________________
द्विविधत्रिविधादयः षड्नङ्गाः स्थाप्यन्ते, तेषां षण्णां भङ्गानां क्रमेणैते वक्ष्यमाणा भेदा-उत्तरविकल्पा भवन्ति, तथाहि-प्रथममेकः स्थाप्यते, तदनन्तरं क्रमेण द्वौ त्रिको तत एको द्विकः तदनु क्रमेण द्वौ षट्को, इयमत्र भावना-प्रागुक्तायाः षड्नद्याः प्रथमे भङ्गे एक एव भेदः, द्वितीयभङ्गे उत्तरभेदात्रयः, तृतीयेऽपि त्रयः, चतुर्थे द्वौ, पञ्चमे षट् , षष्ठेऽपि मूलभङ्गे उत्तरभङ्गाः षडियेवं षड्नङ्ग्यामुत्तरभङ्गका मिलिता एकविंशतिरिति, स्थापना चेयं PRRIED योगाः । इति करणकारणमनोवाकायैरुत्तरभेदाः, 'उत्तरगुण सत्तमओ'त्ति प्रतिपन्नोत्तरगुणः सप्तमो भेदः, श्राव-RDER करणानि काणां हि द्विधा नियमो-मूलगुणविषय उत्तरगुणविषयश्च, तत्र मूलभूता गुणा मूलगुणाः-पञ्चा- || ३ ३ २ ६६] भङ्गाः । णुव्रतानि उत्तरभूता गुणा उत्तरगुणाः-त्रीणि अणुव्रतानि चत्वारि च शिक्षाब्रतानि, इह च संपूर्णासंपूर्णोत्तरगुणभेदमनादृत्य सामान्येनैक एव भेदो विवक्षितः, 'अविरयओ अट्ठमो होइ'त्ति अविरत:-अविरतसम्यग्दृष्टिरष्टमो भेदः, तदेवमुक्ता अष्टविधाः श्रावकाः । अथ द्वात्रिंशद्विधानाह-'वयमेगेगं' इत्यादि, एकैकं स्थूलप्राणातिपातविरमणादिकं व्रतं षनिर्विधामिः-भेदैर्गुणितं-ताडितं द्विविधत्रिविधादिकया पूर्वोक्तया षड्नन्या गुणितमित्यथः, प्रतिपनोचरगुणाविरतसम्यग्दृष्टिलक्षणभेदद्विकमिलितं द्वात्रिंशद्भवन्ति, तथाहि-स्थूलप्राणातिपातविरतिं षड्भङ्गीमध्यात्कश्चिदायेन भङ्गेन गृहाति कश्चिद् द्वितीयेन कश्चित् तृतीयेन कश्चिञ्चतुर्थेन कश्चित्पश्चमेन कश्चित् षष्ठेनेति प्राणातिपातविरतेः षड् भङ्गाः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रत्येकं षड् भला वाच्याः मिलिताश्च त्रिंशत् । आवश्यके पुनरेवं त्रिंशद्भङ्गाः-यथा कश्चित्पश्चाप्यणुप्रतानि समुदितान्येव गृहाति, तत्र च द्विविधत्रिविधादयः षड्नेदाः, अन्यो व्रतचतुष्टयं गृह्णाति तत्रापि षट् , अपरो व्रतत्रयं तत्रापि षट्, अन्यो व्रतद्वयं तत्रापि षट् , अन्यस्त्वेकमेवाणुव्रतं गृह्णाति तत्रापि षडेव भङ्गाः, एवमेते पञ्च षटकात्रिंशद्भवन्ति, उत्तरगुणाविरतसहितास्तु द्वात्रिंशत् ॥ २३ ॥ एवं तावदावश्यकनियुक्त्यभिप्रायेण कृता भनप्ररूपणा, सांप्रतं पंचत्रिंशदुसरसप्तशतसङ्ख्याम् श्रावकभेदान् प्रतिपिपादयिपुर्भगवत्यमिप्रायेण नवभङ्गीमाह-'तिन्नी'यादि, योगेषु-करणकारणानुमतिरूपेषु त्रयस्त्रिकाः त्रयो द्विकाः त्रय एककाश्च भवन्ति क्रमेण स्थाप्या इति शेषः, तदधस्ताच क्रमेण त्रीणि द्वे एकं त्रीणि वे एकं त्रीणि वे एकं चैव करणानि-मनोवाकायलक्षणानि स्थाप्यानि भवन्तीति पदघटना, भावार्थः पुनरयं-त्रिविधं त्रिविधेनेति प्रथमो भङ्गः, कश्चिद् गृही सावधं योगं न करोति न कारयति नान्यं समनुजानीते मनसा वचसा कायेन चेत्येको भङ्ग इति भावः, त्रिविधं द्विविधेनेति द्वितीयो मूलभङ्गः • अत्रोत्तरभङ्गालयः, तथाहि-न करोति न कारयति नानुजानीते मनसा वाचा १ यद्वा मनसा कायेन २ यद्वा वचसा कायेन ३, त्रिविधमेकविधेनेति तृतीयो भङ्गः, अत्राप्युत्तरभङ्गात्रयस्तथाहि-न करोति न कारयति नानुजानीते मनसा १ यद्वा वचसा २ यद्वा कायेन ३, द्विविधं त्रिविधेनेति चतुर्थों भङ्गः, अत्राप्युत्तरभङ्गात्रयः, तथाहि-न करोति न कारयति मनसा वचसा कायेन १ यता न करोति नानुजानीते त्रिभिरपि करणैः.