयः, तृतीयेऽपि त्रयः, चतुर्थे द्वौ, पञ्चमे षट् , षष्ठेऽपि मूलभङ्गे उत्तरभङ्गाः षडियेवं षड्नङ्ग्यामुत्तरभङ्गका मिलिता एकविंशतिरिति, स्थापना चेयं PRRIED योगाः । इति करणकारणमनोवाकायैरुत्तरभेदाः, 'उत्तरगुण सत्तमओ'त्ति प्रतिपन्नोत्तरगुणः सप्तमो भेदः, श्राव-RDER करणानि काणां हि द्विधा नियमो-मूलगुणविषय उत्तरगुणविषयश्च, तत्र मूलभूता गुणा मूलगुणाः-पञ्चा- || ३ ३ २ ६६] भङ्गाः । णुव्रतानि उत्तरभूता गुणा उत्तरगुणाः-त्रीणि अणुव्रतानि चत्वारि च शिक्षाब्रतानि, इह च संपूर्णासंपूर्णोत्तरगुणभेदमनादृत्य सामान्येनैक एव भेदो विवक्षितः, 'अविरयओ अट्ठमो होइ'त्ति अविरत:-अविरतसम्यग्दृष्टिरष्टमो भेदः, तदेवमुक्ता अष्टविधाः श्रावकाः । अथ द्वात्रिंशद्विधानाह-'वयमेगेगं' इत्यादि, एकैकं स्थूलप्राणातिपातविरमणादिकं व्रतं षनिर्विधामिः-भेदैर्गुणितं-ताडितं द्विविधत्रिविधादिकया पूर्वोक्तया षड्नन्या गुणितमित्यथः, प्रतिपनोचरगुणाविरतसम्यग्दृष्टिलक्षणभेदद्विकमिलितं द्वात्रिंशद्भवन्ति, तथाहि-स्थूलप्राणातिपातविरतिं षड्भङ्गीमध्यात्कश्चिदायेन भङ्गेन गृहाति कश्चिद् द्वितीयेन कश्चित् तृतीयेन कश्चिञ्चतुर्थेन कश्चित्पश्चमेन कश्चित् षष्ठेनेति प्राणातिपातविरतेः षड् भङ्गाः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रत्येकं षड् भला वाच्याः मिलिताश्च त्रिंशत् । आवश्यके पुनरेवं त्रिंशद्भङ्गाः-यथा कश्चित्पश्चाप्यणुप्रतानि समुदितान्येव गृहाति, तत्र च द्विविधत्रिविधादयः षड्नेदाः, अन्यो व्रतचतुष्टयं गृह्णाति तत्रापि षट् , अपरो व्रतत्रयं तत्रापि षट्, अन्यो व्रतद्वयं तत्रापि षट् , अन्यस्त्वेकमेवाणुव्रतं गृह्णाति तत्रापि षडेव भङ्गाः, एवमेते पञ्च षटकात्रिंशद्भवन्ति, उत्तरगुणाविरतसहितास्तु द्वात्रिंशत् ॥ २३ ॥ एवं तावदावश्यकनियुक्त्यभिप्रायेण कृता भनप्ररूपणा, सांप्रतं पंचत्रिंशदुसरसप्तशतसङ्ख्याम् श्रावकभेदान् प्रतिपिपादयिपुर्भगवत्यमिप्रायेण नवभङ्गीमाह-'तिन्नी'यादि, योगेषु-करणकारणानुमतिरूपेषु त्रयस्त्रिकाः त्रयो द्विकाः त्रय एककाश्च भवन्ति क्रमेण स्थाप्या इति शेषः, तदधस्ताच क्रमेण त्रीणि द्वे एकं त्रीणि वे एकं त्रीणि वे एकं चैव करणानि-मनोवाकायलक्षणानि स्थाप्यानि भवन्तीति पदघटना, भावार्थः पुनरयं-त्रिविधं त्रिविधेनेति प्रथमो भङ्गः, कश्चिद् गृही सावधं योगं न करोति न कारयति नान्यं समनुजानीते मनसा वचसा कायेन चेत्येको भङ्ग इति भावः, त्रिविधं द्विविधेनेति द्वितीयो मूलभङ्गः • अत्रोत्तरभङ्गालयः, तथाहि-न करोति न कारयति नानुजानीते मनसा वाचा १ यद्वा मनसा कायेन २ यद्वा वचसा कायेन ३, त्रिविधमेकविधेनेति तृतीयो भङ्गः, अत्राप्युत्तरभङ्गात्रयस्तथाहि-न करोति न कारयति नानुजानीते मनसा १ यद्वा वचसा २ यद्वा कायेन ३, द्विविधं त्रिविधेनेति चतुर्थों भङ्गः, अत्राप्युत्तरभङ्गात्रयः, तथाहि-न करोति न कारयति मनसा वचसा कायेन १ यता न करोति नानुजानीते त्रिभिरपि करणैः.