२, यद्वा न कारयति नानुजानीते त्रिमिरपि करणैः ३, द्विविधं द्विविधेनेति पञ्चमो भक्ता, अत्र चोत्तरभेदा नव, तथाहि-न करोति न कारयति मनसा वचसा १ यद्वा मनसा कायेन २ यद्वा वचसा कायेन ३ अथवा न करोति नानुजानीते मनसा वचसा ४ यद्वा मनसा कायेन ५ यद्वा वचसा कायेन ६ अथवा न कारयति नानुजानीते मनसा वचसा ७ यद्वा मनसा कायेन ८ यद्वा वचसा कायेन ९, द्विविधमेकविधेनेति षष्ठो भङ्गः, अत्राप्युत्तरभेदा नव, तथाहि-न करोति न कारयति मनसा १ यद्वा वचसा २ यद्वा कायेन ३ अथवा न करोति नानुजानीते मनसा ४ यद्वा वचसा ५ यद्वा कायेन ६ अथवा न कारयति नानुजानीते मनसा ७ यद्वा वचसा ८ यद्वा कायेन ९, एकविधं त्रिविधेनेति सप्तमो भगः, अत्र चोत्सरभङ्गाखया, तथाहि -न करोति मनसा वचसा कायेन १ यद्वा न कारयति त्रिमिरपि करणः २ यद्वा नानुजानीते त्रिमिरपि करणैः ३, एकविषं द्विविधेनेत्यष्टमो भङ्गः, अत्र चोत्तरविकल्पा नव, तथाहि-न करोति मनसा वचसा १ यद्वा मनसा कायेन २ यद्वा वचसा कायेन ३ अथवा न कारयति मनसा वचसा ४ यद्वा मनसा कायेन ५ यद्वा वचसा कायेन ६, अथवा नानुजानीते मनसा वचसा . यहा मनसा कायेन ८ यद्वा वचसा कायेन ९, एकविधं एकविधेनेति नवमो मूलभङ्गः, अत्राप्युत्तरविकल्पा नव, तथाहि-न करोति मनसा १ यद्वा वचसा २ यद्वा कायेन ३ अथवा न कारयति मनसा ४ यद्वा वचसा ५ यद्वा कायेन ६ अथवा नानुजानीते मनसा ७ यद्वा वचसा ८ यद्वा कायेनेति ९ । तदेवं मूलभङ्गा नव उत्तरभङ्गास्तु मीलिताः सर्वसङ्ख्यया एकोनपश्चाशत् , सक्तं च-"तिविहंति विहेण पढमो तिविहं दुविहेण बीयओ होइ । तिविहं एगविहेणं दुविहं तिविहेण ति च उत्यो॥१॥ दुविहंदुविहेण पंचम दुविहेकविहेण छहमो होइ । एक्कविहं तिविहेणं दुविहेण य सत्तमट्ठमओ ॥ २॥ एकविहेक्कविहेणं नवमो पढमंमि एकमलो उ । सेसेसु तिनि तिमि य विनि य नव नव य वह तिन्नि ॥३॥ नव नव य होंति कमसो एए सव्वेवि इगुणवन्नासं ॥" स्थापना.. इति करणकारणानुमतिमनोवाकायाः, ननु च वाकायाभ्यां तावत्प्रत्यक्षाविप्रमाणत एव करणकार- 22-
MOD णानुमतयो दृश्यन्ते, मनसस्तु ताः कथं प्रत्येतव्याः१, अन्तर्व्यापारत्वेन परैरनुपलक्ष्यमाणत्वात् ,"DARD NRN) उच्यते, निर्व्यापारकायवचनो यदा सावधयोगकरणादि मनसा विकल्पयति तदा मुख्यतया कायवचनवन्मनस्यपि करणादीनि संभवन्ति, तथाहि-सावद्ययोगमेनमहं करोमीत्येवं यदा मनसा चिन्तयति तदा करणं, यदा तु मनसा चिन्तयति करोत्वेष सावा असावपि चेणितज्ञोऽमिप्रायादेव प्रवर्तते तदा कारणं, यदा पुनः सावद्यव्यापार विधाय मनसा चिन्तयति-सुष्टु कृत
261