२, यद्वा न कारयति नानुजानीते त्रिमिरपि करणैः ३, द्विविधं द्विविधेनेति पञ्चमो भक्ता, अत्र चोत्तरभेदा नव, तथाहि-न करोति न कारयति मनसा वचसा १ यद्वा मनसा कायेन २ यद्वा वचसा कायेन ३ अथवा न करोति नानुजानीते मनसा वचसा ४ यद्वा मनसा कायेन ५ यद्वा वचसा कायेन ६ अथवा न कारयति नानुजानीते मनसा वचसा ७ यद्वा मनसा कायेन ८ यद्वा वचसा कायेन ९, द्विविधमेकविधेनेति षष्ठो भङ्गः, अत्राप्युत्तरभेदा नव, तथाहि-न करोति न कारयति मनसा १ यद्वा वचसा २ यद्वा कायेन ३ अथवा न करोति नानुजानीते मनसा ४ यद्वा वचसा ५ यद्वा कायेन ६ अथवा न कारयति नानुजानीते मनसा ७ यद्वा वचसा ८ यद्वा कायेन ९, एकविधं त्रिविधेनेति सप्तमो भगः, अत्र चोत्सरभङ्गाखया, तथाहि -न करोति मनसा वचसा कायेन १ यद्वा न कारयति त्रिमिरपि करणः २ यद्वा नानुजानीते त्रिमिरपि करणैः ३, एकविषं द्विविधेनेत्यष्टमो भङ्गः, अत्र चोत्तरविकल्पा नव, तथाहि-न करोति मनसा वचसा १ यद्वा मनसा कायेन २ यद्वा वचसा कायेन ३ अथवा न कारयति मनसा वचसा ४ यद्वा मनसा कायेन ५ यद्वा वचसा कायेन ६, अथवा नानुजानीते मनसा वचसा . यहा मनसा कायेन ८ यद्वा वचसा कायेन ९, एकविधं एकविधेनेति नवमो मूलभङ्गः, अत्राप्युत्तरविकल्पा नव, तथाहि-न करोति मनसा १ यद्वा वचसा २ यद्वा कायेन ३ अथवा न कारयति मनसा ४ यद्वा वचसा ५ यद्वा कायेन ६ अथवा नानुजानीते मनसा ७ यद्वा वचसा ८ यद्वा कायेनेति ९ । तदेवं मूलभङ्गा नव उत्तरभङ्गास्तु मीलिताः सर्वसङ्ख्यया एकोनपश्चाशत् , सक्तं च-"तिविहंति विहेण पढमो तिविहं दुविहेण बीयओ होइ । तिविहं एगविहेणं दुविहं तिविहेण ति च उत्यो॥१॥ दुविहंदुविहेण पंचम दुविहेकविहेण छहमो होइ । एक्कविहं तिविहेणं दुविहेण य सत्तमट्ठमओ ॥ २॥ एकविहेक्कविहेणं नवमो पढमंमि एकमलो उ । सेसेसु तिनि तिमि य विनि य नव नव य वह तिन्नि ॥३॥ नव नव य होंति कमसो एए सव्वेवि इगुणवन्नासं ॥" स्थापना.. इति करणकारणानुमतिमनोवाकायाः, ननु च वाकायाभ्यां तावत्प्रत्यक्षाविप्रमाणत एव करणकार- 22- MOD णानुमतयो दृश्यन्ते, मनसस्तु ताः कथं प्रत्येतव्याः१, अन्तर्व्यापारत्वेन परैरनुपलक्ष्यमाणत्वात् ,"DARD NRN) उच्यते, निर्व्यापारकायवचनो यदा सावधयोगकरणादि मनसा विकल्पयति तदा मुख्यतया कायवचनवन्मनस्यपि करणादीनि संभवन्ति, तथाहि-सावद्ययोगमेनमहं करोमीत्येवं यदा मनसा चिन्तयति तदा करणं, यदा तु मनसा चिन्तयति करोत्वेष सावा असावपि चेणितज्ञोऽमिप्रायादेव प्रवर्तते तदा कारणं, यदा पुनः सावद्यव्यापार विधाय मनसा चिन्तयति-सुष्टु कृत 261

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310